इन्द्र कुमार गुजराल

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
(इन्द्र कुमार गुजरालः इत्यस्मात् पुनर्निर्दिष्टम्)
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
Inder Kumar Gujral
List of Prime Ministers of India।12th Prime Minister of India
कार्यालये
21 April 1997 – 19 March 1998
राष्ट्रपतिः Shankar Dayal Sharma
K. R. Narayanan
पूर्वगमः H. D. Deve Gowda
पादानुध्यातः Atal Bihari Vajpayee
Minister of Finance (India)।Minister of Finance
कार्यालये
21 April 1997 – 1 May 1997
पूर्वगमः P. Chidambaram
पादानुध्यातः P. Chidambaram
Minister of External Affairs (India)।Minister of External Affairs
कार्यालये
1 June 1996 – 19 March 1998
प्रधानमन्त्री H. D. Deve Gowda
पूर्वगमः Sikander Bakht
पादानुध्यातः Atal Bihari Vajpayee
कार्यालये
5 December 1989 – 10 November 1990
प्रधानमन्त्री V. P. Singh
पूर्वगमः V. P. Singh
पादानुध्यातः Vidya Charan Shukla
व्यक्तिगत विचाराः
जननम् फलकम्:Birth date।df=y।1919।12।04।
Jhelum, Punjab Province (British India)।Punjab, British Raj।British India
(now in Punjab, Pakistan।Punjab, Pakistan)
मरणम् फलकम्:Death date and age।df=y।2012।11।30।1919।12।04
Gurgaon, Haryana, India
राजनैतिकपक्षः Janata Dal (1988–1998)
Independent (politician)।Independent(1998 onwards)
अन्यराजनैतिक-
सम्बन्धः
Indian National Congress (Before 1988)
पतिः/पत्नी Shiela Gujral
मुख्यशिक्षणम् D.A.V. College,
Hailey College of Commerce
Forman Christian College University
धर्मः Hinduism

स्वतन्त्र भारतस्य त्रयोदशः प्रधानमन्त्रिरूपेण अधिकारं स्वीकृतः इन्द्र कुमार गुजरालः १९१९ तमे वर्षे डिसेम्बर् चतुर्थदिनाङ्के पञ्जाबराज्यस्य झीलं प्रदेशे जन्मं प्राप्तवान्। वस्तुतः झीलं प्रान्तः पाकिस्थानस्य ईशान्यभागे अस्ति।

बाल्यारभ्य प्रतिभावान् गुज्रालः स्वातन्यात् पूर्वं स्वातन्यसङ्ग्रामान्दोलने ब्रिटीष् विरुद्धं घोषणान् कृतवान्। १९४२ तमे वर्षे महात्मा गान्धिना प्रारम्भं कृतं ”भारतं त्यक्त्वा गच्छन्तु” आन्दोलने भागं गृहित्वा कारागृहवासम् अनुभूतवान्।

राजनैतिकक्षेत्रे दायित्वनिर्वहणम्[सम्पादयतु]

इन्द्र कुमार् गुज्रालः वार्ता तथा प्रसारविभागे, सम्सदीयव्यवहारे, योजनामन्त्रिरूपेण केन्द्रसर्वकारे सेवां कृत्वा १९७५ तमे वर्षे आपत्कालपरिस्तिथिसमये वार्ता तथा प्रसारविभागस्य राज्यमन्त्री आसीत्। १९७५ तमे वर्षे अलहाबाद् उच्च न्यायालयेन श्रीमती इन्दिरा गान्धिः संविधानस्य विरोधं कृत्वा प्रधानमन्त्रिणी अभवत् इति निश्चित्य तस्याः चयनम् असिन्धु इति घोषितम् । तदा सञ्जय गान्धिः पार्श्वराज्यतः वस्तुवाहकेन जनान् आनीय एते प्रधानमन्त्रिण्याः अनुयायिनः इति जनानां पुरतः प्रदर्शितवान्। अयं विषयः माध्यमेषु दर्शनीयः इति वार्ता तथा प्रसार विभागस्य मन्त्रिणं गुजरालमुद्दिश्य आग्रहः अन्येन कृतः । यदा गुज्रालः एतद् कार्यं कर्तुं निराकृतवान्, तदा वार्ता तथा प्रसार विभागं विद्याचरण शुक्लायाः कृते दत्तवन्तः।

१९८० तमे वर्षे गुज्रालः रष्यादेशे भारतस्य राजदूतरूपेण चितः अभवत्। १९८९ तमस्य वर्षस्य निर्वाचने गुज्रालः पञ्जाबस्य जलन्धरलोकसभाक्षेत्रतः स्पर्धित्वा चितः अभवत्। वी. पी. सिंहस्य शासने एषः सचिवः भूत्वा सेवां कृतवान्। एतस्मिन् अवधौ एषः कुवैत् उपरि इराक् आक्रमणस्य विषयं समर्थरीत्या निरूढवान्।

१९९२ तमे वर्षे गुज्रालः जनतादलस्य नायकः भूत्वा राज्यसभायाः कृते चितः अभवत्। १९९६ तमस्य वर्षस्य निर्वाचनस्य अनन्तरं केन्द्रे ’संयुक्तरङ्ग’ सर्वकारस्य रचना जाता। पुनः सचिवः भूतः गुज्रालः ’गुज्रा्ल सिद्धान्तं’ प्रकाशे आनीय प्रतिवेशिराष्ट्रैः सह उत्तमं बान्धव्यं कल्पितवान्। बाङ्ग्लादेशेन सह बहु कालेभ्यः विद्यमाना गङ्गानद्याः जलसमस्या एतेन परिहृतम् ।

प्रधानमन्त्रिस्थानम्[सम्पादयतु]

१९९७ तमे वर्षे संयुक्त रङ्ग पक्षस्य कृते बहिष्ठात् दत्तः सहकारः काङ्ग्रेस् पक्षेण प्रतिस्वीकृतः । अतः सर्वकारस्य पतनं जातम् । ततः पुनर्निर्वाचनस्य सन्दर्भः आसीत् चेदपि सर्वपक्षाणाम् अनुमत्या संयुक्त रङ्गस्य सर्वकारं पुरतः नेतुं निर्णयः कृतः। एतस्य कारणात् १९९७ तमे वर्षे एप्रिल्मासस्य २१ तमे दिनाङ्के प्रधानमन्त्री देवेगौडः त्यागपत्रं दत्तवान् । तदा ए. के. गुज्रालः नूतनप्रधानमन्त्रिरूपेण प्रमाणवचनं स्व्यकरोत् ।

गुज्रालः प्रधानमन्त्रिरूपेण एकादशमासान् यावत् कार्यं निरूढवान् । अस्मिन् अत्यल्पावधौ गुज्रालः पाकिस्थानेन सह उत्तमबान्धव्यं प्राप्तुं बहु श्रमं कृतवान्। अनारोग्यपीडितानां सर्वकारीयसंस्थानां परिष्करणे तस्य योगदानं महदस्ति । १९९७ तमे वर्षे भारत-रषिया-आर्थिकसमस्याः निवारयितुं महान्तं प्रयत्नं कृतवान्।

१९९७ तमे वर्षे राजीव गान्धेः हननप्रकरणस्य विचारणावसरे जैन-आयोगस्य मध्यन्तरेतिवृत्तं माध्यमजनैः अक्रमेण प्राप्तम् । तस्मिन् इतिवृत्ते ए्ल.टी.टी.ई. सङ्घटनायाः कृते सहकारं यच्छन् द्राविड मुन्नेत्र कळगस्य पक्षमेव राजीवगान्धेः हननस्य कारणीभूतम् इति अंशः प्रकटितः आसीत्। जैन् वार्तायाः अनुसारं सचिवसम्पुटतः डि.एम्.के. पक्षस्य सचिवान् त्यक्तुं काङ्ग्रेस् आग्रहं कृतम् आसीत्। एतस्य कृते अनुमतिः यदा न सूचिता, तदा ऐ. के. गुज्रालस्य संयुक्त रङ्गस्य सर्वकारस्य कृते दत्तं सहमतं काङ्ग्रेस्-प्रक्षेण प्रतिस्वीकृतम् । एतस्मात् कारणात् ऐ. के. गुज्रालः १९९७ तमे वर्षे नवेम्बर्-मासस्य २८ तमे दिनाङ्के त्यागपत्रं दत्तवान्।

भारतस्वातन्त्रस्य सुवर्णमहोत्सवं गुजरालसर्वकारः वर्णरञ्जितरीत्या आचरणम् अकरोत् ।

१९९८ तमस्य वर्षस्य निर्वाचने गुज्रालः पञ्जाबस्य अकाली दलस्य सहमतेन जलन्धर क्षेत्रतः स्पर्धित्वा तस्य प्रतिस्पर्धिनम् उम्रावो सिङ्गं १,३१,००० अधिकमतैः तं पराजितवान्। तस्मिन् समये भारतीयजनतापक्षसर्वकारेण कृतायाः अण्वस्त्रपरीक्षायाः, बिहारराज्ये राष्ठ्रपतिशासनं यत् सण्स्थापितं तस्य च खण्डनं कृतवान् । सः प्रधानमन्त्रिणः अटल बिहारी वजपेयी महोदयस्य पाकिस्थान सम्पर्कसाधनम् अभिनन्दितवान्। १९९९ तमे वर्षे ए.डि.एम्.के. पक्षस्य सहकारस्य प्रतिस्वीकरणकारणतः भारतीयजनतापक्षेण विश्वासमतं याचितम्। गुज्रालः सर्वकारस्य विरोधम् अकरोत् । तस्मिन् वर्षे जाते निर्वाचने अस्पर्धयन् राजकीयजीवनतः निवृत्तिं प्राप्नोत् ।


बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=इन्द्र_कुमार_गुजराल&oldid=285184" इत्यस्माद् पुनः प्राप्तिः