इरावती कर्वे
इरावती कर्वे | |
---|---|
जन्म |
१९०५ बर्मा |
मृत्युः | 11 August 1970 |
निवासः | पुणे, भारतम् |
देशीयता | भारतम् |
शिक्षणस्य स्थितिः | मुंबई विश्वविद्यालयम्, Huzurpaga, Fergusson College |
वृत्तिः | अन्त्रपोलोजि |
अपत्यानि | Gauri Deshpande |
इरावती कर्वे (१९०५-१९७०) भारतीया समाजशास्त्रज्ञा, मानवशास्त्रज्ञा, शिक्षणतज्ज्ञा, लेखिका च आसीत् ।
बाल्यं शिक्षणञ्च
[सम्पादयतु]इरावती १९०५ तमे वर्षे धनिके चित्पावन-ब्राह्मणकुटुम्बे जन्म प्राप्तवती । तस्याः पिता गणेश हरि कर्माकर् । सः बर्मा काटन्-संस्थायाम् उद्योगी आसीत् । बर्मादेशस्य इरवड्डी-नद्याः स्मरणरूपेण सा इरावती इति नामाङ्किता । सप्तमे वयसि सा पुणेनगरस्थे बालिकासवसतिकविद्यालये योजिता । १९२६ तमे वर्षे सा फर्गुसन्-महाविद्यालयतः पदवीधरा जाता । ततः सा बाम्बे-विश्वविद्यालयतः छात्रवृत्तिं प्राप्य समाजशास्त्रस्य अध्ययनं जि एस् घुर्येवर्यस्य मार्गदर्शने अकरोत् । १९२८ तमे वर्षे स्नातकोत्तरपदवीधरा जाता । तदवसरे तया स्वस्य चित्पावनब्राह्मणकुलविषये अध्ययनं कृत्वा शोधप्रबन्धः प्रस्तुतः । इरावत्याः विवाहः दिनकर् धोण्डो कार्वे नामकेन रसायनशास्त्रशिक्षकेन सह अभवत्। किन्तु अस्मिन् विवाहे दिनकरस्य पितुः पूर्णानुमोदनं न आसीत् । उच्चशिक्षणार्थं इरावती जेर्मनीं प्रेषणीया इत्येषः दिनकरस्य निर्णयः दिनकरस्य पित्रे न अरोचत । तथापि जीवराजमेह्ता इत्येषः भारतीयराष्ट्रियकाङ्ग्रेस्-पक्षस्य सदस्यः धनं ऋणरूपेण दत्तवान् । एतेन सहाय्येन इरावती जेर्मनीं गत्वा कैसेर्विल्हेम्इन्स्टिटुट् मध्ये मानवजानिशास्त्रम् अधीय आनुवंशिकता एवं वंशावली विषये संशोधनं कृत्वा पि हेच् डी प्राप्तवती । अनन्तरं भारतं प्रत्यागम्य, दिनकरमहोदयेन सह अवसत् । तयोः जीवनं अनिरूढः तद्कालसामाजिकनियमरहितः एव आसीत् । दिनकरः नास्तिकः । तथापि इरावती पण्डरापुरविठोभादेवालयं सम्प्रदायानुसारं गच्छति स्म ।
वृत्तिजीवनम्
[सम्पादयतु]इरावती कार्वे १९३१ तमवर्षतः १९३६ तमवर्षपर्यन्तं बाम्बे एस् एम् डी टी महिलाविश्वविद्यालये स्नातकोत्तरविभागे प्राध्यापिकारूपेण कार्यम् अकरोत् । अनन्तरं स्नातकोत्तरकक्ष्यासु पाठयति स्म । १९३९ तमे वर्षे पूणे नगरे डेक्कन्महाविद्यालये प्राध्यापिकारूपेण सेवानिवर्तनपर्यन्तम् अपाठयत् । नन्दिनी सुन्दर नाम चरितलेखिकायाः अभिप्रायानुसारम् इरावती प्रथमा भरतीयमहिलामानवजानिशास्त्रज्ञा । पूना (तद्कालीननाम) विश्वविद्यालये मानवजानिशास्त्रविभागं सा स्थापितवती आसीत् । एवं विभागस्य प्रथमाध्यक्षका भूत्वा अनेकाः वर्षाः सेवां कृतवति । १९४७ तमे वर्षे नवदेहेलीनगरे राष्ट्रियविज्ञानकाङ्ग्रेस्-संस्थया योजितस्य मानवजनिशास्त्रविभागस्य सम्मेलनस्य अध्यक्षा आसीत् । सा मराठी-आङ्लभाषयोः लिखति स्म ।
साहित्यकृतयः
[सम्पादयतु]तस्याः रचनेषु प्रधानानि
- किन्षिप् आर्गनैसेषन् इन् इन्डिया (आङ्ग्लम्)
- हिन्दु सोसैटि-अन् इन्टर्प्रेटेषन् (आङ्ग्लम्)
- महाराष्ट्-लेन्ड् अन्ड् पीपिल् (आङ्लम्)
- युगन्ता ( मराठी एवं आङ्ल) । (मराठीग्रन्थेन १९६७ तमस्य वर्षस्य श्रेष्ठमराठीग्रन्थः इति साहित्यपुरस्कारः लब्ध:)
- परिपूर्ति (मराठी)
- भोवारा (मराठी)
- अमाचि समस्कृति (मराठी)
- सम्स्कृति (मराठी)
- गङ्गाजल् (मराठी)