उदयकुमारः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


उदयकुमारः


उदयकुमारमहोदयः कन्नडभाषाचित्ररङ्गस्य महान् कलावित् आसीत् । एषः ’कलाकेसरि’, ’नटसाम्राट्’ च बिरुदेन प्रसिघ्दः । राजकुमारः, कल्याणकुमारः, उदयकुमारश्च कुमारत्रयस्य काले कन्नडचित्ररङ्गे उत्तम चित्राणि निर्मितानि आसन् ।

जीवनम्[सम्पादयतु]

उदयकुमारमहोदयः १९३५ तमेवर्षे, मार्चमासे, १६ दिनाङ्के जन्म प्राप्तवान् । तस्य पिता श्रिनिवासशास्त्रिमहोदयः । उदयकुमारमहोदयस्य मूलनाम सूर्यनारायणशास्त्री इति आसीत् । मूलतः दैहिकशिक्शकः सन् एषः आकस्मिकरीत्या रङ्गभूमिं प्रविष्टवान्। तस्मिन् समये "गुब्बिकम्पनि" इति प्रख्याता रङ्गशाला आसीत् । उदयकुमारमहोदयः ’भाग्योदय’ इति चित्रद्वारा चित्ररङ्गं प्रविष्टवान् । अस्य चित्रस्य निर्मापकौ भक्तवत्सल, ए.सि.नरसिंहमूर्तिश्च सूर्यनारायणस्य ’उदयकुमारः’ इति पुनर्नामकरणं कुतवन्तौ ।

चित्ररङ्गे जनप्रियता[सम्पादयतु]

कन्नडभाषायां ’रत्नगिरिरहस्य’ इति चित्रद्वारा उदयकुमारमहोदयः बहु जनप्रियः अभवत् । नकेवलं कन्नडभाषायां किन्तु तमिळु, तेलुगु, हिन्दिभाषायाश्च अभिनयमं कृत्वा जनप्रियः अभवत् । एषः द्विशताधिकचित्रेषु अभिनयं कृतवान् । भाग्योदय, रत्नगिरिरहस्य, चन्दवल्लियतोट, वीरकेसरि, बेट्टदहुलि, चन्द्रकुमार, श्रीरामाञ्जनेययुद्ध, सत्यहरिश्चन्द्र, त्रिवेणि, मधुमालति, भलेबसव, बिळिहेन्डति इत्यादीनि तस्य प्रमुखचित्राणि आसन् ।

एषः नायकनटः, पोषकनटः, खलनटः च भूत्वा विभिन्नेषु पात्रेषु अभिनयं कृतवान् । कठिणपात्रम् अपि एषः सुलभतया अभिनयति स्म। सत्यहरिश्चन्द्रचित्रे विश्वामित्रस्य पात्रम् अविस्मरणीयम् । एवमेव ’हेमावतिचित्रे’ प्रधानपात्रं तथा बिळिहेन्डतिचित्रे पोषकपात्रं बहु उत्तमरीत्या कृतवान् । ’सेडिगेसेडुचित्रम्’ एतस्य शततमं चित्रं । ’वर्णचक्र’ इति अन्तिमं चित्रम् ।

उदयकुमारमहोदयः जीवनस्य २९ वर्षाणि चित्ररङ्गे यापितवान् । तस्मिन् काले सः १५३ कन्नडभाषाचित्रेषु, १५ तेलुगुभाषाचित्रेषु, ६ तमिलुभाषाचित्रेषु, १ हिन्दिभाषाचित्रेषु च अभिनयं कृतवान् । प्रख्यातनटः डा.राजकुमारमहोदयेन साकं ३६ चित्रेषु अभिनयं कृतवान्। ’चन्द्रकुमार’चित्रे उदयकुमारमहोदयः नायकपात्रं, डा.राजकुमारमहोदयः खलनायकस्य पात्रं च निरूढवन्तौ ।

चित्रनिर्माणं-लेखनं-रङ्गभूमिश्च[सम्पादयतु]

उदयकुमारमहोदयः "महासुदिन" इति चित्रं निर्मितवान् । एषः नाटकानि तथा चलनचित्रगीतानि अपि स्वयं रचितवान् । चलनचित्राभिनयशिक्षणार्थं च कलाशालाम् अपि आरब्धवान् ।

कन्नडभाषाप्रेम[सम्पादयतु]

उदयकुमारमहोदयाय कन्नडाभाषायां बहु प्रीतिरासीत् । कन्नडाभाषायां उत्तमवाक्चातुर्यम् अपि आसीत् ।

कुटुम्बजीवनम्[सम्पादयतु]

कन्नडचित्रङ्गस्य ’विश्वविजेत’ इति नामान्कितः नटः उदयकुमरस्य पुत्रः । पुत्री ’रेणुका’ अपि कन्नड चित्ररङ्गे उत्तमनटी । अभिनॆत्री ’हंसलॆखा’ ऎतस्य पौत्री । एवं रीत्या कुटुम्बसदस्या: कन्नडचित्रङ्गे स्वीयं यॊगदानं ददतः सन्ति ।

एषः डिसेम्बर्-मासस्य, २८ तमे दिनाङ्के,----- वर्षे दिवंगतः । सः तस्य अभिनयद्वारा कन्नडाभाषाचित्ररङ्गे प्रमुखस्थानं प्राप्तवान् ।

पुरस्कारः[सम्पादयतु]

’हॆमावति’ चित्रस्य, पात्रस्यकृते अत्युत्तमपॊषकनटपुरस्कारं प्राप्तवान् । १९८४ तमॆ वर्षे राज्योत्सवप्रशस्तिम् अपि प्राप्तवान् ।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=उदयकुमारः&oldid=478501" इत्यस्माद् प्रतिप्राप्तम्