उपमालङ्कारः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्

फलकम्:Underlinked

उपालङ्कारस्तु एकः अर्थालङ्कारः वर्तते ।

'उपमा कालिदासस्य" इति प्रसिद्धा उक्तिः सर्वैः ज्ञाता एव अस्ति । उपमालङ्कारस्य (Upamalankara) तावत् बहुधा उपयोगः काव्येषु भवति । उपमायाः लक्षणं तावत् कुवलयानन्दे अप्पय्यदीक्षितः एवं प्रकथयति –

उपमा यत्र सादृश्यलक्ष्मीः उल्लसति द्वयोः ।
हंसीव कृष्ण ते कीर्तिः स्वर्गङ्गामवगाहते ॥

यत्र उपमानोपमेययोः सहृदयहृदयाह्लादकत्वेन चारुसादृश्यमुद्भूततयोल्लसति व्यङ्ग्यमर्यादां विना स्पष्टं प्रकाशते तत्र उपमालङ्कारः । इयं च पूर्णौपमेत्युच्यते । हंसी कीर्तिः स्वर्गङ्गावगाहनमिव शब्दश्चेत्ये तेषामुपमानोपमेयसाधारणधर्मोपवाचकानां चतुर्णामप्युपादानात् ।

यत्र यस्मिन् काव्ये द्वयोर्व्स्तुनोरुपमानोपमेयत्वेन प्रसिध्दयोः सादृश्यस्य लक्ष्मीः संपत्, सहृदयहृदयाह्लादि सादृश्यमित्यर्थः, उल्लसति उद्भूततया भाति (व्यङ्गयमर्यादां विना) स्पष्टं प्रकाशते सा तथाभासमाना सादृश्यलक्ष्मीरुपमा इति लक्षणम् । हे कृष्ण ते तव कीर्तिः हंसीव स्वर्गङ्गामाकाशगङ्गामवगाहते इत्युदाहरणम् । अत्र कीर्तिहंस्योः सादृश्यलक्ष्मीः स्पष्टं प्रकाशत इत्युपमालङ्कारः

उपमायाः अवयवाः[सम्पादयतु]

उपमायाः सन्तिचत्वारोऽवयवाः । उपमानम्, उपमेयम्, साधारणधर्मः, उपमावाचकश्चेति । तत्राधिकगुणवत्वेन प्रसिध्दमुपमानं चन्द्रादि । प्रकृते वर्ण्यमानं मुखाद्युपमेयं न्यूनगुणम् । आह्लादकत्वादिकं साधारणो धर्मः । इवादि शब्दाः सादृश्यवाचकाः । सादृश्यं च तद्भिन्नत्वे सति तद्गतभूयोधर्मवत्त्वम् ।

उपमा प्रभेदाः[सम्पादयतु]

संक्षेपतः उपमा द्विविधा – पूर्णा, लुप्ताचेति । यत्र चतुर्णामप्युपमावयवानामुपादानं तत्र पूर्णोपमा, यथा हंसीवेत्यादिपूर्वोदाहृते हंसी उपमानम्,कीर्तिरुपमेयम्, स्वर्गङ्गावगाहनं साधारणो धर्मः, इवशब्दः उपमावाचक इति चतुर्णामप्युपादानात्पूर्णोपमा ।

पूर्णोपमा[सम्पादयतु]

गुणदोषौ बुधो गृह्णन् इन्दुक्ष्वेडाविवेश्वरः ।
शिरसा श्लाधते पूर्वं परं कण्ठे नियच्छति ॥

अत्र बुधः उपमेयम्, ईश्वरः उपमानम्, इव शब्दो वाचकः, साधारणधर्मस्तूपमानोपमेययोर्नैकः, किन्तु उपमानगतयोश्चन्द्रगरलयोः उपमेयगतयोर्गुणदोषयोश्च बिम्बप्रतिबिम्ब्बभावेनाभेदाध्यवसायात्, तथा उपादानज्ञानयोः गृह्णन्नित्येकपदोपादानेनाभेदाध्यवसायाच्च साधारणधर्मता परिकल्प्यते । तस्मादत्र पूर्णोपमैव ।

वस्तुतो भिन्नयोरप्युपमानोपमेयधर्मयोः परस्परसादृश्यादभिन्न तयाध्यवसितयोः पृथगुपादानं बिम्बप्रतिबिम्बभावः ।

लुप्तोपमा[सम्पादयतु]

वर्ण्योपमानघर्माणामुपमावाचकस्य च ।
एकद्वित्र्यनुपादानाद्भिन्ना लुप्तोपमाष्टधा ॥५॥

उपमानोपमेयसाधारण्धर्मवाचकानां चतुर्णां मध्ये एकस्य, द्वयोस्त्रयाणां वा अनुपादानादप्रयोगात् लुप्तोपमा भवति । अवयवलोपाद् लुप्तेत्यन्वर्थसंज्ञा । वर्णं उपमेयम्, अवर्ण्यमुपमानम् ।

लुप्तापमाष्टधा भिन्ना –तद्यथा- (१) वाचकमात्रलोपाद्वाचकलुप्ता (२) धर्ममात्रलोपाध्दर्मलुप्ता (३) धर्मवाचकयोर्लोपाध्दर्मवाचकलुप्ता (४) वाचकोपमेययोर्लोपाद्वाचकोपमेयलुप्ता (५) उपमानमात्रलोपादुपमानलुप्ता (६) वाचकोपमानयोर्लोपाद्वाचकोपमनलुप्ता (७) धर्मोपमानयोर्लोपाध्दर्मोपमानलुप्ता (८) धर्मोपमानवाचकानां लोपाध्दर्मोपमानवाचकलुप्ता इति ।

लुप्तोपमोदाहरणानि[सम्पादयतु]

तडिद्गौरीन्दुतुल्यास्या कर्पूरन्ती दृशोर्मम ।
कान्त्या स्मरवधूयन्ती दृष्टा तन्वी रहो मया ॥६॥
यत्तया मेलनं तत्र लाभो मे यच्च तद्रतेः ।
तदेतत्काकतालीयमवितर्कितसम्भवम् ॥७॥
(१) तडिद्गौरी तन्वी (मया रहसि दृष्टा) इति वाचकलुप्ताया उदाहरणम् । तडिदिव गौरीत्यर्थे विवक्षिते “उपमानानिसामान्यवचनैः” इति समासे इवशब्दस्य वाचकस्य लोपाद्वाचकलुप्ता । तन्वी उपमेयम् तडिदुपमानम्, गौरत्वं साधारणो धर्मः ।
(२) इन्दुतुल्यास्या (तन्वी मया दृष्टा) इति धर्मलुप्ताया उदाहरणम् । इन्दुना तुल्यं आस्यं यस्याः सा इन्दुतुल्यास्या । अत्र इन्दुरुपमानम्, आस्यमुपमेयम्, तुल्यशब्दो वाचकः, साधारणधर्मस्तु कान्त्यादिर्नोपात्त इति ध्र्मलुप्ता ।
(३) (मम दृशोः) कर्पूरन्ती तन्वीति धर्मवाचकलुप्ताया उदाहरणम् । कर्पूरमिवाचरन्तीत्यर्थे विवक्षिते आनन्दाधायकत्वरुपाचारार्थकस्य “सर्वप्रातिपदिकेभ्यः क्विब् वा वक्तव्यः” इति विहितस्य क्विणः इवशब्देन सह लोपाध्दर्मवाचकलुप्ता । कर्पूरः उपमानम्, तन्वी उपमेयमिति द्वयमुपात्तम्, नेत्रानन्दाधायकत्वरुपो वर्मः वाचकशब्दश्च नोपात्तौ ।
(४) कान्त्या स्मरवधूयन्ती इति वाचकोपमेयलुप्ताया उदाहरणम् । अत्र कान्त्या आत्मानं स्मरवधूमिवाचरन्तीत्यर्थे विवक्षिते “उपमानादाचारे” इति क्यच् प्रत्ययो विहितः । अत्रात्मा उपमेयम्, तच्च नोपात्तम् । वाचकशब्दोऽपि नोपात्त इति वाचकोपमेयलुप्ता । स्मरवधूरुपमानम् कान्तिमत्त्वं साधारणो धर्मः ।
(५) तत्र (विजनस्थले) मे तद्रतेर्लाभ इति यत् अवितर्कितसम्भवं (यादृच्छिकं) तदेतत् काकतालीयमित्युपमानलुप्ताया उदाहरणम् काकगमनमिव तालपतनमिव काकतालं, ततः काकतालमिव काककृततालोपभोग इवेत्यर्थे विवक्षिते “इवे प्रतिकृतौ” इत्यधिकारस्थेन “समासाच्च तद्विषयात्” इति सूत्रेण छप्रत्ययो विहितः, तस्य च “आयनेयीत्या”दिसूत्रेण ईयादेशः । तथा च मम तन्वीसुरतलाभरुपं यद्वस्तु अवितर्कितसम्भवं तत् काककृततालोपभोगसदृशमिति निष्कृष्टोऽर्थः ।

अत्र तन्वीसुरतलाभः उपमेयम्, अवितर्कितसम्भवत्वं साधारणो धर्मः, छप्रत्ययश्च सादृश्यवाचक इति त्रयाणामुपादानमस्ति । काककृततालोपभोगरुपमुपमानं नोपात्तमित्युपमानलुप्ता। अत्र समासविषये काकतालशब्दौ लक्षणया तत्समवेतक्रियाबोधकौ ।

(६) तत्र मम तया मेलनं – मम तत्र गमनं तस्यास्तत्रागमनं चावितर्कितसम्भवं काकागमनमिव तालपतनमिव काकतालमिति वाचकोपमानलुप्ताया उदाहरणम् । मम तन्मेलनं काकागमनतालपतनसदृशमवितर्कितसम्भवमिति फलितोऽर्थः । अत्र काकतालमिति “समासाच्च तद्विषयात्” इति ज्ञापकात्समासे वाचकस्य लोपः । उपमानमपि काकागमनतालपतनात्मकं समासान्तर्गतमपि न शब्दो पात्तमिति वाचकोपमानलुप्ता । मम तत्समागमः, उपमेयम्, यादृच्छिकत्वं साधारणो धर्मः ।
(७) ,(८) उदाह्रण्श्लोके “अवितर्कितसम्भवम्” इत्यस्य स्थाने “इति जानीहि हे सखे” इति पाठे साधारण्धर्मस्यापि लोपे पञ्चमषष्ठे एव सप्तमाष्टमयोरुदाहरणे भवतः । मे तद्रतेर्लाभ इति यत् तदेतत्काकतालीयम् इति धर्मोपमानलुप्तायाः, मम तया तत्र मेलनमिति यत् तदेतत्काकतालमिति धर्मोपमानवाचकलुप्तायाश्चोदाहरणम् ।

सरलार्थः[सम्पादयतु]

उपमायां द्विधा विभागं कल्पयामः । पूर्णोपमा लुप्तोपमा चेति । पूर्णोपमायां तावत् चत्वारः अपि अंशाः भवन्ति । यथा उपमेयम्, उपमानम्, साधारणधर्मः, उपमावाचकशब्दः चेति । लुप्तोपमायां तावत् विद्यमानेशु चतुर्षु अंशेषु एकस्य द्वयोः अथवा त्रयणामभावः दृश्यते ।

उदाहरणम्[सम्पादयतु]

हंसीव कृष्ण ते कीर्तिः स्वर्गङ्गामवगाहते ।

  • हंसी = उपमानम्
  • कृष्णः = उपमेयः
  • कीर्तिः = साधारणधर्मः
  • इव = उपमावाचकशब्दः

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=उपमालङ्कारः&oldid=262863" इत्यस्माद् पुनः प्राप्तिः