एलेक्ट्रोन्
परमाणुः इत्यत्र प्राधान्येन प्रोटान्, न्यूट्रान् एलेक्ट्रान् इति अंशत्रयं भवति । तत्र ऋणात्मकशक्तिं धरन्ति एलेक्ट्रान् कणाः । एतेषां घटकानां द्रव्यराशिः प्रोटान् अपेक्षया बहु न्यूनम् । एतस्य घटकस्य चार्ज् अर्थात् आकर्षणशक्तिविषये बहुवारं संशोधनं प्रवृत्तम् । तत्र क्रि.श१८३८तमे वर्षे संशोधन आरब्धं क्वाण्टम् सिद्धान्तानुसारम् । क्रि.श१८७४तमे वर्षे ऐरिश् विज्ञानी जार्ज् जोन्स्टन् स्टोने तस्य विशेषाध्ययनं करोति पुनः च क्रि.श१८९४तमे वर्षे युगाब्दे एलेक्ट्रान् इति नाम ददाति। जे. जे. थाम्सन् इति विज्ञानी प्रथमवारं एतेषां घटकानां संशोधनपुरस्सरम् आविष्कारम् अकरोत् । एलेक्ट्रान् एलेक्ट्रान् सहयोगकारणाद् एव रासायनिकक्रियाः, रासायनिकबन्धनानि सम्भवन्ति । एते घटकाः प्रामुख्येन विद्युत्शक्तिः (electricity), कान्तशक्तिः (magnetism), औष्ण्यसंवहनम् (thermal conductivity) इत्यादिषु पात्रं निर्वहन्ति ।
तत्र शताधिकाः उपघटकाः सन्ति एकस्मिन् परमाणौ । एवं एलेक्ट्रान् घटकाः तु लेप्टान् घटकानां समुदाये अन्तर्भवन्ति । पत्येकः एलेक्ट्रान् अंशः ऋणात्मकशक्तिं धरन् विद्युदयस्कान्तीयः (electromagnetic) पुनः च न्यूनशक्तिसमन्वयेषु (weak interaction) भागं गृण्हन्ति ।
[सम्पादयतु] रासायनिकप्रक्रियाः
सर्वस्य अपि परमाणोः अन्तिमस्तरे विद्यमानाः एलेक्ट्रान् अंशाः एव सर्वविधरासायनिकप्रक्रियायां भागं गृह्णन्ति । यस्मिन् परमाणौ अन्तिमस्तरे अधिक-एलेक्ट्रान्-अंशाः भवन्ति सः परमाणुः स्थिरः भवति अपि च यस्य न्यूनाः अंशाः भवन्ति सः अधिकक्रियाशीलः भवति इति विज्ञेयम् । परमाणोः एलेक्ट्रान्-अंशानां गणनानुगुण्येन एव periodic table निर्मितं वर्तते ।
[सम्पादयतु] मापनम् (Measurement):
एलेक्ट्रान्-शक्तिं (charge) साक्षात् मापितुं वर्तते एलेक्ट्रोमीटर् इति यन्त्रम्। परन्तु एलेक्ट्रान्-प्रवाहं (current) परिमापितुं विद्यते गाल्वोनोमीटर् । पूर्वकाले तु एतेषां कणानां मापनं नाम बहु कष्टकरं कार्यमासीत् । इदानीं तु सामान्यप्रयोगशालायामपि मापनं कर्तुं शक्नोति ।
[सम्पादयतु] एलेक्ट्रान्-दर्शनम् :
प्रयोगशालायाः परिमितौ particle detector इति यन्त्रेण पत्येकमपि एलेक्ट्रान् अंशं ज्ञातुं शक्नुमः । तद्द्वारा तस्य शक्तिः (charge), spin, charge इत्यादिकं गोचरं भवति । पप्रथमचलत्चित्रं तु स्वीकृतम् एलेक्ट्रान्-अंशस्य कान्तीयचलनस्य स्वीडन्-देशस्य लण्ड् विश्वविद्यालयेन फेब्रवति 2008 तमे वर्षे ।