कर्पूरम्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्

एतत् कर्पूरम् अपि भारतस्य वैशिष्ट्यपूर्णम् उत्पादनम् इति वक्तुं शक्यते । एतत् कर्पूरम् अपि प्रायः भारतस्य सर्वेषु प्रदेशेषु उपयुज्यते एव । एतत् कर्पूरम् आङ्ग्लभाषायां Camphor इति उच्यते । अत्र उच्यमानं कर्पूरं देवानाम् आरतिसमये उपयुज्यमानम् कर्पूरं न, अपि तु खाद्यपदार्थेषु योज्यमानं पच्चकर्पूरम् इति यत् उच्यते तत् कर्पूरम् । मधुराणां खाद्यानां निर्माणे एतत् कर्पूरम् उपयुज्यते । एतत् कर्पूरं खाद्यानां गन्धं, रुचिम्, आकर्षणं च वर्धयति । अत्र कर्पूरे द्विविधः कर्पूरः भवति । पक्वः अपक्वः च इति । पक्वस्य कर्पूरस्य अपेक्षया अपक्वः कर्पूरः श्रेष्ठः, तत्रापि अपक्वे कर्पूरे अपि शुभ्रं, स्फटिकवत् विद्यमानम्, अचूर्णं कर्पूरम् उत्तमम् इति उच्यते । तम् एव अंशम् अयं श्लोकः अपि विषदयति –

“पक्वात् कर्पूरतः प्राहुरपक्वं गुणवत्तरम् ।
तत्रापि स्वाद्यक्षुण्णं स्फटिकाभं तदुत्तमम् ॥“

आयुर्वेदस्य अनुसारम् अस्य कर्पूरस्य स्वभावः[सम्पादयतु]

एतत् कर्पूरम् कटुतिक्तमिश्रितं रसयुक्तम् । किन्तु शस्त्रेषु तस्य कर्पूरस्य मधुररसः अपि अभिज्ञातः अस्ति । एतत् कर्पूरं शीतवीर्ययुक्तम् अपि ।

“कर्पूरं कटु तिक्तं च मधुरं शिशिरं विदुः ।
तृणमेदोविषघ्नं चक्षुष्यं मदकाकम् ॥“ धन्वन्तरिकोषे चन्दनादिवर्गः)
१. एतत् कर्पूरं यद्यपि सुगन्धयुक्तं तथापि तथैव सेवितुं न शक्यते ।
२. एतत् कर्पूरं पिपासां, मेदं, विषदोषान् च निवारयति ।
३. कर्पूरं नेत्रयोः दृष्टिशक्तेः हितकारकम् ।
४. एतत् कर्पूरं मदजनकम् अपि ।
५. नेत्रयोः पक्ष्मनि लघु लघु पिटकाः सञ्जाताः चेत्, तत्र कण्डूयनम् अपि जायते चेत्, नेत्रयोः अवकरः पतितः इव भाति चेत् च कर्पूरस्य चूर्णं किञ्चित् प्रमाणेन स्वीकृत्य पक्ष्मणः उपरि लेपनीयम् । क्रमेण कण्डूयनं न्यूनं भवति, नेत्रे अपि शुभ्रे भवतः ।
६. कर्पूरं, जातीफलं, लवङ्गं, जटामांसीं च योजयित्वा चूर्णीकृत्य निर्मितं “कर्पूरादि चूर्णम्” इति उच्यते । तत् चूर्णं भोजनेन सह वा, खाद्येन सह वा, पानीयैः सह वा सेवन्ते चेत् कासः, राजक्षयरोगः, हृदयस्य ज्वलनम् इत्यादयः रोगाः निवारिताः भवन्ति । औषधस्य सेवनं पृथग्रूपेण ये न इच्छन्ति तेभ्यः अपि एषः क्रमः आहारपदार्थैः सह योजयित्वा दानक्रमः युज्यते ।
७. आसवविधिना निर्मितं “कर्पूरासव” नामकम् औषधं अतिसारवमनहितं विषूचिकारोगं परिहरति । एतत् औषधम् अग्निदीपनम् अपि करोति ।
८. कर्पूरं, खसतिलं, हिङ्गलीकम् इत्यादिकं योजयित्वा निर्मिता गुलिका “कर्पूररसः” इति उच्यते । तस्याः गुलिकायाः सेवनेन अतिसारः, रक्तातिसारः च अपगच्छति ।
९. मूत्रम् बहिः आगमनं विना उदरे एव स्थित्वा वेदनां जनयति चेत् कर्पूरस्य चूर्णं किञ्चित् प्रमाणेन मूत्रस्य मार्गे स्थापनेन अवरोधः अपगच्छति । बहुशीघ्रं मूत्रं बहिः सरति ।
१०. एतत् कर्पूरम् आध्यात्मस्य दृष्ट्या अपि पवित्रम् इति उच्यते । यतः अस्य सेवनेन सत्त्वगुणः वर्धते, तमोगुणश्च निवार्यते । तस्मात् कारणात् मनः निष्कल्मषं, शान्तं च भवति इति । अतः एव तीर्थम् इति यत् उच्यते तत्र कर्पूरं योजितं भवति ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=कर्पूरम्&oldid=276915" इत्यस्माद् पुनः प्राप्तिः