गाब्रियोलो फालोपियस्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
गम्यताम् अत्र : पर्यटनम्, अन्वेषणम्
Gabriele Falloppio

Gabriele Falloppio
जननम् 1523
Modena
मरणम् October 9, 1562
Padua
देशीयता Italian
कार्यक्षेत्राणि Anatomy
Medicine
संस्थाः Pisa
University of Padua
मातृसंस्थाः Ferrara
संशोधनमार्गदर्शी Antonio Musa Brassavola
शोधछात्राः Girolamo Fabrici
Volcher Coiter
विशयेषु प्रसिद्धः Medicine

(कालः – १५२३ तः ०९. १०. १५६२)

अयं गाब्रियोलो फालोपियस् (Gabriello Fallopius) प्रसिद्धः अङ्गरचनाशास्त्रज्ञः । अयं १५२३ तमे वर्षे जन्म प्राप्नोत् । एषः प्रख्यातस्य अङ्गरचनाशास्त्रज्ञस्य आण्ड्रियेस् वेसेलियसस्य शिष्यः । अयम् गाब्रियोलो फालोपियस् अपि गुरुः इव इटलीदेशस्य पादुअ–विश्वविद्यालये एव प्राध्यापकरूपेण नियुक्तः अभवत् । अयं गाब्रियोलो फालोपियस् कर्णस्य अन्तः विद्यमानानां भागानां विषये,जननेन्द्रियस्य अन्तररचनायाः विषये च गभीरम् अध्ययनं संशोधनं च अकरोत् । स्त्रीणाम् अण्डाशयतः गर्भाशयं प्रति अण्डं प्रापयन्तीनां नाडीनां विवरणं व्यवस्थितरूपेण कृतवान् । अयं गाब्रियोलो फालोपियस् एव विश्वे प्रथवारं जननेन्द्रयाणां नाडीनां संशोधनम् अकरोत् । तदर्थं तस्य स्मरणार्थं तासां नाडीनां नाम “फालोपियस् ट्यूब्स्” इत्येव उच्यते अद्यापि । सः १५६२ तमे वर्षे अक्टोबर्-मासस्य ९ दिनाङ्के मरणम् अवाप्नोत् ।