चार्ल्स् डार्विन्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्

(कालः – १२. ०२. १८०९ तः १९. ०४. १८८२)

Charles Darwin
Three quarter length studio photo showing Darwin's characteristic large forehead and bushy eyebrows with deep set eyes, pug nose and mouth set in a determined look. He is bald on top, with dark hair and long side whiskers but no beard or moustache. His jacket is dark, with very wide lapels, and his trousers are a light check pattern. His shirt has an upright wing collar, and his cravat is tucked into his waistcoat which is a light fine checked pattern.
Darwin, aged 45 in 1854, by then working towards publication of On the Origin of Species
जननम् Charles Robert Darwin
12 February 1809(1809-02-12)
The Mount, Shrewsbury, Shropshire, United Kingdom
मरणम् 19 April 1882(1882-04-19) (aged 73)
Down House, Downe, Kent, United Kingdom
वासस्थानम् England
नागरीकता British
देशीयता British
कार्यक्षेत्राणि Naturalist
संस्थाः Geological Society of London
मातृसंस्थाः (tertiary education):
University of Edinburgh (medicine)
University of Cambridge (ordinary Bachelor of Arts)
Academic advisors John Stevens Henslow
Adam Sedgwick
विशयेषु प्रसिद्धः The Voyage of the Beagle
On the Origin of Species
evolution by
natural selection,
common descent
प्रभावः Alexander von Humboldt
John Herschel
Charles Lyell
प्रभावितः Joseph Dalton Hooker
Thomas Henry Huxley
George Romanes
Ernst Haeckel
Sir John Lubbock
प्रमुखाः प्रशस्तयः Royal Medal (1853)
Wollaston Medal (1859)
Copley Medal (1864)
पतिः/पत्नी Emma Darwin (1839-1896)
हस्ताक्षरम्
"Charles Darwin", with the surname underlined by a downward curve that mimics the curve of the initial "C"

अयं चार्ल्स डार्विन (Charles Darwin) प्रसिद्धः विज्ञानी, विकासवादस्य प्रतिपादकश्च । सः १८०९ वर्षे फेब्रवरिमासस्य १२ दिनाङ्के इङ्ग्लेण्ड्देशस्य श्राप्शैर् इति प्रदेशे जन्म प्राप्नोत् । अस्य पिता इरास्मस् डार्विन प्रख्यातः वैद्यः आसीत् । पितामहः एरास्मस् डार्विन् प्रख्यातः कविः वैद्यश्चापि । प्रपितामहः जोसय् वेड्ज्वुड् मृत्पात्राणाम् उपरि चित्रलेखकः कुशलकर्मी आसीत् । किन्तु अयं चार्ल्स डार्विन पिता इव, पितामहः इव वा वैद्यकीयं यद्यपि अपठत् तथापि तस्मिन् क्षेत्रे आसक्तः न अभवत् ।

किञ्चित् कालं यावत् क्रिश्चियन्–मतस्य मन्दिरे (चर्च्) अधिकारिरूपेण कार्यम् अकरोत् । तत्रापि अधिकं कालं स्थातुं न अशक्नोत् । हम्बोल्टस्य लेखनैः प्रभावितः सन् प्रकृतेः अध्ययनम् एव लक्ष्यत्वेन अचिनोत् । तेन तस्य चार्ल्स डार्विनस्य पितुः महान् कोपः एव आगतः । किन्तु अग्रे सः चार्ल्स डार्विन तस्मिन् क्षेत्रे सः अपारां कीर्तिं सम्पादितवान् । तेन चार्ल्स डार्विनेन तत् लक्ष्यं यदा सः १८३१ तम् वर्षे केम्ब्रिड्ज् मध्ये आसीत् तदा प्राप्तम् । तदवसरे सः विरामसमयं हेन्स्लो नामकेन सस्यविज्ञानिना प्रध्यापकेन सह विषयसङ्ग्रहणेन, भूविज्ञानस्य पठनेन च अयापयत् ।

तदनन्तरं सः चार्ल्स डार्विन सेड्जविक् नामकस्य भूविज्ञानिनः नायकत्वे यः परिशिलनप्रवासः आयोजितः तत्रापि उत्साहेन भागम् अवहत् । तदा भूविज्ञानी सेड्जविक् अस्य चार्ल्स डार्विनस्य बुद्धिमत्ताम् अजानात् । तस्य चार्ल्स् डार्विनस्य जीवनस्य प्रमुखः स्तरः यस्मिन् दिने सः बीगल्–नौकायाः प्रकृतितज्ञरूपेण (Naturalist) नियुक्तः तदा आरब्धः । सा नौका १८३१ तमात् वर्षात् आरभ्य १८३६ तमवर्षपर्यन्तं दक्षिण–अमेरिका, गालपगोस्–द्वीपाः, शान्तसागर–द्वीपाः इत्यादीनां भूप्रदेशाणां सन्दर्शनम् अकरोत् । तदवसरे अयं चार्ल्स डार्विन् महता प्रमाणेन अवशेषाणां सङ्ग्रहणम् अकरोत् । तेषां प्रदेशाणां जीवजातीनां वीक्षणं कृत्वा व्यापकरूपेण विवरणानि, अभिप्रायान् च अलिखत् ।

विभिन्नेषु द्वीपेषु वसतां प्राणिनां परस्परं सम्बन्धः भेदः वा, गतजीविनां जीवतां जीविनां च साम्यं, सूक्ष्माः च भेदाः तस्य मनः आकर्षन् । तत्सर्वम् उल्लिख्य तेन लिखितं "प्रकृतिविज्ञानिनः बीगल्-प्रवासः” नामकं पुस्तकम् अत्यन्तं मनोहरः प्रवास – साहित्यग्रन्थः । तस्य प्रवासस्य समये सः चार्ल्स डार्विन समुद्रयानस्य अनारोग्येण (Sea sickness) पीडितः आसीत् । तस्य परिणामरूपेण सः जीवनपूर्णम् अनारोग्येण पीडितः ।

सप्तवर्षीयः चार्ल्स् डार्विन्

१८३६ तमे वर्षे लण्डन्–नगरं प्रत्यागतः चार्ल्स डार्विन प्रवासावसरे सङ्गृहीतस्य सर्वस्य अपि क्रोढीकरणम् आरब्धवान् । चार्ल्स लयेल् नामकस्य भूविज्ञानिनः "भूमेः लक्षणानि निरन्तरं परिवर्तन्ते । इदानीन्तनानां लक्षणानाम् अध्ययनेन पूर्वतनानि भौगोलिकानि लक्षणानि निर्णेतुं शक्यन्ते” इति सिद्धान्तः तस्य प्रियः जातः । थामस् माल्थस् नामकस्य अर्थशास्त्रज्ञस्य जनसंख्यायाः कारणतः जायमानाः समस्याः इति प्रबन्धे चित्रितं जीवनार्थं युद्धम् अपि तस्य मनसि स्थिरं स्थितम् आसीत् । तस्य सर्वस्य आधारेण अयं चार्ल्स डार्विन "जीवविकास”स्य सिद्धान्तं रूपितवान् । "जीविषु जीवनार्थं तीव्रतराः स्पर्धाः प्रचलन्ति । स्पर्धायाः कारणं तु अपेक्षितस्य प्रमाणस्य अपेक्षया अधिकसंख्यानां जीविनां जननम् । तासु स्पर्धासु अरोग्यतमाः जीविनः जीवन्ति, अन्ये च नश्यन्ति । तथा जीवितवद्भ्यः जीविभ्यः नूतनायाः वंशश्रेण्याः आरम्भः भवति । एते चत्वारः चार्ल्स डार्विनस्य विकासवादस्य प्रमुखाः अंशाः ।


अयं चार्ल्स् डार्विन "लघुभेदयुक्ताः समानकुलस्य प्राणिनः, पक्षिणः, पुष्पाणि वा यदि समर्थतया जीवन्ति तर्हि ते तं भेदम् अग्रिमां वंशश्रेणीं प्रति तथैव प्रेषयन्ति” इत्यपि प्रत्यपादयत् । अयम् एव अंशः जीविजातेः उगमस्य कारणम् । आनुवंशिकस्य आधारः अपि अयम् एव । अनेन लिखितस्य “जीवजातीनाम् उद्भवः” (आरिजिन् आफ् स्पीशीस्) इति पुस्तकस्य १२५० प्रतयः अपि मुद्रणदिने (१८५९ तमवर्षस्य नवेम्बरमासस्य २४ तमः दिनाङ्कः) विक्रीताः अभवन् । तत् पुस्तकं जनानां चिन्तनक्रमे क्रान्तिम् एव अकरोत् । अनेन चार्ल्स डार्विनेन ये अंशाः प्रतिपादिताः ते अंशाः तत्पूर्वम् अन्यैः प्रतिपादिताः एव आसन् । परन्तु तेषु केनापि वैज्ञानिकाः सत्यांशाः न उल्लिखिताः आसन् । चार्ल्स डार्विन तु सर्वम् अपि विषयं वैज्ञानिकैः सत्यांशैः समर्थितवान् आसीत् । तदवसरे तेन यावती प्रशंसा प्राप्ता तावती एव टीका अपि प्राप्ता । तस्य चार्ल्स् डार्विनस्य समर्थकाः तं "जीवविज्ञानस्य ऐसाक् न्यूट्न्” इति प्रशंसितवन्तः । विरोधिनः तु "बैबल्–ग्रन्थस्य विरोधं कुर्वन् पापी” इति अवदन् । किन्तु सः चार्ल्स् डार्विन तु सर्वस्मात् अपि कोलाहलात् दूरे एव तिष्ठन् गृहे "मानवस्य उद्भवः” (दि डिसेण्ट् आफ् म्यान्) इति पुस्तकस्य लेखने मग्नः आसीत् । तदपि पुस्तकं प्रथमस्य पुस्तकस्य मुद्रणस्य १२ वर्षाणाम् अनन्तरम् अपि महान्तं कोलाहलम् एव अकरोत् । तस्मिन् पुस्तके सः "मनुष्याः कपिभिः उद्भूताः” इति न अवदत् । तत् स्थाने "पूर्वतनाः कपयः मनुकुलस्य सम्बद्धाः” इति उक्तवान् आसीत् । १९२५ तमवर्षपर्यन्तम् अपि अस्य चार्ल्स् डार्विनस्य पर-विरोधस्य चर्चाः प्रचलन्ति स्म ।

अस्य चार्ल्स डार्विनस्य अन्यानि पुस्तकानि अपि बहुप्रसिद्धानि आसन् । तानि सर्वाणि अपि पुस्तकानि शैल्याः तथा स्पष्टस्य निरूपणस्य कारणतः एव प्रसिद्धानि अभवन् । तानि च "प्रवालद्वीपस्य रचना तथा वितरणम्”, "अग्निपर्वतद्वीपाः”, "भूवैज्ञानिकानि वीक्षणानि” च । विंशतितमे शतके आनुवंशिकविज्ञानस्य क्षेत्रे जातानि नूतनानि संशोधनानि अस्य चार्ल्स् डार्विनस्य प्रकृतेः चयनस्य सिद्धान्तं किञ्चित् प्रमाणेन दुर्बलम् अकुर्वन् । तथापि सः इङ्ग्लेण्ड्देशे गण्यव्यक्तिः आसीत् । सः १८८२ तमे वर्षे एप्रिल्–मासस्य १९ दिनाङ्ग्के यदा मरणम् अवाप्नोत् तदा तस्य समाधिः अपि ऐसाक् न्यूटन्, मैकेल् प्यारेडे, चार्ल्स् लयाल् इत्यादीनां समाधिसमीपे वेस्ट् मिनिस्टरस्य स्थाने एव कृतः ।

बाह्यानुबन्धः[सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=चार्ल्स्_डार्विन्&oldid=261843" इत्यस्माद् पुनः प्राप्तिः