जार्ज् क्युव्ये

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
Georges Cuvier
जननम् 23 August 1769(1769-08-23)
Montbéliard
मरणम् 13 May 1832(1832-05-13) (aged 62)
Paris
देशीयता French
कार्यक्षेत्राणि Natural history, paleontology, anatomy
संस्थाः Muséum national d'histoire naturelle
विषयेषु प्रसिद्धः establishing the fields of stratigraphy and comparative anatomy; the first thorough, published documentation of faunal succession in the fossil record; making extinction an accepted scientific phenomenon; opposition to gradualistic theories of evolution

(कालः – २३.०८.१७६९तः १३.०५.१८३२)

अयं जार्ज (GEORGES LEOPOLD CHERETIEN FREDERIC DAGOBERT CUVIER) क्युव्ये तुलनात्मक-अङ्गरचनायाः विभागे महान् पण्डितः । अयं १७६९तमे वर्षे आगस्टमासस्य २३तमे दिनाङ्के प्रान्सदेशे जन्म प्राप्नोत् । अस्य पूर्णं नाम जार्ज् लियोपोल्ड् च्रेटियन् फ्रेडरिक् डागोबर्ट् क्युव्ये इति । अस्य पिता सैन्ये अधिकारी आसीत् । प्रसिद्धायां गृहपरम्परायां जातः जार्ज् क्युव्ये यद्यपि प्राटिस्टेण्ट्धर्मस्य अनुयायी आसीत् तथापि क्याथोलिक्-धर्मस्य अनुयायिना सर्वकारेण सर्वविधं प्रोत्सहं साहाय्यं च प्राप्नोत् । अयं जीवितस्य अवधौ जीवविज्ञानस्य क्षेत्रे एव सर्वाधिकारी इव आसीत् । जार्ज क्युव्ये यौवनकाले सर्वकारेण प्रदत्तम् अधिकारस्य अवकाशं परित्यज्य १७९५तमे वर्षे प्यारिस्-देशे विद्यमानं न्याचुरल्-हिस्टरि-म्यूजियं (सङ्ग्रहालयः) प्राविशत् । तत्र तेन कृतानां संशोधनानां द्वारा इन्स्टिट्यूट् न्याषनल्-संस्थायां भौत-प्राकृतिकविज्ञानस्य विभागयोः शाश्वतकार्यदर्शी अभवत् ।

अयं जार्ज क्युव्ये कस्यचित् एकस्य प्रभेदस्य जीविनाम् अङ्गानाम् अन्तरचनायाः, अपरस्य प्रभेदस्य जीविनाम् आङ्गानाम् अन्तरचनायाः च तोलनम् आरब्धवान् । कस्यापि जीविनः एकस्य अङ्गस्य कार्येण जीविनः सम्पूर्णः स्वभावः पुनः रचयितुं शक्यः इति अयं जार्ज क्युव्ये प्रादर्शयत् । अतः एव जार्ज क्युव्ये तुलनात्मकस्य अङ्गरचनाविज्ञानस्य जनकः इति उच्यते । अयं जार्ज क्युव्ये केरोलस् लीनियसेन कृतं वर्गीकरणम् उत्तमरीत्या वर्धितवान् । तेन वर्गीकृतानां प्राणिनां गणं "क्लास्” इति केरोलस् लीनियसेन यत् उक्तं ततः अपि महान्तं गणं वर्गीकृत्य जार्ज क्युव्ये तस्य गणस्य "फैला” इति नामकरणम् अकरोत् । समग्रं प्राणिवर्गं चतुर्षु फैलासु वर्गीकृतवान् जार्ज क्युव्ये । ते च वर्गाः कशेरुकाः, मोलस्काः, सन्दिपदिनः (आर्टिक्युलेट्), रेडियेट् इति । आधुनिकी वर्गीकरणस्य पद्धतिः जार्ज क्युव्येन अनुसृतायाः पद्धतेः अपेक्षया अपि क्लिष्टा अस्ति । जार्ज क्युव्येन् निर्मितानि सूत्राणि अद्यापि विज्ञानिनां मार्गदर्शनं करोति । जार्ज क्युव्ये सहोद्योगी कश्चन् क्युव्येन कृतानि एव सूत्राणि सस्यानां वर्गीकरणाय अपि अन्वयम् अकरोत् ।

अयं जार्ज क्युव्ये सम्पूर्णतया नष्टानां (प्रकृतं भूमौ कुत्रापि अविद्यमानानाम्) प्राणिनाम् अपि वर्गीकरणम् अकरोत् । तेषां प्राणिनाम् अङ्गानां रचनायाः आधारेण तेषाम् अन्येषां च प्राणिनां सम्बन्धम् अपि ज्ञापितवान् । उड्डयनसमर्थं कञ्चित उरगं परीक्ष्य तस्य कृते "टिरोडाक्टिकल्” इति नामकरणम् अपि अकरोत् जार्ज क्युव्ये । तस्मात् सः पुरातनस्य जीवविज्ञानस्य पितामहः इत्यपि प्रसिद्धः अभवत् । तथापि जार्ज क्युव्ये विकासवादं न अङ्गीकृतवान् । भूग्रहस्य उपरि तदा तदा महान् प्रवाहः सञ्जायते । तदवसरे विभिन्नाः नूतनाः जीविनः उत्पद्यन्ते इति सः विश्वसिति स्म । अस्य बुद्धिमत्तया आकृष्टाः राजानः शिक्षणक्षेत्रस्य अभिवृध्यर्थम् "इम्पीरियल् विश्वविद्यालयस्य" कुलपतिपदम् अयच्छन् । अयं जार्ज क्युव्ये १८तमे लूयीकाले मन्त्रिपदवीम् अपि प्राप्नोत् । अयं १८३२ तमे वर्षे मेमासस्य १३ दिनाङ्के मौण्ट् बेलियार्ड् प्रदेशे मरणं प्राप्नोत् ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=जार्ज्_क्युव्ये&oldid=281139" इत्यस्माद् पुनः प्राप्तिः