ज्योतिबाफुले
अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
| Other names | महात्मा फुले |
|---|---|
| जननम् | April 11, 1827 Katgun, सातारामण्डलम्, British India (present-day महाराष्ट्रम्, भारतम्) |
| मरणम् | November 28, 1890 (aged 63) पुणे, British India (present-day Maharashtra, India) |
| कालः | 19th century philosophy |
| मुख्य विचार: | Ethics, religion, humanism |
| Website | http://www.mahatmaphule.com/ |
महात्मा ज्योतिराव-गोविन्दराव-फुले इत्ययं कश्चन आन्दोलनकारी, विचारकः, समाजसुधारकः, लेखकः, दार्शनिकः, आध्यात्मिकविद्वान्, सम्पादकः तथा च क्रान्तिकारी आसीत्। सः एकोनविंशे शताब्दे भारते महाराष्ट्रे अभवत्। ज्योतिबाफुले तस्य च धर्मपत्नी सावित्रीबायीफुले भारते महिलाशिक्षायाः अग्रगामिनी आस्ताम्। तस्य प्रमुखः प्रभावः शिक्षाक्षेत्रे, कृषिक्षेत्रे, जातिव्यवस्थाक्षेत्रे, महिलानां विधवानां च उत्थाने तथा च अस्पृश्यतोन्मूलने आसीत्। तस्य सर्वाधिका ख्यातिस्तु महिलाशिक्षायां तथा च निम्नजातिजनानां लोकानां च शिक्षायां तस्य प्रयत्नार्थं अस्ति।