डारोति क्रोफट् हाज्किन्
(कालः – १९१० तः १९९४)
इयं डारोति क्रोफट् हाज्किन् (Dorothy Crowfoot Hodgkin) प्रख्याता रसायनविज्ञानिनी । एषा डारोति क्रोफट् हाज्किन् १९१० वर्षे ईजिप्त्–देशस्य कैरोनगरे जन्म प्राप्नोत् । सा आक्सफर्ड–विश्वविद्यालये अध्ययनम् अकरोत् । मध्ये वर्षद्वयं यावत् केम्ब्रिड्ज्–विश्वविद्यालये अपि अध्ययनम् अकरोत् । एषा बहूनि महत्त्वभूतानि संशोधनानि कृतवती । विटमिन् बि–१२ अणोः सङ्कीर्णां रचनाम् एषा डारोति क्रोफट् हाज्किन् संशोधितवती । अनेन सह “कोलस्टराल्”, “ऐयोडिन्”, “पेन्सिलिन्”, “इन्सुलिन्” इत्यादीनां रसायनिक-संयुक्तानां विवरणम् अपि अकरोत् । एतानि सम्सोधनानि वैद्यविज्ञानस्य कृते महत्त्वभूतानि उपायनानि अभवन् ।
बि – १२ अणोः रचनायाः कारणतः शरीरं कथं रक्तवर्णस्य रक्तकणानाम् उपयोगं करोति इति ज्ञातम् । तेन ज्ञानेन “पर्निषियस् अनिमिय” इति रोगस्य औषधस्य अन्वेषणम् अपि सुलभम् अभवत् । एषा डारोति क्रोफट् हाज्किन् १९७२ तमे वर्षे आधुनिकानां सङ्गणाकानां साहाय्येन “इन्सुलिन्”–रचनां संशोधितवती । एतया डारोति क्रोफट् हाज्किनया अनुसृतम् “एक्स्-किरण डिफ्राक्षन् तन्त्रं” डि एन् ए - इत्यस्य रचनायाः निर्णये अपि साहाय्यम् अकरोत् । एषा डारोति क्रोफट् हाज्किन् प्रमुखाणां जीवरसायनवस्तूनां रचनाम् एक्स्-किरण डिफ्राक्षन् तन्त्रद्वारा संशोधितवती इति १९६४ तमे वर्षे रसायनविज्ञानस्य विभागे “नोबेल्”–पुरस्कारम् अपि प्राप्नोत् । एषा डारोति क्रोफट् हाज्किन् १९९४ तमे वर्षे मरणं प्राप्नोत् ।