तिरुवळ्ळूरुमण्डलम्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
तिरुवळ्ळूरुमण्डलम्
திருவள்ளூர் மாவட்டம்
—  मण्डलम्  —
तिरुवळ्ळूरुदेवालयम्
तमिळ्नाडुराज्ये तिरुवळ्ळूरुमण्डलम्
राष्ट्रम्  India
State तमिळ्नाडु
Boroughs तिरुवळ्ळूरुः, पून्नमल्ली, पोन्नेरिः, गुम्मिडिपूण्डिः, ऊत्तुकोट्टै, तिरुत्तणिः, पळ्ळिप्पाट्टुः, अम्बत्तूरुः, मादावरम्
सर्वकारः
 • Collector आशिश् चाटेर्जी, IAS
विस्तीर्णम्
 • Total ३,४२२ Square km (१,३२१.२ Square mile)
जनसङ्ख्या (2011)
 • Total ३७,२५,६९७
 • श्रेणी 4
भाषाः
दूरवाणि सङ्केतः 044
Sex ratio 983 /
साक्षरताप्रतिशतम् 83.33%
Central location: 13°8′N 79°54′E / 13.133°N 79.9°E / 13.133; 79.9
Avg. summer temperature ३७.९ °C (. °F)
Avg. winter temperature १८.५ °C (. °F)
जालस्थानम् www.tiruvallur.tn.nic.in


तिरुवळ्ळूरुमण्डलं (Tiruvallur District) (तमिऴ्: திருவள்ளூர்மாவட்டம்) दक्षिणभारतस्य तमिऴ्नाडुराज्यस्य मण्डलेषु अन्यतमम् । अस्य केन्द्रस्थानं तिरुवळ्ळूरुपत्तनम् । अस्मिन् मण्डले नगर, ग्रामीणप्रदेशयोः साङ्कर्यं दृश्यते । मण्डलस्य पूर्वभागे नगरप्रदेशाः अधिकाः । दक्षिणभागे उत्तरभागे च आन्ध्रसंस्कृतेः प्रभावः दृश्यते । अस्मिन् मण्डले तमिऴ्, तेलुगु, उर्दू, मलयाळभाषाः भाष्यन्ते । हिन्दूसमुदायस्य जनाः अत्र अधिकसंख्याकाः ।

व्युत्पत्तिः[सम्पादयतु]

‘तिरुवळ्ळूरु’ इति पदम् ‘तिरु’, ‘एव्वुळ्ळ्’ इति तमिऴ्भाषापदाभ्यां व्युत्पन्नम् । ‘तिरु’ इत्यस्य ‘देवः’ इत्यर्थः । ‘एव्वुळ्ळ्’ इत्यस्य ‘कुत्र स्वपिमि?’ इत्यर्थः । अत्रत्यः देवः वीरराघवः कञ्चन सन्तं रात्रौ स्वपितुं स्थलं याचितवान् इति स्थलपुराणेन सम्बद्धं भवति ।

इतिहासः[सम्पादयतु]

क्रिस्तीयसप्तमशतके पल्लवानां प्रशासनाद् आरभ्य एकोनविंशतिशतके ब्रिटिशानां प्रशासनपर्यन्तम् अस्मिन् प्रदेशे बहूनां राजवंशानां प्रशासनं दृष्टम् । कर्णाटकसमरस्य रणाङ्गणम् आसीत् अयं प्रदेशः । अद्यतनं तिरुवळ्ळूरुमण्डलं चेङ्गलपाट्टुमण्डलस्य विभजनेन निर्मितम् ।

भौगोलिकम्[सम्पादयतु]

तिरुवळ्ळूरुमण्डलस्य विस्तारः ३४२४ चतुरश्रकिलोमीटर् । अस्य मण्डलस्य उत्तरभागे आन्ध्रप्रदेशः, पूर्वत्र बङ्गालसमुद्रः, आग्नेयदिशि चेन्नैमण्डलं, दक्षिणे काञ्चिपुरमण्डलं, पश्चिमे वेलूरुमण्डलं च अस्ति । मण्डलस्य तीरप्रदेशः समभूमिः । इतरभागेषु निम्नोन्नतप्रदेशाः, गिरिप्रदेशाः च दृश्यन्ते ।

जनसंख्या[सम्पादयतु]

२०११ तमवर्षस्य जनगणनानुगुणम् अस्य मण्डलस्य जनसंख्या ३,७२५,६९७ । भारतस्य ६४० मण्डलेषु जनसंख्यादृष्ट्या अस्य मण्डलस्य ७० तमं स्थानम् । अत्र जनसान्द्रता प्रतिचतुरश्रकिलोमीटर् १,०४९ (२,७२० प्रतिचतुरश्रमैल्) अस्ति । २००१-२०११ दशके जनसंख्यावृद्धेः प्रमाणं ३५.२५% आसीत् । अस्मिन् मण्डले पुं, स्त्री अनुपातः १०००:९८३ अस्ति, साक्षरताप्रमाणं च ८३.८२% ।

उपमण्डलानि[सम्पादयतु]

तिरुवळ्ळूरुमण्डले नव उपमण्डलानि सन्ति । तानि -

१) तिरुवळ्ळूरुः
२) पून्नमल्ली
३) पोन्नेरिः
४) गुम्मिडिपूण्डिः
५) ऊत्तुकोट्टै
६) तिरुत्तणिः
७) पळ्ळिप्पाट्टुः
८) अम्बत्तूरुः
९) मादावरम्

आर्थिकता[सम्पादयतु]

औद्यमिकप्रगतेः दृष्ट्या तमिऴ्नाडुराज्ये अत्यन्तं वेगेन वर्धमानेषु मण्डलेषु तिरुवळ्ळूरु अपि अन्यतमम् । मद्रास् रिफ़ैनरीस्, मद्रास् फ़र्टिलैज़र्स्, मनालि पेट्रोकेमिकल्स्, एम्‌. आर्‌. एफ़्, अशोक् लीलाण्ड्, ‍टिऐ सैकल्स्, ब्रिटानिया इण्डिया, पारी इण्डिया, हिन्दूस्तान् मोटर्स् प्रभृतयः अनेके उद्यमाः अस्मिन् मण्डले दृश्यन्ते । एण्णूरु उष्णविद्युत्स्थावरः, आवडि ट्याङ्क् उत्पादनकेन्द्रं च अस्मिन् मण्डले एव स्तः । अस्मिन् मण्डले १६ औद्यमिकभूमयः सन्ति, सर्वाः अपि कार्यरताः । आसु ११ सर्वकारेण निर्मिताः, ५ वैयक्तिकतया । अस्मिन् मण्डले १६,९४० लघूद्यमाः सन्ति । येषु प्रमुखतया आहारकाष्ठकार्यवस्त्रनिर्माण-रासायनिक आभियन्त्रिक अलोहचर्मकार्यागाराः दृश्यन्ते ।

वीक्षणीयस्थलानि[सम्पादयतु]

तिरुवळ्ळूरु वीरराघवस्वामिदेवालयः[सम्पादयतु]

वीरराघवस्वामिदेवालयः

तिरुवळ्ळूरुक्षेत्रं प्राक्काले भिक्ष्वरण्यम् इति ख्यातम् आसीत् । अत्रत्यः आराध्यदेवः वीरराघवः, देवी च कनकवल्ली । अस्य देवालयस्य तडागः ‘हृत्तापनाशनः’ इति ख्यातः । तत्सम्बद्धः श्लोकः कश्चन श्रूयते –

दर्शनात् स्पर्शनात् स्नानात् सद्यो हृत्तापनाशनः ।
अतो सर्वेषु लोकेषु नाम्ना हृत्तापनाशनः ॥

तडागस्य मध्ये मण्डपः अस्ति, यत्र देवालयस्य उत्सवाः आचर्यन्ते । देवालयस्य गोपुरेषु द्राविडशैल्याः शिल्पाः सन्ति, यैः पौराणिककथाः चित्रिताः सन्ति ।

तिरुत्तणिः[सम्पादयतु]

अत्र समुद्रस्तरात् ७०० पादानाम् औन्नत्ये एकशिलायाः उपरि मुरुगस्य देवालयः अस्ति । इदं क्षेत्रं अरक्कोणतः १३ किलोमीटर् दूरे अस्ति । आरुपडैवीडुक्षेत्रेषु इदम् अन्यतमम् । असुरेभ्यः क्रुद्धस्य कार्त्तिकेयस्य क्रोधः अत्र शान्तः । अतः इदं क्षेत्रं ‘शान्तिपुरी’ इति प्रसिद्धम् । मुरुगः अत्र ‘तनिकेशः’ इति नाम्ना पूज्यते, गिरेः च नाम तनिकाचलः इति ।

तिरुवेर्काडुः[सम्पादयतु]

इदं क्षेत्रं चेन्नैनगरात् १८ किलोमीटर् दूरे अस्ति । अत्र देवीकरुमारियम्मन् देवालयः अस्ति । भानुवासरेषु भक्ताः अधिकसंख्यायाम् अत्र आगत्य देवीं पूजयन्ति ।

पेरियपाळैयम्[सम्पादयतु]

चेन्नैनगरात् ४५ किलोमीटर् दूरे स्थिते अस्मिन् क्षेत्रे भवानीदेव्याः मन्दिरम् अस्ति । सौरकालमानस्य कर्काटक, सिंहमासयोः (तमिऴ् सम्प्रदाये आडि, आवणिमासयोः) सहस्रशः भक्ताः अत्र आगच्छन्ति ।

तिरुवोट्ट्रियूरुः[सम्पादयतु]

अत्र वडिवुडैयम्मन् त्यागराजस्वामिदेवालयः अस्ति । ज्ञानशक्तेः स्वरूपं वडिवुडैयम्मन् देवी । तस्याः पतिः परशिवः अत्र त्यागराजरूपेण तिष्ठति । आदिपुरीश्वरः इत्यपि ख्यातः एषः देवः ।

विश्वरूपपञ्चमुख आञ्जनेयस्वामिदेवालयः[सम्पादयतु]

चेन्नैनगरतः ४५ किलोमीटर् दूरे पेरियकुप्पग्रामे अयं देवालयः अस्ति । आञ्जनेयः, नरसिंहः, गरुडः, लक्ष्मीवराहः, हयग्रीवाणां मुखैः सहितः आञ्जनेयः अत्र शोभते । अस्याः मूर्त्याः औन्नत्यं ३२ पादाः ।

पूण्डिजलाशयः[सम्पादयतु]

पूण्डिग्रामः चेन्नैनगरात् ६० किलोमीटर् दूरे अस्ति । अत्र सत्यमूर्तिसागराख्यः जलाशयः अस्ति । जलाशयस्य विस्तारः १२१.५ चतुरश्रमैल् । अस्मात् जलाशयाद् एव चेन्नैमहानगरं प्रति पेयजलं सम्प्रेष्यते ।

पुलिकाट्टुः[सम्पादयतु]

इदं पत्तनं चेन्नैनगरात् ६० किलोमीटर् दूरे अस्ति । अत्र पुलिकाट्टुतडागः अस्ति । तडागस्य तीरे विविधप्रभेदानां पक्षिणः दृश्यन्ते । १६०९ तमे वर्षे डच्जनैः निर्मितः दुर्गः अपि अत्र अस्ति । भारतस्य व्योमसंशोधनाकेन्द्रं (श्रीहरिकोटा) अत्रैव अस्ति ।

अम्बत्तूरुः[सम्पादयतु]

अयं पुरातनः ग्रामः चेन्नैनगरात् पश्चिमदिशे १६ किलोमीटर् दूरे अस्ति । दक्षिणएषियाखण्डे एव बृहत्तमा औद्यमिकभूमिः अत्र अस्ति । अत्र विन्नरायपेरुमाळ् देवालयः, परमेश्वरस्य देवालयः च अस्ति । भुवनेश्वरीदेवालयेन सहितः मौनस्वामिमठः अपि अत्र अस्ति ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=तिरुवळ्ळूरुमण्डलम्&oldid=243900" इत्यस्माद् पुनः प्राप्तिः