थामस् हेन्रि हक्स्लि

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
थामस् हेन्रि हक्स्लि
Woodburytype print of Huxley (1880 or earlier)
जननम् (१८२५-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ५-०४)४ १८२५
Ealing, Middlesex
मरणम् २९ १८९५(१८९५-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ६-२९) (आयुः ७०)
Eastbourne, Sussex
वासस्थानम् London
नागरीकता United Kingdom
देशीयता English
कार्यक्षेत्राणि Zoology; Comparative anatomy
संस्थाः Royal Navy, Royal College of Surgeons, Royal School of Mines, Royal Institution University of London
मातृसंस्थाः Sydenham College London
Charing Cross Hospital
विषयेषु प्रसिद्धः Evolution, science education, agnosticism
प्रभावः Thomas Wharton Jones
Edward Forbes, Charles Darwin
प्रभावितः Michael Foster, Patrick Geddes
Henry Fairfield Osborn
H.G. Wells, E. Ray Lankester


थामस् हेन्रि हक्स्लि पौत्रेण जूलियन्नेन सह

(कालः – ०४. ०५. १८२५ तः २९. ०६. १८९५)

अयं थामस् हेन्रि हक्स्लि (Thomas Henry Huxley) विकासवादस्य समर्थकः । अयं १८२५ तमे वर्षे मेमासस्य ४ दिनाङ्के जन्म प्राप्नोत् । अस्य पिता विद्यालये शिक्षकः आसीत् । अस्य थामस् हेन्रि हक्स्लेः प्राथमिकं शिक्षणं द्वितीये वर्षे एव समाप्तम् । तथापि सः स्वाध्ययनेन एव विद्यार्थिवेतनं सम्पाद्य लण्डन्-विश्वविद्यालये वैद्यकीयविद्यार्थिरूपेण प्रवेशं प्राप्नोत् । अयं थामस् हेन्रि हक्स्लि १८४५ तमे वर्षे वैद्यशिक्षणं समाप्य वैद्यपदवीं प्राप्नोत् । अनन्तरं १८४६ तः १८५० पर्यन्तं ४ वर्षाणि यावत् आस्ट्रियादेशे नौकावैद्यरूपेण कार्यम् अकरोत् । तदवसरे सः थामस् हेन्रि हक्स्लि बहुत्र प्रवासम् अकरोत् । अयं थामस् हेन्रि हक्स्लि अपि चार्ल्स् डार्विन्, आल्फ्रेड् व्यालेस् इव प्रकृतिचरित्रे आसक्तः आसीत् । ’हेल्लिफिश्’ इति ये मीनाः उच्यन्ते तेषां वंशस्य “सिलेण्टरेट्” इति नामकरणम् अयं थामस् हेन्रि हक्स्लि एव अकरोत् । अयं १८५१ तमे वर्षे रायल् सोसैट्यां चितः अभवत् । तदनन्तरं १८५४ तमे वर्षे रायल् स्कूल् आफ् मैन्स् मध्ये “प्रकृतिचरित्र”-विभागे प्राध्यापकपदम् अपि प्राप्नोत् । अयं थामस् हेन्रि हुक्स्लि शरीरविज्ञानस्य विषये गभीरं ज्ञानं सम्पादितवान् आसीत् । सः केशाणाम् अधः विद्यमानं कञ्चित् कोशं संशोधितवान् । तस्य कोशस्य नाम अद्यापि “हक्स्लिकोशः” इत्येव अस्ति ।

अयं थामस् हेन्रि हक्स्लि वैज्ञानिक्याः पद्धतेः आराधकः आसीत् । अतः सः विज्ञानविषयाः प्राथमिकविद्यालयेषु अपि पाठनीयाः इति आग्रहम् अकरोत् । तस्य आग्रहस्य कारणतः इङ्ग्लेण्ड्-देशस्य शिक्षणस्य पद्धतिः अपि प्रगतिं प्राप्नोत् । विकासवादं जनप्रियम् अकरोत् इत्येतत् एव थामस् हेन्रि हक्स्लेः जीवनस्य प्रमुखं कार्यम् । विकासवादस्य विरोधं ये कुर्वन्ति स्म तान् सर्वान् धिक्कृत्य प्रबलतया डार्विनं समर्थितवान् अयम् । विकासवादस्य समर्थनावसरे कदाचित् आक्स्फर्ड् मध्ये काचित् घटना प्रवृत्ता । तत्र ब्रिटिश् असोसोयेषन् द्वारा सभा आयोजिता आसीत् । सभायां विद्यमानः विल्बर्फोर्स् इत्याख्यः कश्चन क्रैस्तधर्मगुरुः अस्य थामस् हेन्रि हक्स्लेः उपहासं कुर्वन् – “मर्कटाः भवतः पूर्वजाः इति वदति खलु, ते भवतः पितुः बान्धवाः वा उत मातुः वा ?” इति अपृच्छत् । तदा थामस् हेन्रि हक्स्लि – “यदि मम प्रपितामहादयाः के इति वक्तव्यं भवति तर्हि तदा अपि अहं निष्कपटान् मर्कटान् एव चिनोमि, न तु विज्ञानक्षेत्रे सम्पूर्णतया अज्ञानी चेत् अपि यत्किमपि भाषमाणं मनुष्यम् ।“ इति प्रत्युत्तरम् अददात् । तदनन्तरम् अग्रे सः उपहासं कर्तुम् उद्युक्तः विल्बर्फोर्स् किमपि न अवदत् एव । अयं थामस् हेन्रि हक्स्लि जनप्रियः विज्ञानलेखकः आसीत् । सः जीवनस्य अन्तिमं कालं धर्मसम्बद्धानां प्रश्नानाम् उत्तरं यच्छन् यापितवान् । सः १८९५ तमे वर्षे जून्-मासस्य २९ तमे दिनाङ्के इहलोकम् अत्यजत् ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=थामस्_हेन्रि_हक्स्लि&oldid=353108" इत्यस्माद् प्रतिप्राप्तम्