दातव्यमिति यद्दानं...
दिखावट
श्लोकः
[सम्पादयतु]अयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- दातव्यमिति यद्दानं दीयतेऽनुपकारिणे ।
- देशे काले च पात्रे च तद्दानं सात्त्विकं स्मृतम् ॥ २० ॥
अयं भगवद्गीतायाः सप्तदशोध्यायस्य श्रद्धात्रयविभागयोगस्य विंशतितमः(२०) श्लोकः ।
पदच्छेदः
[सम्पादयतु]दातव्यम् इति यत् दानं दीयते अनुपकारिणे देशे काले च पात्रे च तत् दानं सात्त्विकं स्मृतम् ॥ २० ॥
अन्वयः
[सम्पादयतु]देशे काले च पात्रे च दातव्यम् इति अनुपकारिणे यत् दानं दीयते तत् दानं सात्त्विकं स्मृतम् ।
शब्दार्थः
[सम्पादयतु]- देशे = योग्ये प्रदेशे
- काले = योग्ये समये
- पात्रे = शमादिगुणसम्पन्ने
- दातव्यम् इति = देयम् इति
- अनुपकारिणे = उपकारविहीनाय
- स्मृतम् = प्रोक्तम् ।
अर्थः
[सम्पादयतु]योग्ये प्रदेशे योग्ये च काले उपकारम् अकृतवते च शमादिगुणसम्पन्नाय पुरुषाय दातव्यम् इति बुद्ध्या यत् दानं क्रियते तत् सात्त्विकम् इत्युच्यते ।