द्वितीयः चन्द्रगुप्तः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
गम्यताम् अत्र : पर्यटनम्, अन्वेषणम्
एतद एकः निर्वाचित लेख अस्ति। अधिक विज्ञप्या टक्टकायन करोतु।



द्वितीय चन्द्रगुप्तः (विक्रमादित्यः)
अश्वारूढः चन्द्रगुप्तविक्रमादित्यः
राज्यम्
कालः क्रि.पू ३७५-४१५
राज्याभिषेकः
पूर्वजः रामगुप्तः
उत्तराधिकरिः {{{उत्तराधिकरिः}}}
राज्ञी द्रुवस्वामिनी
वंशः
वंशः गुप्त
पिता समुद्रगुप्तः
माता दत्तदेवी
परिवारः
पत्न्यः {{{पत्नि}}}
पुत्राः कुमारगुप्तः
दुहितारः प्रभावती

चन्द्रगुप्तविक्रमादित्यः (महान् विक्रमादित्यः इति नाम्नि प्रसिद्धः)गुप्तवंशे भारतस्य महान् राजा आसीत्। सः ३७५ वर्षादारभ्य ४१५ पर्यन्तम् प्रशास्ति स्म। तस्य पिता समुद्रगुप्तमहाराजः आसीत्। तस्य अधिपत्यम् एव भारतसुवर्णकाल: इति कथ्यते स्म।

अन्तर्विषयाः

[सम्पादयतु] चरितम्

चन्द्रगुप्तविक्रमादित्यस्य माता राज्ञी दत्तदेवी आसीत्। तस्य पितुः मरणानन्तरम् तस्य भ्राता रामगुप्तः द्रुवस्वमिनीम् परिणीय राजा अभवत्। रामगुप्तः स्वरक्षायै स्वपत्नीं शकाधिपाय रुद्रसिंहाय परिददाति स्म। विक्रमादित्यः राज्ञ्याः वेषं ध्रुत्वा रुद्रसिंहस्य समीपं गतवान्। सः तम् शकाधिपं हतवान्। ततः स्वभ्रातरम् अपि हत्वा स्वभ्रातृजायाम् प्रीणयति स्म। एतत् विशाखदत्तस्य देवीचन्द्रगुप्तम् नाम नाटके कथितम् । सः नागराजकुमारीम् कुभेरनागाम् अपि परिणीतवान्। तयोः पुत्री प्रभावती वाकाटकमहाराजस्य रुद्रसेनस्य पत्नी आसीत्।

[सम्पादयतु] राज्यम्

रजतदिनारः

सः शकान् जित्वा तेषाम् राज्यं स्वराज्ये योजितवान्।तस्य विशालम् राज्यम् सिन्धोः तीरादारभ्य गङ्गानदीपर्यन्तम् आसीत्। तस्य जामातुः रुद्रसेनस्य मरणात् अनन्तरम् तस्य पुत्री प्रभावती स्वपुत्रस्यार्थे शासनम् कृतवती। अतः अस्मिन् काले वकाटकराज्यम् अपि गुप्तराजस्य अधीने आसीत्। अस्य साम्राज्यस्य भाग्यं तस्य निष्केषु दृश्यते। फाक्सियान् नामक: चीनयात्री तस्य साम्राज्यस्य महत्वम् वर्णितवान्। स उवाच-"अस्मिन् देशे जनाः पलाण्डुं, मदिरां मांसानि च न सेवन्ते। गुप्तसाम्राज्ये मरणदण्डनं क्षेत्रशुल्कं च न वर्तेते।" विक्रमादित्यस्य सभायां नवरत्नविद्वांसः अवसन्। तेषु महाकवि: कालीदासः ज्योतिषज्ञः वरहमिहीरः आर्यभट्टः च प्रमुखाः इति श्रूयते। एष्: काल: एव भारतसुवर्णकाल: इति नाम्ना प्रसिध्दः अस्ति।

[सम्पादयतु] देहल्या: अयस्स्तम्भ:

अयस्तम्भम्

सः एकम् अयस्स्तम्भं स्थापितवान्। एतत् विष्णुमन्दिरे ध्वजस्तम्भरूपेण आसीत्। बहुभ्य: वर्षेभ्य: बहि: भूत्वा अपि अत्र इदानीमपि अयस्किट्टं नोत्पन्नम् । एतेन भारतस्य अयस्काराणाम् कुशलता पौराणिकभारतलोहकर्मशास्त्रस्य महत्वं ज्ञायते ।

[सम्पादयतु] कथाः

सिंहासनद्वात्रिंशिका-वेतालपञ्चविंशतिनामकयो: ग्रन्थयोः तस्य कथाः सन्ति।

[सम्पादयतु] वैदेशिकविजयम्

सः पश्चिमोत्तरदिशि वक्षुतीरे वसतः पारसिकान् कम्बोजान् हूणान् पूर्वस्यां दिशि च किरातान् किन्नरान् च जितवान्।

वैयक्तिकोपकरणानि
नामाकाशानि

भिन्नरूपाणि
क्रियाः
पर्यटनम्
उपकरणपेटिका
अन्यासु भाषासु