पुष्पोत्सवः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
फूलवालों की सैर पत्रमुद्रा
पुष्पोत्सवस्य पत्रमुद्रा

उत्सवप्रियः भारतदेशः। अत्र कुत्रचित् शस्योत्सवः भवति, कुत्रचित् पशूत्सवः भवति, कुत्रचित् धार्मिकोत्सवः भवति कुत्रचित् च यानोत्सवः। एतेषु एव अस्ति अन्यतमः पुष्पोत्सवः इति। अयं फूलवालों की सैर इति नाम्ना प्रसिद्धः अस्ति।

देहल्याः मेहरौलीक्षेत्रे ओक्टोबर्मासे अस्य आयोजनं भवति। अस्मिन् अवसरे तत्र बहुविधानि पुष्पाणि दृश्यन्ते। परं प्रमुखम् आकर्षणं तु अस्ति पुष्पनिर्मितानि व्यजनानि।

जनाः एतानि पुष्पव्यजनानि योगमायामन्दिरे बख्तियारकाकी इत्यस्य समाधिस्थले च अर्पयन्ति। केचन पाटलपुष्पैः निर्मितानि, केचन कर्णिकारपुष्पैः, अन्ये जपाकुसुमैः, अपरे मल्लिकापुष्पैः, इतरे च गेन्दापुष्पैः निर्मितानि व्यजनानि नयन्ति।

अयम् उत्सवः दिवसत्रयं यावत् प्रचलति। एतेषु दिवसेषु वाताटानाम् उड्डयनम्, विविधाः क्रीडाः मल्लयुद्धं चापि प्रचलति।

पुष्पव्यजनं प्राप्नुवन् तत्कालीनः उपराष्ट्रपतिः हामिद अंसारी

विगतेभ्यः द्विशतवर्षेभ्यः पुष्पोत्सवः जनान् आनन्दयति। मध्ये इयं परम्परा स्थगिता आसीत्। परं स्वतन्त्रताप्राप्तेः पश्चात् इयं मनोहारिणी परम्परा पुनः समारब्धा। पुष्पोत्सवः अद्यापि सोल्लासं सोत्साहं च प्रचलति।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=पुष्पोत्सवः&oldid=474809" इत्यस्माद् प्रतिप्राप्तम्