पोर्टलण्ड्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
पोर्टलण्ड् नगरम्

पोर्टलण्ड्

Portland
पोर्टलण्ड्
पीट्टोक् सौधात् नगरस्य दृश्यः
देशः अमेरिका-संयुक्त-संस्थानम्
राज्यम् ओरेगन्
नगरविस्तारः ३७५ च.कि.मी.
जनसङ्ख्या(२०१३) ६०९,४५६
Time zone UTC-८
भाषाः आङ्ग्लं
समयमण्डलम् पसिफ़िक्मानसमयः(पी.एस्.टी)
Website www.portlandoregon.gov

पोर्टलण्ड् (आङ्ग्ल: Portland) ओरेगन् राज्यस्य महिष्ठं नगरं भवति, यत्र विलामेट् , कोलम्ब्या इत्येतयोः नद्योः संगमं वर्तते । २०१३ वर्षे एतस्य नगरस्य जनसंख्या ६०९,४५६ इति गणिता , यस्मात् कारणात् इदं नगरं राष्ट्रस्य वासिततम नगरेषु नवविंशतितमम् इति नियोजितम् ।

प्रकृष्टायै भूमियोजनायै, लोकयानजालकाय, लघुरेलयानप्रक्षापनाय च पोर्टलण्ड् विश्रुतम् । अतः पर्यावरण-चेतना इत्यस्य क्षेत्रे विश्वराष्ट्रेषु पोर्टलण्ड् नगरस्य प्रधानम् स्थानं वर्तते । पोर्टलण्ड् नगरस्य सामुद्र वायुगुणः पाटलपुष्पवर्धनाय समीचीनः भवति । अस्मिन् नगरे नैकानि पाटलपुष्पोद्यानानि सन्ति, यस्मात् एतत् नगरम् "पाटलपुष्पाणां नगरम् " इति कथ्यते ।

इतिहास:[सम्पादयतु]

१८९० इत्येतस्मिन् वर्षे पोर्टलण्ड् नगरम्

नैकेभ्यः शताब्देभ्यः एषः प्रदेशः देशिक-अमेरिका गोत्र जनानां अधिवासः आसीत् । तेषु केचन कोलम्ब्या नद्याः परिसरे , केचन वपाटो द्वीपे वसन्ति स्म । समीपस्था टुवालटिन् समभूमिः तेषां आखेटभूमिः भवति स्म ।

१८४३ इत्येतस्मिन् वर्षे श्री विल्यम् ओवर्टन् इत्येषः श्री असा लव्जोय् इत्येतस्य धनसाहाय्येन एतां भूमिं क्रीतवान् । अनन्तरं सः भूमिं विभज्य अर्धः भागः श्री फ़्रान्सिस् पेट्टिग्रोव इत्येतस्मै विक्रीतवान् । फ़्रान्सिस् बास्टन् नगरात् आसीत् , लव्जोय् तु मेन् राज्यस्य पोर्टलण्ड् नगरात् आसीत् । नूतनायै भूम्यै उभौ स्वस्य-स्वस्य नगरस्य नाम दातुम् इष्टवन्तौ । विवादनिवारणाय तौ नाणकमेकं त्रिवारं क्षिप्तवन्तौ , यत्र लव्जोय् महोदयः द्विवारं जयं प्राप्तवान् । ततः प्रदेशस्य नाम पोर्टलण्ड् इति घोषितम् ।

द्वयोः नद्योः पसिफ़िक् समुद्रस्य च सकाशत्वेन पोर्टलण्ड् नगरं वर्धमानः नौकाश्रयः अभवत् ।

भौगोलिकम्[सम्पादयतु]

रेय्न्यर् पर्वतः (वामभागे) आडम्स् पर्वतः च (दक्षिणतः)

पोर्टलण्ड् नगरम् ओरेगन् राज्यस्य उत्तर-पश्चिम कोणे , पसिफ़िक् समुद्रात 70 क्रोशकाणां दूरे निविष्टम् । कोलम्ब्या नदी ओरेगन् , वाशिङ्टन् इत्येतस्योः राज्ययोः स्वाभाविका सीमा इव प्रवहति । विलामेट् नदी नगरस्य मध्ये आस्रवति अनन्तरं कोलम्ब्या नद्या सह योजयति । टुवालटिन् गिरयः नगरस्य पश्चिम दिशि तिष्ठन्ति । कास्केड् पार्वतिकम् एतेषां गिरीणां पूर्व दिशि तिष्ठति । मेघरहितदिनेषु हूड् पर्वतः , हेलेन्स् पर्वतः , आडम्स् पर्वतः, कदाचित् रेय्न्यर् पर्वतः अपि दिग्मण्डले दृश्यते ।

दिवा पोर्टलण्ड् नगरस्य सर्वदिग्दर्शकचित्रं
रात्रौ पोर्टलण्ड् नगरस्य सर्वदिग्दर्शकचित्रं

वायुगुणः[सम्पादयतु]

पोर्टलण्ड् नगरस्य वायुगुणः सामुद्रः । ग्रीष्मकालः मन्दोष्णः शुष्कश्च भवति । शीतकालः अनृशंसः आर्द्रश्च भवति । अधिकतमः ग्रीष्मः आगस्ट् मासे अनुभूयते , यदा तापमानं ९० °F (३२ °C) इत्येतस्मात् परम् अपि भवितुम् अर्हति । शरद्काले वसन्तकाले च वातावरणम् अनिश्चितं भवति, परन्तु प्रायेण परुषेतरेन तापमानेन, मेघावता नभेन, मन्दवर्षया च लाञ्छ्यते । कदाचित् शीतकाले हिमपातः अपि भवति, परन्तु विरलःअल्पश्च ।


























अर्थव्यवस्था[सम्पादयतु]

पोर्टलण्ड् नगरस्य आधारः नैकेभ्यः उद्यमेभ्यः अर्थशीलः । इन्टेल् संस्था अत्रत्य प्रधाना महिष्ठा च , यत्र उपपञ्चदशसहस्त्र जनाः कार्यं कुर्वन्ति । सहस्राधिक अन्याः प्रौद्योगिकी उद्योगसंस्थाः अत्र स्थापिताः , यथा लाट्टिस् सेमिकण्डक्टर् , टेक्ट्रोनिक्स् , ट्रैक्विन्ट् सेमिकण्डक्टर् , वेफ़र्टेक् , मेन्टर् ग्राफ़िक्स् , सिनोप्सिस् , यस्मात् अस्मिन् प्रदेशः "सिलिकण् फ़ोरेस्ट्" इत्यपि कथ्यते । नैकी , अडिडास् इव पादरक्ष निर्माण उद्यमानाम् अपि पोर्टलण्ड् केन्द्रः वर्तते ।

दर्शनयोग्यानि स्थलानि[सम्पादयतु]

प्रकृत्युपपन्नम् एतत् नगरं बहु रमणीयम् । नैकानि उद्यानानि जल-संसाधनानि च अस्मिन् नगरे अथवा नगरस्य समीपे सन्ति । फ़ोरेस्ट् उद्यानं , वाशिङ्टन् उद्यानम् , अन्ताराष्ट्रिय पाटलपुष्पोद्यानं , जापनीस् उद्यानम् इत्येतानि प्रसिद्धानि । नगरात् किञ्चित् बहिः नैकाः सरोवराः, पर्वताः , जलपाताः , स्यन्दनिकाः च सन्ति । शीतकाले एते पर्वताः हिमक्रीडकेन्द्राः भवन्ति ।

जापनीस् उद्यानम्
पाटलपुष्पोद्यानं
मल्टनोमा जलपातः
क्रेटर सरोवरः
हुड् पर्वतस्य दर्पण तडागे प्रतिबिम्बः
नगरस्य प्रसिद्धम् चिह्नं














शिक्षा[सम्पादयतु]

अस्मिन् नगरे वर्तमानाः प्रधानाः विश्वविद्यालयाः एते - पोर्टलण्ड् स्तेट् यूनिवर्सिटी , यूनिवर्सिटी ओफ़् पोर्टलण्ड्, ओरेगन् हेल्त् आण्ड् सैन्स् यूनिवर्सिटी, पोर्टलण्ड् कम्यूनिटी कोलेज्

परिवहनम्[सम्पादयतु]

वायुमार्गसञ्चाराय नगरस्य बहिर्भागे पोर्टलण्ड् अन्ताराष्ट्रिय विमानपत्तनं भवति । इतः देशस्य सर्वान् प्रधानान् नगरान् प्रति विमानानि डयन्ते । अनेकाः अन्ताराष्ट्रिय विमानाः अपि इतः प्रतिष्ठन्ते । नगरपर्यटनाय रेलयानानि लोकयानानि च सन्ति । ऐ-५ , ऐ-४०५ , ऐ-२०५ , यू.एस्-२६ इत्येते नगरस्य मुख्याः राजमार्गाः । द्विचक्रिकाचालनानुकूलतायै एतत् नगरं प्रसिद्धम् ।

उल्लेखाः[सम्पादयतु]

https://en.wikipedia.org/wiki/Portland,_Oregon
https://en.wikipedia.org/wiki/Mount_Hood

"https://sa.wikipedia.org/w/index.php?title=पोर्टलण्ड्&oldid=314218" इत्यस्माद् प्रतिप्राप्तम्