बिग्-ब्याङ्ग्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
महास्फोटः

एषः सिद्धान्तः इदानीं तावत् सृष्टिशास्त्रे कृतभूरिपरिश्रमैः अधिकविज्ञानिभिः अङ्गीक्रियते । अस्य सिद्धान्तस्य स्थूलपरिचयो नाम – जगतः सृष्टिः एकेन बृहत् स्फोटेन सम्पन्ना । तत्र पूर्वं न किञ्चित् आसीत् । स्फोटानन्तरमेव सर्वमुत्पन्नम् । इदानीं विद्यमानं दृश्यमानं सर्वं द्रव्यं संग्रहरूपेण एकस्मिन् एव अणौ संपिण्डितम् आसीत् । महत् औष्ण्यं तदानीम् आसीत् । तस्य गुरुत्वकारणात् एव द्रव्यं समग्रम् अणोः न्यूक्लियस्-रूपेण महत्या सान्द्रतया अवर्तत । कालः अपि अत्र विज्ञानिभिः गणितः यत् कदा सम्पन्नः अयं महान् स्फोटः इति । ते वदन्ति – 13.7 बिल्लियन् वर्षेभ्यः प्राक् इति। तस्याः अवस्थायाः कृते एकत्वम् (सिन्ग्युलारिटि) इति नाम्ना अबिदधते विज्ञानिनः। सृष्टिशास्त्रीयविषयानाम् अध्ययनेन ज्ञायते यत् आदौ अर्थात् सृष्टिक्रमस्य आरम्भे sub-atomic particles उत्पन्नानि । यदा च महदौष्ण्यं क्षीणातां प्राप ततः परम् लघुघटकानां संयोजनं सम्पन्नम् । तेनैव क्रमेण पदार्थस्य शक्तेश्च आविर्भावः समजनि ।

बिग्-ब्याङ्ग्

सृष्टिप्रक्रिया - क्वाण्टम् सिद्धान्तः प्रतिपादयति यत् बिग्-ब्याङ्ग् स्फोटस्य 10-2 sec अनन्ततम् चत्वारि अपि बलानि एकत्रीकृतानि आसन् । तदानीं परमबलमेकम् अवर्तत इति । चत्वारि बलानि नाम दृढ-न्यूक्ल्यर्-बलं (strong nuclear), अदृढ-न्यूक्ल्यर्-बलं (weak nuclear), एलेक्ट्रो-माग्नेटिक्-बलं (electromagnetic force), गुरुत्वबलं (gravitational force) च । तत्रादौ स्फोटसकाशात् क्वार्क्-अंशाः प्रभवं प्राप्तवन्तः । तेषां anti particle अपि जनिं प्राप्तवन्तः । ततः परमेव तेषां क्वार्क्-अंशानां त्रयाणां त्रयाणां समवायेन फोटान्-घटकाः, पोसिट्रोन्-घटकाः, न्यूट्रिनो-घटकाः च उत्पन्नाः । ततः परं प्रोटान्-घटकानां उत्पत्तिः अभूत् तत्र प्रति बिल्लियन् फोटान्-घटकेभ्यः एकः प्रेटान् इति एवम् अनुपातः आसीत् । अस्याम् अवस्थायां समग्रं जगत् प्लास्मारूपेण अयान्स्वरूपेण च अवर्तत । तदानीं शक्तेः अणोः च मध्ये भेदः न आसीत् । समानरूपता आसीत् । पुनश्च अणूनां (particles) प्रत्यणूनां च (anti-particles) समसङ्ख्याकत्वम् आसीत् । किन्तु एकक्षणस्य शतभागेषु एकस्मिन् भागे (one hundredth of a second) जगति विद्यमानानि न्यूट्रान्-घटकानि विकिरणानि प्रसारयन्ति अभवन् । एतेन कारणेन एलेक्ट्रान्-अंशानां प्रोटान्-अंशानां च मध्ये आकर्षणद्वारा सम्मेलनम् आरब्धम् । तथैव अवशिष्टन्यूट्रान्-घटकाः प्रोटान्-घटकैः सह मिलित्वा हौड्रोजन्-अणुरूपेण परिणामं प्राप्तवन्तः ।

"http://sa.wikipedia.org/w/index.php?title=बिग्-ब्याङ्ग्&oldid=244827" इत्यस्माद् पुनः प्राप्तिः