ब्याद्मिण्टन् क्रीडा

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
गम्यताम् अत्र : पर्यटनम्, अन्वेषणम्
Badminton
Badminton Peter Gade.jpg
Danish badminton player Peter Gade
परमनियामकगणः Badminton World Federation
प्रथमक्रीडकः 17th century
Characteristics
सम्पर्कः No
गणसदस्यः Single or doubles
वर्गीकरणम् Racquet sport
उपकरणम् Shuttlecock
ओलिम्पिक् 1992–present

प्रायः भविष्यकथनरुपेण आरब्धा एकमात्रक्रीडा नाम पिच्छकन्दुकः(बेडमिण्टन् )। बेबिलोनियन्जनैः भविष्यकथनं विविधैः सर्जनात्मकैः उपायैः क्रियते स्म । तेषु अन्यतमः उपायः नाम पिच्छकन्दुकः(बेडमिण्टन्) क्रीडा । गच्छता कालेन एषा क्रीडा बेबिलोनियातः जगतः विविधेषु भागेषु प्रसृता । द्विसहस्त्रात् वर्षेभ्यः पूर्वं ग्रीस्देशे इयं क्रीडा ‘बेट्लडोर्’ नाम्ना, ‘शटल् काक्’ नाम्ना वा निर्दिश्यते स्म । ग्रीसदेशात् इयं क्रीडा जपान्-सयाम् -भारत- पूर्व- चैनादिषु देशेषु प्रसृता । जपानदेशे इयं क्रीडा ‘हनेट् सुकि’ इति नाम्ना निर्दिश्यते । नूतनवर्षे प्रायः महिलाभिः दीर्घकालं यावत् शटलकाक आकाशे रक्षितुम् इच्छन्तीभिः, एकाकितया द्वाभ्यां वा क्रीड्यते स्म । शट्लकाकताडनात् कश्चित् यदा च्युतः भवेत् तदा क्रीडा रोचिका भवति स्म । तदा प्रतिस्पर्धी विजयोत्साहेन अग्रे आगत्य पराजितस्य मुखे कृष्णमश्या अङ्कनं करोति स्म । सर्वैः विश्वास्स्यते स्म यत् यया बालिकया सुदीर्घकालम् आकाशे शट्ल्काक् रक्ष्यते तया तस्मिन् वर्षे मशकेभ्यः अधिकं रक्षणं प्राप्येत् इति । भारते इयं क्रीडा ‘पूना’ नाम्ना निर्दिश्यते स्म । षोडशे शतके इयं क्रीडा ब्रिटिशजनैः ब्रिट्नदेशं प्रति नीता । काष्ठमयं हस्तताड्यं काष्ठमयेन आवरणेन युतं चर्मतन्तुभिः युक्तं च अभवत् । सपिच्छकन्दुकः अधुना और्णकन्दुकः जातः अस्ति । अस्यां क्रीडायां ब्रिटिश् जनानां महती प्रीतिः उत्पन्ना इत्यतः ते शटलकाकदिनस्य आचरणम् आरब्धवन्तः । तद्दिने सर्वे जनाः आनन्देन क्रीडन्तः दृश्यन्ते स्म सर्वासु वीथीषु ।

बाह्यसम्पर्कतन्तुः [सम्पादयतु]