भारतस्य चत्वारि पुण्यधामानि

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

अखण्डे भारतवर्षे चत्वारि प्रसिद्धानि महापुण्यधामानि सन्ति । एतेषां उत्पत्तिविषये निश्चिता मान्यता अथवा साक्षी उपलब्धा नास्ति । आस्तिकः विश्वासः एव अत्र प्रधानः भवति । भारतस्य चतृसु दिशासु महत्वपूर्णानि मन्दिराणि प्रतिष्ठन्ते । तानि पुण्यधामानि रामेश्वरः द्वारका जगन्नाथपुरी बदरीनाथः च । अष्टमशतके भगवप्रादः श्री शङ्कराचार्यः एतानि एकसूत्रेण ग्रथितवान् इति दृढविश्वासः । एतेषु चतृषु मन्दिरेषु किं परमम् इति निर्णेतुं नैव शक्यते । चतुर्णामपि समानं पुण्यस्थानत्वेन मन्यन्ते साधकाः ।

रामेश्वरमन्दिरम्
बदरीनाथस्य मन्दिरम्
द्वारकधीशस्य मन्दिरम्
जगन्नाथमन्दिरम्