भारतीयविज्ञानसंस्था (IISc)
अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
(भारतीय वैज्ञानिक संस्थानम् इत्यस्मात् पुनर्निर्दिष्टम्)
भारतस्य प्रमुखस्न्तातकोत्तरसंशोधने तथा उच्चशिक्षणे एषा अन्यतमा वर्तते । भारतीयविज्ञानसंस्था संशोधनालयस्य रूपेण कार्यं करोतु इति जमशेडजी-नुस्सेवञ्जी-टाटामहोदयेन चिन्तितम् ।अस्याः स्थापनं १९०९ तमे वर्षे मे मासस्य २७ दिने अभवत् । अत्र ३७ अभियान्त्रिकविभागाः कार्यं कुर्वन्तः सन्ति ।२००० अधिकाः छात्राः संशोधनकार्येषु निरताः सन्ति । प्रसक्तविज्ञानपत्रिका ((Current Science) अस्याः संशोधनस्य आयस्य कृते प्रथमं स्थानं दत्तवती ।