मधुमेहः
अधुनातनसमाजे मधुमेहरोगः साधारणरोगरुपेण बहुभिः अभिज्ञायते । रोगस्य लक्षणं पृथकरुपेण जनेषु दृश्यते । परन्तु रोगस्य मुख्यलक्षणं तु रोगिणां रक्ते मूत्रे च शर्करायाः अवलोकनेन एव भवति । अगन्याशयः सम्यक् क्रियाशीलः न भवति चेत् रक्ते ‘इनसुलिन्’ इति पदार्थस्य ह्रासः भवति । यदि अगन्याशयः प्रचुरम् ‘इनसुलिन्’ न उत्पादयति, तदा शरीरे शर्करायाः उपयोगः सम्यक् भवितुं नार्हति, तस्मादपि शक्तिः नोत्पद्यते ।
परिणामः [सम्पादयतु]
मधुमेहरोगेण रोगी बहुकष्टमनुभवति । वारं वारं मूत्रम्, अत्यधिकक्षुधायाः अनुभवः, अत्यधिकतृषायाः अनुभवः शरीरभारस्य वर्धनं ह्रासः वा, नेत्रयोः अधः कृष्णवर्णता, शरीरे दौर्बल्यानुभवः, चर्मरोगः, इत्यादीनि लक्षणानि दृश्यन्ते । पूर्वोक्ताः सर्वेऽपि रोगाः रोगिणे पीडादायकाः भवन्ति । यदि किञ्चित् क्षतं भवति, तत् क्षतं शीघ्रं शुष्कं न भवति । यदा रोगः पुरातनः भवति, तदा रक्तचापः, नेत्ररोगः, मूत्रग्रन्थौ असमञ्जसता इत्यादयः दृश्यन्ते ।
चिकित्सा [सम्पादयतु]
सामान्यतः रोगिणः शरीरे सूच्यौषधेन, गुलिकया वा ‘इनसुलिन्’ प्रपूर्य चिकित्सा क्रियते । परन्तु सा चिकित्सा कदापि मधुमेहं सम्पूर्णरुपेण न नाशयति । अतः अस्य रोगस्य कृते आसनप्राणायामध्यानानां तु आवश्यकता वर्तते एव ।
योगाभ्यासेन उपशमनम् [सम्पादयतु]
प्रथमतः रोगेऽस्मिन् सम्यक् खाद्यग्रहणं,द्वितीयं नियमितयोगाभ्यासः च । तदनन्तरं एकविंशतिदिवसानन्तरं रोगस्य उपशमविषये अनुभवं कृत्वा, शनै शनैः औषधस्य परिमाणं न्यूनीक्रियते । अन्ते सम्पूणरुपेण औषधं त्यज्यते । अनेन प्रकारेण योगाभ्यासेन मासद्वये, मासत्रये वा रोगस्य उपशमः भवति ।
अनया चिकित्सया यकृतस्य, उदरस्य च ग्रन्थयः स्वस्थाः सन्तः कार्याणि कुर्वन्ति । तदा रोगी रोगात् उपशमम् अनुभवति । अतः तद्रोगाक्रान्ताः अधोनिर्दिष्टानाम् आसनानां नियमितरुपेण अभ्यासं कुर्युः । प्रातः मलविसर्जनानन्तरं प्रथमतः निर्दिष्टे स्थाने कम्बलस्योपरि दण्डायमानो भूत्वा शरीरस्य शिथिलीकरणं विधेयम् । ततः परं ‘सूर्यनमस्कारः’ इति आसनं बीजमन्त्रेण सह षडवारं कर्तव्यम् । ततः मधुमेहरोगस्य कृते निर्दिष्टानि आसनानि कर्तव्यानि ।
| प्रभेदः | Type 1 मधुमेहः | Type 2 मधुमेहः |
|---|---|---|
| प्रारम्भः | अनिरीक्षितम् | क्रमेणम् |
| कदा | प्रायः बालावस्थायां | प्रायः मध्यवयसि |
| शारीरिकस्तिथिः | कृशः सामान्यः वा | प्रायः स्थूलः |
| Ketoacidosis-रासायनिकम् | सामान्यम् | विरलम् |
| Autoantibodies-रासायनिकम् | सामान्यतः भवति | न भवति |
| Endogenous insulin | न्यूनः/नास्ति | सामान्यः |
| प्राचुर्यम् | ~10% | ~90% |