मनोविज्ञाने ऐच्छिकक्रियाविवेचनम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

मनोविज्ञाने ऐच्छिकक्रियाविवेचनम् अतीव महत्त्वपूर्णः विषयः वर्तते। अनेन इच्छायाः विश्लेषणं कर्तुं शक्यते।

प्रयत्नस्वरूपम्[सम्पादयतु]

अस्माभिः पूर्वं चिन्तनस्य संवेदनस्य चेति मानसिकव्यापारद्वयस्य सपरिकरमनु- व्याख्यानं सम्पादितम्। प्रयत्नाख्यमनोव्यापारस्य विवेचनमांशिकरूपेण जन्मजातक्रियाणां सहजक्रियामूलप्रवृत्त्यादीनां विवेचनावसरे चतुर्थेऽध्याये व्याख्यातचरम्। सम्प्रत्यैच्छिक- क्रियारूपमनोव्यापारस्य प्रयत्नव्यपदेशविशेषस्यानुव्याख्यानमवशिष्यते । अत्र वयं तदेव साङ्गोपाङ्गमनुव्याख्यास्यामः। प्रयतनमिति सर्वेषां मानसिकव्यापाराणां मूलकारणम्। अर्थमुपलभ्य ज्ञाता तमर्थमभीप्सति जिहासति वा । तस्येप्साजिहासाप्रयुक्तस्य समीहा 'प्रवृत्ति:' इति व्यपदिश्यते । प्रवृत्तिरेव प्रयतनम्। समीहमानः पुरुषोऽर्थविशेषमभीप्सन् जिहासन् वा तमर्थमवाप्नोति जिहासति वा ।

सेयं समीहा शारीरिकक्रियाभिन्नां यान्त्रिकक्रियारूपां सहजक्रियां विहाय मूलप्रवृत्ति- सहजप्रवृत्तिसामान्यप्रवृत्त्यभ्यासैच्छिकक्रियारूपान् मानसिकव्यापारेष्वाधत्ते, किन्तु तस्याः प्रत्यक्षविशेषप्रेरकत्वमपि निश्चप्रचम्। ध्यानाख्यचैतन्यव्यापारोऽपि समीहामन्तरा न वितनुते । अत एव कामस्य मनोमूलत्वं निखिलमानसव्यापारकारणत्वं प्रत्यपि सुष्ठुतरमाम्नातम्। तथा हि-

कामस्तदग्रे समवर्तताधि मनसो रेतः प्रथमं यदासीत् ।

सतो बन्धुमसति निरविन्दन् हृदि प्रतीष्या कवयो मनीषा ॥ इति । [१]

भगवता मनुनापि कामस्य समीहापरनामधेयस्यः सर्वमनोव्यापारमूलत्वमुररीकृतम्। तद्यथा-

अकामस्य क्रिया काचिद् दृश्यते नेह कर्हिचित् ।

यद् यद्वै कुरुते जन्तुस्तत्तत् कामस्य चेष्टितम् ॥ इति । [२]

अत्र ‘काम:' इति सामान्येऽर्थे 'समीहा' इति व्यपदिश्यते । इममर्थमभिप्रेत्य उपनिषत्स्वपि “काममय एवायं पुरुषः” इत्युक्तम् । सोऽयं कामः, सेयं समीहा, सर्वेषां सङ्कल्पानामाद्या प्रेरिका, ध्यानस्याद्या जेनिका । तां विना नहि संवेदनमपि खल्वभिव्यक्ति लभते, किन्तु कामस्य सर्वोपरि सुनिष्पन्नं रूपमैच्छिकक्रियासु समुपलभ्यते। ऐच्छिकक्रिया 'प्रयत्नः' इति विभाव्यम् । सर्व एव शिष्टाचारः सदाचारो वा एवेति ।

कामस्य मनोमूलत्वमथर्ववेदेऽपि सम्यक्तयाम्नातम् । [३] किञ्च, प्रश्नोपनिषदि श्रूयते यद्धि कबन्धी कात्यायनः भगवन्तं महर्षिपिप्पलादमुपेत्य पप्रच्छ-“भगवन् कुतो ह वा इमाः प्रजाः प्रजायन्त ?” इति । तस्मै भगवान् पिप्पलादः प्रत्युवाच - "प्रजाकामो वै प्रजापतिः, स तपोऽतप्यत स तपस्तप्त्वा स मिथुनमुत्पादयते” इति। [४] अत्र प्रजापति-विशेषणेषु प्रजाकामत्वमेव कामस्य मनोव्यापारमूलत्वं साधयति निरस्तसमस्तशङ्कम्। प्रश्नोपनिषद्वर्णितान्तिमप्रश्नान्तर्गतषोडशकलानां मूलमपि काम एवेति निर्गलितं तथ्यम्। ऐतरेयोपनिषदि तदेव 'ईक्षणम्' इति व्यपदेशेन प्रपञ्चितम् [५]। अत एव कामो निखिलमनोव्यापारबीजम्। तैत्तिरीयोपनिषद्ब्रह्मानन्दवल्ल्यां षष्ठानुवाकेऽपि 'सोऽकामयत' इति निर्देशः कामस्याद्यमनोव्यापारत्वमुररीकरोति ।

कोऽयं कामो नाम ?[सम्पादयतु]

ननु कामप्रवृत्तिः प्राग्वर्णिता; कोऽयं कामो नाम, यमभिप्रेत्यात्र प्रपञ्चनं क्रियते ? कामसूत्रकृद्भिर्महर्षिवात्स्यायनैः कामपदानुव्याख्यानमेवम्प्रकारेण सम्प्रस्तुतम्-“श्रोत्रत्वक्- चक्षुर्जिह्वाघ्राणानामात्मसंयुक्तेन मनसाधिष्ठितानां स्वेषु स्वेषु विषयेष्वानुकूल्यतः प्रवृत्तिः 'काम:' । स्पर्शविशेषविषये त्वस्याभिमानिकसुखानुविद्धा फलवत्यर्थप्रतीति: प्राधान्यात् कामः” इति। [६] अत्र कामपदस्य प्रथमः सामान्योऽर्थो बोद्धव्यः । अपरो विशिष्टोऽर्थः कामप्रवृत्तिं वर्णितचरां प्रकटयति । दृश्यते हि नूनमन्य: कापदस्य प्रयोगो धर्मार्थकाम- मोक्षाख्यचतुवर्गान्तर्गततृतीयपुरुषार्थाभिव्यञ्जकः।

स च लोकैषणापुत्रैषणादारैषणाजन्याभ्युदयः कामपदवाच्यस्तृतीयः पुरुषार्थः। सामान्येऽर्थे काम इच्छारूपमाधत्ते। यच्च वात्स्यायनमुनिना “विषयेच्छानुकूल्यतः प्रवृत्तिः कामः” इत्युक्तम्, तद्वै सुप्रथितार्वाचीनमनोविज्ञाने 'होर्मिक इति वादाख्यां भजते। ‘हार्म' इति पदेन प्राणशक्तेरन्तर्निहितो वेगः सूच्यते, येनाभिप्रेरितोऽयं प्राणी प्रवृत्तौ वा निवृत्तौ वाऽग्रेसरः । एतादृश: प्राण्यन्तर्निहितशक्तिवेगः प्रवृत्तिजनकः 'काम:' इति व्यपदिश्यते । काम एवाभिव्यक्तः सन् अवबुद्धौ वा जायमानः 'प्रयत्नः इति संज्ञा बिभर्त्ति। नूनं सर्वेषां मानवानां तदितरप्राणिनां च प्रयत्ना बाह्योत्तेजकपदार्थ- जन्याः; किन्तु प्राणिनामन्तर्निहितनैसर्गिकशक्तिवेगं विना नहि प्रयत्नरूपावधारणं कर्तुं शक्यते।

कीदृशः प्रयत्नः कीदृशमाचरणं कस्यचिन्मानवस्य प्राणिनो वा भविष्यतीति सर्वं तस्य तस्य कामस्य चेष्टितं भवति, तस्य तस्य नैसर्गिकशक्तिवेगस्येच्छामयस्य प्रयोजनाभिमुखस्य वेति यावत्। कामे वै प्रयोजनं मुख्यं भवति। नहि लक्ष्यादृते कदाचनेच्छा प्रवर्तते, प्रयोजनं विना वा प्राणिनां प्रवृत्तिर्दृश्यते । मूलप्रवृत्तिष्वपि प्रयोजनं प्रायो निसर्गासादितम्। कदाचन मूलप्रवृत्तिनां प्रयोजनमव्यक्तं दृश्यते, निसर्गायत्तत्वात्। यदा च प्रयोजनं सुव्यक्तं भवति, तदैव क्रियारूपं स्फुटीभवति, तदनुकूलसाधनानां चयनं सङ्ग्रहश्च सम्पाद्यते । वातावरणोपयुक्तसाधनचयनं पूर्वानुभवायत्तं शिक्षणमिति बुद्धेर्लक्ष्यद्वयं वयं पूर्वमवोचाम । प्रयत्ने हि खलु मानसव्यापारे प्रयोजननिर्दिष्टं स्फुटं क्रियारूपमुपलभ्यते, इष्टानिष्टसाधनानामुपादानपरित्यागोऽपि यत्र सम्यगवधार्यते । अस्तु तर्हि कामस्य सुव्यक्तं रूपं प्रयतनमिति ।

सुतरां वयं प्रयत्नाख्यमनोव्यापारस्य लक्षणमनुव्याख्यास्यामः । प्रयत्नो नाम मानस व्यापारविशेषः, यस्मिन् लक्ष्यविशेषप्राप्त्यर्थं हानोपादानरूपावबोधान्विता प्रवृत्ति - र्जायते, तल्लक्ष्यानुरूपं चोपकरणानां बुद्ध्यन्वितं चयनं सम्पाद्यते ।

चिन्तनेन सह कामस्य सम्बन्धः[सम्पादयतु]

पूर्वमस्माभिरुक्तं यद्धि चिन्तनानन्तरं प्रत्यक्षानन्तरं वा संवेदनं जायते, ततश्च प्रवृत्तिः प्रादुर्भवतीति। —जानाति, इच्छति, यतते' इति मनसो व्यापाराणां क्रमः सामान्यतोऽङ्गीक्रियते नैयायिकप्रभृतिभिः । आलङ्कारिका अभिनवगुप्तपादाचार्य्यप्रभृतयश्च प्रत्यभिज्ञावादिनश्च ‘इच्छति, जानाति यतते' इति मनोव्यापारक्रममङ्गीकुर्वन्ति। “ज्ञस्य इच्छाद्वेषनिमित्तत्वाद् आरम्भनिवृत्त्योः” इति न्यायसूत्रकाराः [७] । “इच्छाद्वेषपूर्विका धर्माधर्मप्रवृत्तिः” इति महर्षिप्रवराः कणभक्षाः [८]

ननु कथङ्कारं मनोभवस्य कामस्य मनोमूलत्वमुपपद्यते? प्रत्यक्षस्मरणकल्पनं सङ्कल्पनचिन्तनादीनि मनोव्यापाररूपाणि वर्णितपूर्वाणि तत्पूर्वकेण कामेन समारभ्यन्ते। कामो वै इच्छात्मकः क्रियाशक्तिवेगः । इमं क्रियाशक्तिवेगं निसर्गजं समाश्रित्य वयं प्रत्यक्षं कुर्मः, किञ्चन वस्तु स्मरामः तत्पदार्थविशेषोपादानाय प्रयतामहे । कामेन वै प्रत्यक्षस्मरणचिन्तनादीनि मनोव्यापाररूपाणि प्रेरितानि भवन्ति, कामानुरूपलक्ष्यमवाप्य च तानि विरमन्ते। केवलमन्तराले कामस्य क्रियात्मकं रूपं तिरोहितमवतिष्ठते, चिन्तन- प्रत्यक्षकल्पनादिकं मनोव्यापारविशेषरूपं समुद्भूतं भवति, तच्च तच्च तथा तथा प्रथते।

अनुभवनं चिन्तनं ज्ञानमयो मानसव्यापारो वा कामस्य प्रयत्नेच्छारूपस्य नैसर्गिक- शक्तिस्रोतसोऽन्तरालेऽवतिष्ठते - काम:, ज्ञानम्, संवेदनम्, प्रयतनमिति ब्रूमः । अनेना- लङ्कारिकाणामभिप्रेतं मनोव्यापारक्रमपरमनुव्याख्यानमपि सङ्गच्छते। किञ्च, अन्तरालेऽपि यदा प्रत्यक्षस्मरणचिन्तनादीनि मनोव्यापाररूपाणि नूनमनुभूयन्ते, तदा ध्यानाख्यमनो- व्यापारतया कामस्य प्रयत्नात्मकस्य सक्रियत्वं तु संज्ञादानविचारकल्पनादिमनोव्यापाराणा-

तु मवस्थितिहेतवे युज्यत एव। 'ध्यानम्' इति मानसप्रयतनरूपविशेषः । तस्मादृते नहि कोऽपि मानसव्यापारोऽवस्थातुं प्रभवति। केवलं तदा काम: प्रयतनात्मक इच्छाशक्तिवेगः पृष्ठभूमाववतरति। कामस्य चरमाभिव्यक्ति: प्रयोजनान्विते प्रयत्ने जायत इत्यवधार्यम्।

प्रयत्नस्तरविशेषा:[सम्पादयतु]

नह्यव्यक्तरूप कामोऽञ्जसैव प्रयत्नस्तरमवाप्नोति । तयोरन्तराले सन्ति हि बहव: स्तरविशेषाः, यानुपादाय सप्रयोजनप्रयतनमाविर्भवति । अयं परिणाम आपाततो न जायते, प्रत्युत क्रमशः। कामो वै सप्रयोजनप्रयत्नाभिमुखमिच्छामयं चैतन्यं क्रमिक- विकासेन परिणममानो लक्ष्यविशेषाभिमुखमनुकूलोपकरणावचयपूर्वकं प्रयत्नरूपमादधाति । मूलप्रवृत्तिरपि काममूला; किन्तु तस्यां प्रयोजनं निसर्गसिद्धम्। लक्ष्यानुकूलोपकरणसङ्ग्रहो बुद्ध्यन्वितः केवलं प्रौढमानवव्यवहार एव सँल्लक्ष्यते । प्रौढवयस्कानां क्रिया अपि कदाचन सामि अवबुद्धलक्ष्या भवन्ति ।

नहि सर्वदा तासां साध्यानुरूपसाधनावचयनं समीचीनं प्रतिभाति। विशेषत एतादृशमाचरणं मूलप्रवृत्तिक्रियाकारित्वं बुद्ध्यपक्वत्वं वा द्योतयति। बुद्ध्यपरिपाके साध्यानुरूपं साधनानां चयनं सम्यङ् न सम्पाद्यते । तत्र यच्छिक्षणं पशुना मानवेन वावाप्यते, तत्सर्वं प्रयत्नस्खलितप्रचुरं भवतीत्यवसेयम्। प्रयतनानि बहुशः कृत्वा मानवो पशुविशेषो वा निश्चिनोति -कानि साधनानि लक्ष्यनुरूपाणि ? लक्ष्यावाप्तिबाधकत्वात् कानि वा साधनानि हेयानि ? इति । आरम्भकाले सर्वं शिक्षणं प्रयत्नस्खलितशबलीकृतमिति तु सर्वं वर्णितपूर्वं विचाराध्याये। नूनमत्रापि बुद्ध्येषत्प्रदर्शित- मार्गो व्यवहारो भवतीति बोद्धव्यम् ।

यावन्न प्रयोजननिर्धारणपूर्वकं साध्यप्राप्त्यनु- कूलोपकरणानामवधारणं सम्पाद्येत, तावन्नूनं मूलप्रवृत्तिमयमाचरणम्, यदृच्छया प्रवर्तितं वाचरणं सूचीभेद्ये तमसि अन्ध इव पथो मार्गयति । यदा च बुद्धिविकासः सुप्रौढो जायते, कल्पनाविकासश्चाभिसम्पद्यते, लक्ष्यानुरूपोपकरणानां चयनं मार्गणं च सुयोजनानुसारं सुकरं भवति, बुद्धिकल्पनाविकाससहकृतत्वात्; तदा मानवव्यवहारो अन्ध इवाप्रदर्शितमार्गो नावतिष्ठते, प्रत्युत समवबुद्धप्रयत्नाख्यां भजते । सुनियोजितमात्मनियन्त्रितं हेतुफलादि- विचारान्वितमेतादृशक्रियाजालमाचरणमिति प्रयतनमिति वा व्यपदिश्यते विपश्चिद्भिः । इष्टसाधनताज्ञानमयं प्रयतनमित्यवसेयम्।

सन्दर्भाः[सम्पादयतु]

  1. ऋग्वेदीयं नासदीयसूक्तम् ८।७।१७
  2. मनुस्मृतिः २/४
  3. अथर्ववेदः १९ । ५२ । १
  4. प्रश्नोपनिषद् १।४
  5. ऐतरेयोपनिषद् १ । १ । १ तथा १ । ३ । १
  6. कामसूत्रम् १/२
  7. न्यायसूत्रम् ३।२।३५
  8. वैशेषिकसूत्रम् ६।२।१४


सम्बद्धाः लेखाः[सम्पादयतु]