मनोविज्ञाने कार्लयुङ्गमोहदयस्य योगदानम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

मनोविज्ञाने कार्लयुङ्गमोहदयस्य योगदानम् अतीव महत्त्वपूर्णम् अस्ति। कार्लयुङ्गमहोदयोऽपिः प्रथमं फ्रायडमहोदयानां शिष्य एव आसीत्; किन्तु कियत्कालानन्तरं सस्वकीयं स्वतन्त्रं 'विश्लेषणात्मकं मनोविज्ञानम्' इति संज्ञकं सम्प्रदाय- विशेषं प्रवर्तितवान्। मनोविश्लेषणवादमभ्युपगच्छन्नपि स केषुचिद् मौलिकराद्धान्तेषु फ्रायडमहोदयाद् वैमत्यं प्रादर्शयत्। संस्कृतविद्वद्वरेण्येभ्योऽयं खलु हर्षविषयो यदयं स्विट्जरलैण्डदेशीयो मनोविज्ञानपारावारीणः सुरभारतीवाङ्मयस्याप्युदाहरणानि स्वकीयेषु ग्रन्थेषूद्धरति। तस्य च दृष्टिकोणस्य भारतीयदर्शनेन सह भूयिष्ठं साम्यं वर्तते।

‘विश्लेषणात्मकं मनोविज्ञानम्' इति व्यपदेशोऽपि दौर्भाग्येन रमणीयो नैव प्रतिभाति, यतो ह्यनेन कथमपि युङ्गमहोदयानां फ्रायड - एडलरप्रभृतिभ्योऽसामान्य- मनोविज्ञानाचार्य्येभ्यो सिद्धान्तभेदमुन्नेतुं न शक्यते । नहि युङ्गमहोदयानां विचाराननुपादाय कोऽपि मनोविश्लेषणपरायणो असामान्यमनोविज्ञानसम्प्रदायविशेषो 'विश्लेषणात्मकं मनोविज्ञानम्” इत्याख्यां भोक्तुमर्हति ।

युङ्गमहोदया हि खलु एडलर - फ्रायडमहोदयोर्मतयोः सामञ्जस्यप्रतिपादनपरं स्वकीयं मतं व्याकुर्वन्ति । युङ्गमहोदयानां मते एडलरमहाशयानां मतापेक्षया फ्रायडमहाभागोपबृंहितस्य मनोविश्लेषणवादस्याऽधिकतमांशो वर्तते। युङ्गमहोदया अपि फ्रायडमहाभागा इव कामप्रवृत्तिं मौलिकप्रवृत्तितयाङ्गीकुर्वन्ति; किन्तु तेषां मते कामप्रवृत्तिर्निर्विशेषशक्तिरूपा, या केषुचन पुरुषेषु कामप्रवृत्तित्वेन परिणमति, अपरेषु च केषुचिदहङ्कारभावमयप्रभुत्वैषणारूपेणाभिव्यक्तिं लभते । बालकेष्वियं कामप्रवृत्तिः निर्विशेषविषया सत्यपि स्वरूपतो बुभुक्षारूपेणाभिव्यज्यते। तदनन्तरमियमात्मप्रदर्शनरूपेण प्रभुत्वैषणासंज्ञकेन, दारैषणारूपेण वा प्राकट्यं लभते ।

अन्यच्च, युङ्गमहोदयानां मतेऽज्ञातचैतन्यं सर्वथाऽनैतिकपाशविकप्रवृत्तिमयमेव नास्ति; किन्तु फ्रायडमहोदयानां मतेऽज्ञातचैतन्यं सर्वथाऽनैतिकासामाजिकपाशविक- प्रवृत्तीनां निधिरूपं वर्तते । युङ्गमहोदयानां मतेऽज्ञातचैतन्ये नैतिकधार्मिकतत्त्वान्यप्यव- तिष्ठन्ते।

युङ्गमहोदयानां मतेऽज्ञातचैतन्यं नूनमतीव गौरवान्वितम्। मनोविश्लेषणवादानुसारं दृष्टमस्माभिर्यत् कथमहङ्कारो नैसर्गिककामप्रवृत्तेरवदमनं सम्पाद्य अज्ञातचैतन्ये तद्रूपान् प्रक्षिपति; किन्तु फ्रायडमते व्यक्तेर्व्यक्तिगतजीवने तिरोधीयमानानां कामप्रवृत्तिरूपाणां कोशरूपमज्ञातचैतन्यम्। युङ्गमहोदया एतत्सर्वमुररीकुर्वन्ति, अथ च तेऽभिमन्यन्ते यदज्ञातचैतन्यस्यान्यदेकरूपमीदृशमपि वर्तते, यस्मिन् व्यक्तेव्यक्तिगतोंऽशः कोऽपि न वर्तते; किन्तु निखिलमानवजातेर्वासनानैरन्तर्येण वंशानुक्रमादागतानां प्रवृत्तीनामुदारा- ध्यात्मिकादर्शानां च साम्येन सन्निधानं वर्तते, तच्च सर्वेषु मानवेषूपलभ्यते। युङ्गमहोदयाः फ्रायडप्रतिपादितमज्ञातचैतन्यरूपं 'पौरुषेयं चैतन्यम्' इति व्यपदिश्यन्ति, किन्तु स्वप्रति- पादितमज्ञातचैतन्यरूपं ‘सामूहिकमज्ञातचैतन्यम्' 'अपौरुषेयम्' इति वा व्यपदेशेन निर्दिशन्ति, यतो हि खल्वस्याऽज्ञातचैतन्यस्य कर्त्ता कश्चन व्यक्तिविशेषो न विद्यते । अत एवेदमुच्यते- 'अपौरुषेयमज्ञातचैतन्यम्' इति ।

युङ्गमहोदयाः स्वमतं द्रढयितुं पुरुषस्वभावस्य मुख्यतया द्विविधं वर्गीकरणमङ्गी- कुर्वन्ति - बहिर्मुखप्रकृतयः, अन्तर्मुखप्रकृतयश्चेति । बहिर्मुखप्रकृतयः पुरुषाः स्ववातावरणेन सार्धं स्वस्थरागात्मिकसम्बन्धमिन्द्रियोपभोगयोग्यसम्बन्धं वोढुं समर्था भवन्ति । वस्तुत एतेषां कृते फ्रायडमहोदयोक्तकामवृत्तेर्व्याख्यानमवबोद्धव्यम् । अन्तर्मुखप्रकृतयस्ते पुरुषाः, येषां बाह्यवातारणेन साकं सम्बन्धविच्छेदो भवति । नहि तेषामाशाकाङ्क्षादिपूर्तिर्बाह्यजगति कथमपि भवितुमर्हति; किन्तु स्वान्तःस्थितेऽज्ञातचैतन्ये सा सम्भाव्या । बाह्यजगतः स्वान्तर्जगति प्रत्याक्रमणं ते सोढुं न प्रभवन्ति; किन्तु स्वरक्षार्थमनेकानुपायान् विरचयन्ति । तदर्थमेडलरमहोदयस्यानुव्याख्यानं सङ्गच्छते।

बहिर्मुखस्य दृष्टिः पराङ्मुखी भवति, अतश्च स इन्द्रियजन्यसंवेदनासहकृतां बाह्यजगद्विषयिणीं प्रतिक्रियामनुभवति । अन्तर्मुखस्य दृष्टिः स्वान्तर्मुखी भवति, अतश्च तस्य बाह्यवातावरणाभिमुखी प्रतिक्रिया अत्युग्रा विरोधमयी च दृश्यते। पूर्वोक्तं सामूहिकं चैतन्यं हि खल्वन्तर्मुखप्रकृतेः प्रतिक्रियाजातं निर्दिशति। तस्य ह्याकाङ्क्षास्रोतो भवन्त्याद्यमानवसभ्यताजन्याः कल्पनाप्रतिमाः४, यासां तस्य स्वकीयशिक्षानुभवजीवनादिभिः सह कोऽपि सम्बन्धो न वर्तते । तस्य विलक्षणचरणस्य मूलप्रेरणां नूनं निखिलमानवस्वभावस्य पृष्ठभूमिरूपं सामूहिकं चैतन्यमिति निरवद्यम् ।

ननु कथं सामूहिकं चैतन्यमिति प्रतिपाद्यते ? किमिदं मानसप्रत्यक्षविषयीभूतम् ? अथवा किमिदमनुमानेन ज्ञायते ? आहोस्विदन्येन केनापि प्रमाणेन ? सामूहिकं चैतन्यं युङ्गमहाशयाभिमतमतिजटिलरूपं मौलिकमस्पष्टं चेत्यवबोद्धव्यम्। नेदं प्रत्यक्षविषयम्, सर्वथा तिरोहितस्वरूपतया नूनमिदमनुमानेनावगन्तव्यम्। सामूहिकं चैतन्यं निखिलजाति- गताकाङ्क्षासमुदायस्य रिक्थरूपस्य कोषागारसदृशमित्यनुमीयते ।

तस्य वर्णनमपि सौकर्येण नापादयितुं शक्यते। निखिलमानवजातेः सार्वकालिकादर्शाकाङ्क्षादीनां सनातनरिक्थ- रूपाणां मूलबीजमस्मिन् सामूहिके चैतन्ये सुनिहितं वर्तते। अलौकिकशक्तिग्रहणम्, सत्यान्वेषणम्, देवाऽसुरादिमान्यता, उच्चावचत्वेन मानवविभाग इत्यादिप्रत्ययाः सर्वे बीजरूपत्वेन सामूहिकचैतन्ये वर्तन्ते । अथ च यद्यपि साक्षाच्चैतन्ये स्फुटतया तेषामुपलब्धिर्न सम्भाव्यते, तथापि तेऽस्माकं चैतन्यं निरतिशयं सामान्यावस्थायामसामान्यावस्थायां च प्रभावयन्ति। येन सुप्तचराणामुपायानां मानवस्याध्यात्मिकस्वभावप्रतिनिधिभूतानां स्फुटमुन्मेषः सम्पाद्येतेति ।

युङ्गमहोदया ‘एयोन’” इत्याख्यं जीवात्मचैतन्यं 'साइके इत्यभिधेयात् चैतन्याद्- व्यतिरिक्तमनुमन्यन्ते। ‘एयोन् ' - इति तु निखिलमानवजीवनस्य केन्द्रीभूतमवतिष्ठते । 'साइके' इति त्वपरथा निखिलचैतन्यस्य समष्टिरूपं द्योतयति । अन्यच्च युङ्गमहाभागाः स्त्रीचैतन्यपुरुषचैतन्ययोः कञ्चन भेदविशेषं प्रतिपादयन्ति । पुरुषचैतन्यं 'एनिमा” इति व्यपदिश्यते। स्त्रीणां चैतन्यञ्च तेन 'एनिमस'" इति व्यपदेशेन सुव्यक्तम् । 'एनिमा ' 'एनिमस' इति पदाभ्यां तर्हि स्त्रीपुरुषयोर्लिङ्गभेदानुसारं 'साइके' इत्याख्यं चैतन्यं द्वेधा वर्गीकर्तुं शक्यते ।

युङ्गमहोदयाः फ्रायडमहाभागाभिमतं स्थिरीकरणाख्यं मतं वर्णितचरं नाद्रियन्ते। तन्मतानुसारं यदा कस्यचिन्मानवस्य वर्तमानं वातावरणं तस्य कामवृत्तेरभिव्यक्तिं नितान्तमवरुणद्धि, कामवृत्तिश्चावरुद्धा जायमाना प्राक्तनशैशवोचितमभिव्यक्तिरूपमाधत्ते, तत्र च स्थिरत्वमवाप्नुते; तदा तस्य विक्षिप्तावस्था जायते, किन्तु यदि वर्तमानपरिस्थिति- जाटिल्यासादितकामवृत्त्यभिव्यक्त्यवरोधो नाऽभिनिर्वर्तेत, तर्हि नूनमेते बाल्यकालिककामवृत्तिरूपाणि नैव विक्षिप्तामवस्थां नेतुं प्रभवन्ति । सुतरां वर्तमानदशायां कामवृत्तेः समीचीनविकासावरोध एव विक्षिप्तावस्थाया मूलकारणमिति तेषां तात्पर्यम्।

युङ्गमहोदयानुसारमद्यतन्यो घटनाः पूर्वतनघटनानामेव फलमिति न मन्तव्यम्, प्रत्युत ताः श्वस्तनघटनाभिरपि प्रभाविता जायन्ते । अतस्तासां व्याख्यानं प्रयोजनदृष्ट्यातीव युज्यते। निखिलं ब्रह्माण्डं योजनान्वितं परिचाल्यते। अस्मिन् विश्वे मानवस्योपस्थितिरपि सप्रयोजनैव; किन्तु वयं चतुरस्रं तत् प्रयोजनमाकलयितुं न प्रभवामः। अत एवाद्यतनीसु क्रियासु भाविक्रियाणां प्रभावो नितान्तं सञ्जायते । इयं पूर्वकल्पिता योजना सामूहिक- चैतन्यरूपेणोपलभ्यते । सेयं विश्वजनीना योजना केनापि मानवेनैकेन न निम्मिता, नापि कादाचित्की हि सा । केषाञ्चन मते ईश्वरनिम्मिता हि सा योजना भवति । तदुक्तं ह्युदयनाचार्य्यैर्न्यायकुसुमाञ्जलौ-

कार्यायोजनधृत्यादेः पदात् प्रत्ययतः श्रुतेः।

वाक्यात् सङ्ख्याविशेषाच्च साध्यो विश्वविदव्ययः॥ इति । <[१]

अन्येषां मते सप्रयोजनो विकास एवास्याः कारणम्। यतो हि खल्वियं समस्या दर्शनाङ्गभूता, अतों न मनोविज्ञानप्रतिपाद्यतां भजते ।

युङ्गमहोदयप्रतिपादितं स्वच्छन्दप्रत्ययसम्बन्धपरीक्षणं नैवात्र सविस्तरं वर्ण्यते। पूर्वस्मात् प्रत्ययसम्बन्धविवेचनपराध्यायादेवेदमुन्नेयम् ।

सम्मोहनस्वरूपम्[सम्पादयतु]

फ्रायड-युङ्ग-एडलरप्रभृत्याचार्याणां मतानि सङ्क्षेपतस्तुलनात्मकरीत्या वर्णितपूर्वाणि। अथातो वयं सूक्ष्मचैतन्यस्य तैजसाभिधस्य, यदर्वाचीना मनोवैज्ञानिका ‘अज्ञातचैतन्यम्’ ‘उपचैतन्यम्” इति वा व्यपदेशेन व्यवहरन्ति, क्रियाकलापं विक्षिप्तापस्मारोन्मादाद्यवस्थासु प्रवर्तमानं तन्मनोविश्लेषणाख्यचिकित्साप्रणालीं चानुव्याख्यास्यामः । फ्रायडमहाभागैः सर्वप्रथमं सम्मोहनविधिना चारकॉटमहोदयैरिव विक्षिप्ताद्यवस्थानां चिकित्सा समारब्धा । ननु किमिदं सम्मोहनं नाम? कश्चास्योपयोगः ? अत्र वयं ब्रूमः - सम्मोहनं नामाज्ञातचैतन्यस्य परमं साधकम्। अनेन व्यक्तित्वद्वैधीभाव एकान्तरव्यक्तित्वस्वरूपं सौकर्येण प्रतिपादयितुं शक्यते। सम्मोहनं न केवलं रोगनिदानान्वेषणे सहायकं भवति, प्रत्युत रोगस्य चिकित्सायामपि तस्य नितान्तमुपयोगित्वं वर्तते ।

सम्मोहनं नाम मनोऽवस्थाविशेषः, यस्मिन् सम्मोहनकर्त्ता सम्मोहितव्यक्तिमाज्ञा- सङ्केतद्वारा यथेष्टक्रियां कर्तुमादिशति । जाग्रच्चैतन्यस्य प्रभावाऽभावात् सूक्ष्मचैतन्यस्य, अज्ञातचैतन्यस्येति वा क्रियाकारित्वात् सम्मोहनदशायां यथा आदेश: प्रदीयते, सम्मोहिता व्यक्तिस्तर्कं विनैव भयाद्वा श्रद्धया वा तथा तथाचरति । सेयमवस्था निद्रासङ्काशा भवति । सम्मोहितव्यक्तेर्व्यक्तित्वं जाग्रच्चैतन्यस्य वा व्यक्तित्वाद् भिद्यते, यतो हि तस्मिन्नज्ञात- चैतन्यस्य सूक्ष्मचैतन्यस्य वा क्रियाकारित्वमनुस्यूतं भवति । सम्मोहनदशायां स्वप्नवदज्ञात- चैतन्यस्याभिव्यञ्जनायानुकूल्यमुपलभ्यते। सङ्केतस्वरूपं वर्णितचरम्।

अवितर्क्ययैव श्रद्धया भयाद्वान्यस्य वाक्यग्रहणं यथेष्टक्रियाकारित्वं चेति सङ्केताख्या मानवमात्रोपलभ्यमाना सामान्यप्रवृत्तिः। अत्र सङ्केतपदार्थो न्यायशास्त्रप्रसिद्धव्याख्यातो विलक्षणोऽवगन्तव्यः। तथा हि–“अस्मात्पदादयमर्थो बोद्धव्य इतीश्वरसङ्केतः शक्तिः” इति अन्नभट्टा: । इहेश्वरसङ्केतो नामेश्वरेच्छा। सैव शक्तिः, किन्तु नहि मनोविज्ञाने प्रतिपाद्यमाने ईश्वरकृतसङ्केतस्यावकाशः कुत्रचिदपि वर्तते। मानवीयः सङ्केत एवास्माकमत्राभिप्रेतः । सम्मोहनकर्तुरिच्छायाः परामर्शस्य वा बुद्धिप्रयोगं विनैव गुणावगुणचिन्तनादृते सम्मोहनीयव्यक्त्या ग्रहणमिति सङ्केतग्रहणम् । सङ्केतजन्यं सम्मोहनमित्यवधार्यम्।

कथं मेसमर-बर्नहीम-चारकॉट-जैनेट फ्रायडमहोदयैः सम्मोहनविधिर्निरस्तसमस्त- शङ्को वैज्ञानिकानां परमसन्तोषावहरूपेण सुविख्यातः, विज्ञानकक्षे च प्रतिष्ठापित: ? इति सर्वं वर्णितपूर्वम्। वयमत्र सङ्क्षेपतः सम्मोहनप्रकारविशेषमिदानीमनुव्याख्यास्यामः, येन तदन्तर्गतान्धविश्वासादिदैवीशक्तिभूतगणाद्याशङ्का दूरीभवेत् । सम्मोहनदशायां सम्मोहनकर्तुः सम्मोहनीयव्यक्त्या सह चित्तैकाग्र्यसमन्वितं भावनैक्यमवतिष्ठते । आङ्गलभाषायामिदं भावनैक्यं 'रैपॉर्ट' इत्युच्यते । भावनैक्यं हि सम्मोहनस्य गुरुलाघवाय कल्पते। भावनैक्ये प्रकर्षमुपगते यः कोऽपि सङ्केतः सम्मोहितव्यक्त्यै प्रदीयते, तदनुसारं सम्मोहिता व्यक्तिराचरितुमारभते । दुष्टं दुश्चरितं क्लेशप्रदमपि वा सङ्केतं सम्मोहिता व्यक्तिः सम्मोहनदशायां शृणुते तथैव चाचरति । कदाचन जाग्नद्दशायां प्रतीयमानमसम्भाव्यमपि कार्यं सम्मोहिता व्यक्तिः कर्तुमारभते । यदि हि सम्मोहिता व्यक्तिः कुक्कुरवद् भाषितुं वानरवन्नर्तितुं वा आदिष्टा भवेत्, तर्हि सा तथैवाचरति । तस्या जाग्रच्चैतन्यं तदा नैवात्मनियन्त्रणं प्रयुङ्क्ते । यदि काचन सम्मोहिता व्यक्ती रक्तशिराच्छेदनायादिष्टा भवेत् सम्मोहनदशायाम्, तर्हि साऽचिरेण रक्तरञ्जिता भविष्यति । कदाचन सम्मोहनदशायां मूर्च्छादशावत् सर्वाङ्गशरीरं काष्ठवत् कार्कश्यम् (Rigidity) उपैति।

सम्मोहनं द्विधा सम्पादयितुं शक्यते प्रथमं तावदातङ्कमयं सम्मोहनम्। प्रायस्तान्त्रिकै- र्भूतगणादिविशेषज्ञैश्चैदं प्रयुज्यते। सम्मोहनकर्त्ताऽस्मिन् सिद्धपुरुषवदाचरति। सम्मोहनीया व्यक्तिश्च भयमन्वेति। सम्मोहनीये व्यक्तिविशेषे विनम्रभावम्, आत्मलाघवं चेत्पादयति । एवम्प्रकारेणातङ्कवशीभूता सम्मुग्धा व्यक्तिः सम्मोहनकर्त्रे खल्वात्मार्पणं कुरुते, तन्निर्देशाँश्चानुपालयति। द्वितीयः प्रकारो विश्वासोत्पादनात्मकः, येन मृदुशब्दैः हितकामैः सम्मोहनकर्त्ता सम्मोहनीयपुरुषस्य हृदयं स्नेहेन विजित्य तद्विश्वासार्हतामुपैति । तदनन्तरं यथा स सम्मोहितां व्यक्तिमादिशति, तथा सम्मोहिता व्यक्तिरनुपालयति। तदारम्भश्चेत्थं क्रियते-

सम्मोहनकर्त्ता - कोऽसि ?

सम्मोहिता व्यक्ति:-भावत्कोऽहम्। सम्मोहनकर्त्ता-सुखेन तिष्ठ, शरीरं शिथिलीकुरु ।

सम्मोहिता व्यक्तिः–ओम् ।

सम्मोहनकर्त्ता (प्रयोक्ता) - कोऽसि ?

सम्मोहिता व्यक्तिः-भावत्कोऽहम्।

प्रयोक्ता-अस्मिन् बिन्दौ तारस्वरं पश्य ।

सम्मोहिता व्यक्ति:- ओम् ।

प्रयोक्ता– सम्प्रति क्लान्तोऽसि । निद्रामहं त्वां नेष्यामि । त्वच्चक्षुषी निमील्येते । इदानीं त्वं स्वपिषि । सुखेन तिष्ठ ।

( सम्मोहिता व्यक्ति: सर्वथा सम्मोहनवशीभूताऽवतिष्ठते । )

सम्मोहिता व्यक्तिः – ओम् ।

प्रयोक्ता - सव्यदक्षिणहस्ताभ्यां करतलवादनं कुरु ।

सम्मोहिता व्यक्ति:- ओम् ।

प्रयोक्ता-त्वदीय: सव्यो हस्तः करतलवादनं करोति । जलमानेतुं प्रसरति। प्रसारय।

अस्य संज्ञाशून्यत्वमपास्तम्।

सम्मोहिता व्यक्ति: - ओम् ।

प्रयोक्ता—कोऽसि?

सम्मोहिता व्यक्तिः-भावत्कोऽहम्। इति।

अहङ्कारनियन्त्रिता सम्मोहनदशा नैव भवति । तत्र अज्ञातचैतन्यं प्रबलं भवति । दृश्यते चावदमितप्रवृत्तीनामुद्घाटनं सम्मोहनदशायां सम्मोहनद्वारा प्रयुक्तसङ्केते मदिरापानादि- दुराचरणप्रतीकारोऽपि कर्तुं शक्यते; किन्तु खल्वत्रेदं स्मर्त्तव्यं यद् दुर्व्यसनगभीरत्वापेक्षया वारं वारं सङ्केतसङ्क्रमणं सम्मोहनदशायां कर्तव्यम् । येषां प्रभाव आत्मबलप्रभवः, शारीरिकव्यक्तित्वसमुद्भवे दुरतिक्रमश्च भवति, तेषां सम्मोहनद्वारा साफल्यमवश्यं भाव्यम्। अतः कुशलैरेव सम्मोहनविधिः प्रयोक्तव्यः। यदि कस्यचिन्नाम्नो विस्मृतिः सम्मोहनसङ्केतेन इष्यते, तर्हि सम्मोहिता व्यक्तिरादेशानुपालनफलस्वरूपमवबुद्धदशायां तन्नाम स्मर्तुं न प्रभविष्यति। व्यवधानं हि खलु जाग्रच्चैतन्याज्ञातचैतन्ययोरन्तरालेऽवतिष्ठते।

यज्जाग्रद्दशायां वयमज्ञातचैतन्यमिति ब्रूमः, तत् सम्मोहनदशायां स्वप्ने स्वप्नविहारे मनोविश्लेषणकाले चाभिव्यक्तिं लभते। अवदमितमनोवृत्तीनां स्वरूपावधारणात् तन्निर्वहणाय सङ्केतविशेषा आदिश्यन्ते। अथ च विस्मृतविषयाणां सम्मोहनदशायामनबोधः सम्पाद्यते । किञ्च यदि तान् विस्मर्तुं पुनरप्यादेशो भवेत्, तर्हि तत्सङ्केतेन विस्मरणं सौकर्येण सम्पादयितुं शक्यते। उपर्युक्तेन सम्मोहनोदाहरणेन सव्यहस्तार्धाङ्गस्य चिकित्साप्रकारो वर्णितः ।

मनोविकाराँश्चिकित्सितुं सम्मोहनं कुशलैर्मनोवैज्ञानिकैरैव विधेयम्। अद्यतना मनोवैज्ञानिकाः सम्मोहनविधेराश्रयणं कादाचित्कत्वेनैव कुर्वन्ति । यतो हि सम्मोहनं दुष्करं भवति। फ्रायडमहाशयेन प्रथमं सम्मोहनद्वारैवापस्मारोन्मादादिविकाराणां चिकित्सा सम्पादिता; किन्तु कियत्कालानन्तरं तेन स्वकीयो मनोविश्लेषणाभिधो विशिष्टो विधिराविष्कृतः। तेन मनोविकाराणां निदानान्वेषणं तच्चिकित्सितं च सौकर्य्येणाभिनिर्वर्तते। तद्वयं सविस्तरमनुव्याख्यास्यामः।

फ्रायडोक्तं साधनतन्त्रम्[सम्पादयतु]

फ्रायडमहोदयानां मतानुसारं प्रत्येकं पुरुषो वास्तविकसामाजिकपरिस्थित्या सह पशुवदात्माहङ्कारस्य विरोधमपाकर्तुमानुकूल्यं च स्थापयितुं किञ्चन साधनतन्त्रं प्रयुङ्क्ते । ‘अवदमनं’ हि साधारणं साधनम्, अनेनानभिवाञ्छनीयविचारा जाग्रच्चैतन्ये प्रविशन्तो निवार्यन्ते । मूलप्रवृत्त्युन्नयनमन्यत् साधनम्, येनोद्दामप्रवृत्तिः समाजहितोपयोगि मार्गं नीयते, सामाजिकनीतिमर्यादानुपालनं च क्रियते । व्यावसायिकरुचिविशेषाः, मनोरञ्जकाभ्यासाः, साहित्यसङ्गीतकलाभ्यासाः, धर्माद्यनुष्ठानादिकं च कामप्रवृत्तेरुन्नयनस्य विविधानि रूपाणि। ‘हेत्वारोपणं नाम साधनमहङ्कारम् 'ईगो' इति नामधेयं चैतन्यं जाग्रदवस्थाभिमानि लोकापवादा गोपयति संरक्षति, यतो ह्यनेन लोकेन विगर्हितान्याचरण- कारणानि गोप्यसमाजोपयुक्तानि भद्राणि सद्भिः सम्मतानि शास्त्रविहितानि चाचरणकारणानि प्रतिपाद्यन्ते। यथा च धनिकवञ्चको वदति - " नाहं धनलोलुपः । अयं धनिकः क्रूरः, दीनानां श्रमिकाणां शोषक:, अतः सामाजिकव्यवस्थायामार्थिकसाम्यमुपस्थापयितुं मया तद्धनापहरणं कर्त्तव्यम्” इति । एवं स्वार्थे परार्थारोपणं हेत्वारोपणम्' इत्युच्यते ।

‘प्रत्याक्षेपणं’’ नाम स्वात्मविगर्हितमिच्छाप्रवृत्तिवेगादिकमन्यपुरुषचरित्रेष्वाक्षेपणम्। यद्यपि तास्तास्त्रुटयो विगर्हितप्रवृत्तयो वास्माकं चरित्राङ्गभूता:, तथापि वयं स्वाभिमाननैतिक- मर्यादानामनुपालनार्थमन्येषु पुरुषेषु तासां प्रत्याक्षेपणं दुषणरूपेण पुरस्कुर्मः । एतादृगाचरणमेव प्रत्याक्षेपणम्। “प्रत्यावर्तनम् ” ” नाम बाल्यकालिकेच्छापूर्त्यनुकूल- व्यवहारानुशीलनम् । अर्थात् स्वकीयावस्थाविशेषानुकूलमाचरणं विहाय प्रौढे वयस्यपि बाल्योचितेच्छाप्रवृत्त्याद्याचरणानां पुनः सन्धारणमिति प्रत्यावर्तनम्। ‘शारीरिकोपलक्षण- सङ्क्रमणम्” नाम मानसिकभावग्रन्थिजन्यसङ्घर्षस्य शारीरिकोपलक्षणविशेषेण परिणाम इति । विशेषत इदं साधनमपस्माराख्ये मानसिकविकारे समुपलभ्यते । अज्ञाततया प्रयुक्तमिदं साधनतन्त्रं जीवात्मनोऽहङ्कारस्य वा मानसिकसङ्घर्षविमोचनाय प्रयतनं भवतीति। एतैः साधनैः, केनाप्येकेन वा साधनविशेषेण सूच्यते-- ' कीदृशो हि खलु विक्षिप्तस्य मानसिकसङ्घर्षो विद्यते' ? इति ।

मानसिक विकाराणां मूलकारणम्[सम्पादयतु]

अपस्मारोन्मादाद्यवस्थानां मूलकारणं द्विविधं भवति-

(१) आरादुपकारकं कारणम् ।

(२) साक्षादुपकारकं कारणम् ।

आरादुपकारकं कारणं तद्भवति येनापस्मारादिरोगानुकूल परिस्थितिर्जन्यते, येनायं पुरुषो रोगाभिमुखो जायते । दूराद् येन रोगाभिमुखं प्रवर्त्यते, तदारादुपकारकं कारणं बोद्धव्यम्। साक्षादुपकारकं कारणं पूर्ववर्ति कारणम्, येनाक्षेपीय एव अपस्मारोन्मादादिविकारपाशैर्बध्यतेऽयं मानवः । वयमेते अनुपदं व्याख्यास्यामः ।

(अ) आरादुपकारकं कारणम्[सम्पादयतु]

स्मरणीयं यदेकमेव कारणं सर्वेषां रोगिणां कृते आरादुपकारकं कारणं न भवति। यदेकस्य रोगोत्पत्तेः कृते आरादुपकारकं कारणम्, तदन्यस्य कृते साक्षादुपकारकं कारणमपि भवितुमर्हति । अन्यच्च कदाचन बहूनामारादुपकारकाणां कारणानां प्रभावातिशयात्, लघ्वपि पूर्ववर्ति साक्षादुपकारकं कारणमपस्मारोन्मादादिरोगोत्पत्तये कल्पते। अपि च, अन्यत्र आरादुपकारकाणां कारणानां दृश्यानामभावेऽपि गुरुतरमेकमेव साक्षादुपकारकं पूर्ववर्तिकारणं व्यक्तित्वं विशृङ्खलीकर्तुं प्रभवति। रोगोत्पत्तेः प्राग्बाल्यादेव यानि कारणानि सक्रियाणि जातानि वा भवन्ति, तानि ह्यारादुपकारकाणि कारणानीति बोद्धव्यम्।

आरादुपकारकेषु कारणेषु –

(क) वंशानुक्रमायत्तं मानसिकोन्मादादिरोगाभिमुख्यम्,

(ख) मस्तुलुङ्गीयाघातः,

(ग) शारीरिकधातूनां रासायनिकपरिणामेनोत्पद्यमानानि विषाक्त- द्रव्याणि, यानि आङ्गलभाषायां 'टॉक्सिन' इत्यभिधीयन्ते,

(घ) मानसिककारणानि येषु बालकस्य मनसि आत्मदैन्यम्, पापभावना, विरोधिभावादिभावग्रन्थयोऽङ्गानि भवन्ति।

किं तावद् वंशानुक्रमायत्ता अपस्मारोन्मादादिमानसिकविकारोत्पत्तिर्भवति? अत्रोच्यते- वंशपारम्पर्याद् रोगानुकूल्यं शारीरिकसंस्थानविशेषस्य भवतीति विभावनीयम्। यदि मानसिकरोगाः सर्वांशत एव प्रतिसङ्क्रमन्ते, तर्हि जन्मतः प्रभृत्येव रोगोत्पत्तिर्भवितुमुचिता; परन्तु त्रिंशद्वर्षानन्तरं चत्वारिंशद्वर्षानन्तरं वा वंशपारम्पर्यायत्तं मानसिकविकारादिकमभि- निर्वर्तत इति वक्तुं नोपपद्यते । मानसिकदौर्बल्यं हि खलु वंशपारम्पर्यायत्तं भवतीति समीचीनम्। मानसिकदौर्बल्ये सति मानसिकविकाराणां जायमानानां कृते उर्वरा भूमि- रुपलभ्यते। मानसिकारादुपकारकाणि साक्षादुपकारकाणि च कारणानि यदा सम्भवन्ति, तदा व्यक्तित्वविशरणमुन्मादादिद्वारेणाचिरेणाभिनिर्वर्तते, शारीरिकरचनासंस्थानस्यानुकूल्यो- पलब्धेः । सुतरां यद्वंशानुक्रमायत्तं तत्तु आरादुपकारकं कारणम्, न तु साक्षादुपकारकं कारणम्।

अन्यच्च, फ्रायडमहोदयानां मतानुसारमाशैशवं बालकस्य जीवने विरोधिभावस्य', आत्मदैन्यस्य’, आत्मग्लानेर्वा, पापभावनाया' वा बीजवपनं जायते । एतावता, वयसि सम्प्राप्ते साक्षाच्च घोरं कारणमासाद्य व्यक्तित्वविभाजनमभिनिर्वर्तते, विक्षिप्तावस्था चायाति। यथा हि-बालिकायां बालकस्य वान्यस्य सम्बन्धिनः कृते मरणाभिलाषः । यदि बालकस्य हेतोर्बालिकायाः परिवारे नादरो जायते, तर्हि बालिका तस्माद् विरोधि- भावमत्युग्रं सन्धारयति । यदि वा पिता बालकमत्यर्थं ताडयति, तर्हि बालकः पितुः कृते विरोधिभावमनुभवति । आत्मदैन्यानुभवाच्च तस्य चेतो भृशं दूयते । सुतरां तर्हि बालिका गृहस्य चित्रनिर्माणं करोति, तत्र भ्रातृमूर्तिस्थापनं विस्मरति । चित्रेऽपि सा भ्रातुंश्चित्रं नैव निर्मिमीते । कस्मात् ? विरोधिभावस्य हेतोः ।

तस्या उन्मुक्तकल्पनास्वपि यदि भ्रातुरवकाशो न भवेत्तर्हि किमाश्चर्यम् ! पृच्छ्यमाना सा ब्रूते - 'मृतो हि सः' इति । किन्तु क्रोधाभिभवे, विरोधिभावोपशमे सा भ्रातरं दृष्ट्वा 'ममैव भ्राता' इति मन्यते । या विमाता-पितुः प्रथमभार्यातः पुत्री जाता, द्वितीयभार्यातश्च पुत्रः - पुत्रीं त्रासयति, अवगणयति, पुत्रं लालयति, पुत्री च तिरस्करोति, तया पुत्र्याश्चित्ते विरोधिभावना जायते, आत्मग्लानिश्च तस्याः चेतसि समुत्पद्यते । तस्या अभिलाषो जायते - 'विमाता म्रियेत' इति। सा नूनमेवम्भूतं स्वप्नमपि पश्यति, तद्विषये उन्मुक्तकल्पनास्वप्येवंविध- विरोधिभाव एव दृश्यते । तदनन्तरं पारिवारिकपरिस्थितिर्यदि विषमा भवेत्, तर्हि नूनमिमे विकाराः संवर्धन्ते । शैशवोपात्तरूपाणि आत्मदैन्यविरोधिभावपापभावनादिपूर्व- लक्षणानि तदौत्तरकालिकप्रौढजीवने उन्मादप्रकारविशेषोत्पादनाय कल्पन्ते ।

यदि बालिकाया माता ईदृशी भवेत्, यस्या जीवनं दाम्पत्यसुखविहीनं भवेत् पत्या सहानुकूल्यभावाद- विश्वासकलहदौर्मनस्याकुलितमेव भवेत्, तर्हि सा स्वबालिकां प्रति कार्कश्यमापन्ना जायते, पुत्रबालिकादिसन्तानं भृशं ताडयति, वयः सन्धिकाले सम्प्राप्ते बालिकाविषये सहिष्णुर्भवति। स्मरणीयमस्मिन् विषये यच्छिक्षाया इदं परममुद्देश्यं भवति यद्वालकस्य मूलप्रवृत्तीनां सन्मार्गेषु सामाजिककल्याणावहेषु प्रवर्तनं सम्पाद्येत, तासामुन्नयनं जायेत ।

प्रायः सुव्यवस्थिते परिवारे बालकस्य चारित्र्यविकासः सम्यक्तया सम्पाद्यते; किन्तु यदि परिवारोचितमातापित्रोः सौमनस्यजनितविश्वाससहिष्णुतानुकूल्यादिकमुपलब्धं न भवेत्, तर्ह्यसामान्यमनोविकाराणां प्रादुर्भावो जायते । यत्र मातापित्रोः दौर्मनस्यं विद्यते, बालकोऽपि पितुः पक्षं समर्थयति, बालिका च मातुरेव पक्षमनुमोदते। निरस्तसमस्तशङ्कं बालकस्य मनसि संरक्षणविश्वासोत्पादनमतीवावश्यकम्। तच्चाऽत्यर्थं चरित्रोत्कर्षाय कल्पते। यत्र मातापित्रोर्दाम्पत्यसम्बन्धविघटनाशङ्का बिद्यते, नहि तेषां सन्तानस्य चरित्रं सम्यग् विकसति। असामान्यमनोविकाराणां मूलं परिवारजन्यावदमन-हीनभाव विरोधिभावप्रायश्चित्ताविश्वासभयादिकं भवति ।

यदि बालकस्य व्यवहारः सर्वैर्विगर्हितो भवेत्, तदा तस्य पापभावना प्रायश्चित्त- रूपा जायते। स्मर्तव्यमत्र यद् बालकस्य किमपि कार्यमेव निन्दनीयम्, येन शुभमार्गे तस्य प्रवर्तनं सम्भाव्यं भवेत् । न च तस्य मूलप्रवृत्तिरेव निन्द्या । यदि तस्य निसर्गजन्या मूलप्रवृत्तय एव निन्दिता भवेयुः, तासां स्वरूपतः पापमयत्वं प्रतिपाद्येत, तर्हि बालकस्य पापभावना तत्सम्बन्धिनी विचिकित्सा च तं गभीरं मानसिकसङ्घर्षमभि नेनीयते ।

अस्मिन् विषये, खल्वेतदपि स्मरणीयं यच्छैशवे शिशोरनुभूतिरूपमभिलाषेच्छा- विचारादिकमपरिपक्वत्वात् प्रौढवन्नावधार्यम्; किन्तु तस्य महनीयः प्रभावोऽज्ञातचैतन्येऽज्ञात इवावतिष्ठते। कुशलैः परीक्षकैर्मनोविश्लेषणद्वारैव तदुद्घाटयितुं शक्यते।

(आ) साक्षादुपकारकं कारणम्[सम्पादयतु]

शैशवे बाल्ये च बालकस्यासामान्यपरिस्थिति- कारणानि चोद्धाट्य वयमिदानीं साक्षादुपकारकाणि पूर्ववर्तीनि कारणान्यनुव्याख्यास्यामः । यदि कैश्चन कारणविशेषैरसह्यो मानसिकसङ्घर्षजन्यचिन्ताभार आपतेत्, तदा स मानसिक- शक्तिक्षयाय कल्पते। यथा आर्थिकक्षतिदारिद्र्यपदच्युतिव्यावसायिकाकर्मण्यतादिजन्यचिन्ताभारोऽकस्मान्मानसिकविघटनमापादयति पतिपुत्रादिप्रियतमव्यक्तिनिधने, विश्वासघाते, पतिपत्नीकलहे वा सञ्जाते यः संवेगानुभूत्यतिशयान्मानसिकभारो जायते, तेनाप्यसह्येनापरिहार्य्येण मनोव्यापाराणां विघटनमापद्यते। एवम्प्रकारेण एकान्तरव्यक्तित्वं व्यक्तित्वद्वैधीभावो वाऽसह्यमानसिकसङ्घर्षविमोचनाय प्रकृतिप्रदत्तं सुलभमौषधम्।

व्यक्तित्वद्वैधीभावः[सम्पादयतु]

ननु कीदृशं विच्छिन्नं व्यक्तित्वम्? कीदृशो वा व्यक्तित्वद्वैधीभावो भवति ? एकान्तरं व्यक्तित्वमसामान्यमनोविकाररूपमेवेति वर्णितचरम्। तदेकेन प्राध्यापकजेनेटमहोदय- विवृतेनोदाहणेन वयं सुव्यक्तं कर्तुमभिलषामः। जेनेटमहोदयेन ‘आइरीन’ व्यपदेशेनेद- मुदाहरणमनुव्याख्यातम् ।

'आइरीन' इति संज्ञिका एका बालिकासीत् । सा चिरकालं यावद् रुग्णायाः स्वमातुः शुश्रुषां कृतवती । तदनन्तरं तस्या माता पञ्चत्वमापन्ना। तन्मृत्युविषयकघटना अतिकष्टप्रदा आसीत् । तद्वेदनयाऽसह्याया बालिकायाश्चित्ते घोरो मानसिक आघातः सम्प्राप्तः, असामान्यमनोविकाराश्च तस्याः प्रादुर्भूताः । वार्तालापं कुर्वती, सूचीद्वारा सीवनकर्मण्यभिरता वा सा सहसा स्वकार्यं त्यक्त्वा मातुर्मृत्युविषयकघटनानां कुशला- भिनेत्रीसदृशं पुनराचरणं कर्तुमारभते स्म ।

यदा सा ईदृश्यामवस्थायामासीत्, तदा तया वास्तविकजगद्विषयकं किमपि वृत्तं न स्मृतम्। तदा सा कमप्यन्यं शब्दमुच्चार्यमाणं श्रोतुं न प्रभवति स्म, तदा सा किमपि वस्तुभूतजगदृश्यं द्रष्टुमसमर्थासीत्, तदा यद् द्रष्टुं साऽशक्नोत्, तत्तु तात्कालिकोन्मुक्तकल्पनाप्रभवं मातृमृत्युविषयकं वृत्तमेव, नेतरत् । तदनन्तरं सा पूर्वावस्थायां पुनरागच्छति स्म । जाग्रदवस्थायां सा तदभिनयसङ्काशाया अवस्थायाः किमपि स्मर्तु न प्राभवत्। अन्यच्च, तस्यामवस्थायां जाग्रदवस्थायाः किमपि वृत्तम्, का च साऽस्तीति न स्मर्तुमशक्नोत् । जाग्रदवस्थायां पृच्छ्यमाना सा मातुर्मृत्युविषयकं वृत्तान्तं न स्मर्तुमशक्नोत् किञ्चोदासीनवदेव मातृनिधनवृत्तान्तं श्रुत्वा साऽवतिष्ठते स्म । कोऽपि हर्षविषादादिभावस्तदा तया नानुभूतः । तस्याः परिजना ईदृशमाचरणं ज्ञात्वा तामनिन्दन् ते तामभर्त्सयन्नपि ।

एवम्प्रकारकं विच्छिन्नव्यक्तित्वमेकान्तरं व्यक्तित्वम्, व्यक्तित्वद्वैधीभावो 'निद्रा- विहार:’२ इति संज्ञको मन्यते मनोविज्ञानविशारदैः। सामान्यासामान्यमानसिकावस्थयोर्मध्येऽ- ऽवतिष्ठत इयमवस्था । अत्र द्वे व्यक्तित्वे असंश्लिष्टे एकस्या एव व्यक्तेर्भवत इति बोद्धव्यम्। निद्राविहारं व्यक्तित्वाङ्गभूतघटकविशेषस्य विचारेच्छानिकायरूपस्य मूलव्यक्तित्वधारायाः सम्बन्धव्यवच्छेदो जायते । स च सम्बन्धविच्छेदोऽल्पकालिक एव निद्राविहारे, परं तदधिकतरोऽपस्मारे, तदधिकतमश्चोन्मादे।

व्यक्तित्वविस्फोटसङ्काश उन्मादो भवति। यथा ज्वालामुखीविस्फोटे भूम्यन्त: स्थाग्निद्रवीभूतधातवो बहिर्निक्षिप्यन्ते; एवमेव या या वासना अवदमनवशादज्ञातचैतन्ये तिरोहिता जाता:, ताः सर्वा उन्माददशायामपस्मारदशायां वा स्वैरं विहरन्ति । तच्च स्वैरं विहरणं तावन्न सम्भाव्यते, यावन्नं व्यक्तित्वावयवस्य विचारेच्छानिकायस्य संस्थानविशेषस्य सम्बन्धविच्छेदो जायेत ।

  1. न्यायकुसुमाञ्जलिः ५/१