मनोविज्ञाने विचारव्यापारस्य संश्लेषणविश्लेषणात्मकत्वम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

मनोविज्ञाने विचारव्यापारस्य संश्लेषणविश्लेषणात्मकत्वम् अतीव महत्त्वपूर्णः विषयः, यः मनुष्यस्य समस्यानां समाधानं कर्तुं प्रभवति।

नवीनपरिस्थित्या नवीनसमाधानानुसन्धानपरो हि विचाराख्यमनोव्यापारः । या परिस्थितिश्चिन्त्यते, विचारविषयतयावतिष्ठते, सा वै नवीना; न तु प्राक्तनपरिस्थित्यनु- कृतिरेव । पूर्वाभिन्ना परिस्थितिः स्मृतिं जनयति । पूर्वभिन्ना तु विचारमनुभवनात्मकम्। अत एव विचारक्लृप्तसमाधानमपि नवीनपरिस्थित्या नवीनमेवेत्यवगन्तव्यम् । ननु कथं हि विचारोऽभिनवसमाधानमाधत्ते ? अथवा कथं वै विचाराख्यमनोव्यापारे प्रतिपद- मभिनवत्वमासाद्यते प्रमात्रा ? सत्यम्, विचारस्यावयवभूता सामग्री पूर्वानुभवोपात्ता । तस्या विश्लेषणं मूलभूतप्रत्ययेषु विचारेण प्रथमतो निष्पन्नं भवति, ततश्च संश्लेषणाख्यव्यापारेण तेषामङ्गभूतप्रत्ययानामभिनवविधिना संश्लेषणं क्रियते । नहि विचारसंश्लिष्टं रूपं प्रत्यक्षा- नुभवाभिन्नम्, भिन्नमस्य रूपं वै भवति । नवीनसाधनसमाधानव्याख्याद्याविष्कारोऽप्यत एव प्रमोदाय कल्पते। नहि विचारे पूर्वानुभवस्य पिष्टपेषणमेवोपलभ्यते, नाप्यन्यपुरुषस्यैव। पूर्वानुभूतप्रत्यया अपि, अन्येषां विचारा अपि, विश्लेषणसंश्लेषणरूपसरोवरे निमज्ज्य, आत्मसाद् भूत्वा, तदनन्तरञ्च सज्जीभूयाभिनवस्वविचाराङ्गत्वमापद्यन्ते । पूर्वानुभवपिष्ट- पेषणं तु सर्वाधिकं स्मृत्यामुपलभ्यते। विचारश्च पूर्वापरसम्बन्धपुरस्सरोऽभिनवरीत्या साध्यसाधनस्वरूपावधारणात्मकः प्रयोजनेच्छानियन्त्रितप्रत्ययविश्लेषणसंश्लेषणमयो भवति । रेलशकटस्येञ्जिनाभिधं यन्त्रं कथमाविष्कृतमित्यधिकृत्य वयमेकेनोदाहरणेन विचारानुगतविश्लेषणसंश्लेषणाख्यक्रियास्वरूपदिग्दर्शनं करिष्यामः । आङ्गलदेशीयो वाट्सनमहोदय' एकदा महानसे जलपात्रमुत्ताप्यमानं (Boiling) दृष्टवान्, तस्यावरकपात्रं बहिर्निर्गच्छाद्वाष्पप्रवेगेण ध्मायमानमासीत्। नहि तेन कदापि रेलशकटस्येञ्जिनं तत्सदृशं वा किञ्चिद्वस्तु पूर्वं दृष्टम्, किन्तु बाष्पप्रवेगं महानसे दृष्ट्वा तेनानुमितं यदि बाष्पशक्ते- र्विधिवदुपयोगो भवेत्, तर्ह्ययं बाष्पवेगः शकटवाहकयन्त्रमिञ्जनाख्यमपि चालयितुं शक्नोतीति। बाष्पचालितमिञ्जनम्, तच्चालितं शकटं वा दृष्टचरं नैवासीत्। तथापि कल्पनया सूक्ष्मेक्षिकया तद्वाष्पप्रचालितेञ्जनस्य स्वरूपं तच्चालितशकटस्य स्वरूपं तेन सुविचारितम्।

पूर्वानुभवानुगतप्रत्ययघटकानां प्रयोजनानुसारिप्रविभाजनं विश्लेषणम्। पृथग्भूतानां प्रत्ययघटकानां नवीनभावियोजनानिर्माणे साध्यसाधनेतिकर्तव्यताद्यव- धारणार्थमुपयोगविशेषः संश्लेषणम्। नहि वाट्सनमहोदयेन रेलशकटस्य इञ्जनस्याविष्कारो यद्यप सम्पादितस्तथापि तन्मतस्य चिन्तनेन भाविवैज्ञानिकानां स्टीफेन्सप्रभृतीनां मार्ग: सुप्रशस्तो जात:, तच्चिन्तनपरिणामरूपेणैव कार्पासवस्त्रनिर्माणयन्त्रस्य बाष्पसाहाय्येन परिचालनं सुकरं जातम्।

विचाराख्यो व्यापारो गृहनिर्माणमिव भवति । तथा काष्ठलोहमृत्तिकाजलपाषाण- चूर्णादीनि सर्वाण्येव सम्प्राप्तपूर्वाणि; किन्तु तेषां प्रकारविशेषेण संयोजनं यदाभिनिर्वतते, तदा रमणीयः प्रासादो दृष्टिगोचरो भवति । एवमेव विचाराख्यमानसव्यापारे वयं प्रत्यक्षावगतसामग्रीं मौलिकघटकेषु प्रत्ययभूतेषु प्रविभाज्याभिनवरीत्या संयोजयन्तोऽभिनवसमन्वितरूपे प्रयोजनानुकूले क्लृप्तविचारे तस्याः परिणतिं कुर्मः । अभिनवप्रत्यय- संश्लेषणस्य पथप्रदर्शनं प्रयोजनमेव करोतीत्यवसेयम्।

भाषाविचारयोः सम्बन्धः[सम्पादयतु]

भाषामन्तरा विचार एव प्रसरं न लभते । प्रायो जना मन्यन्ते - भाषा विचाराभि- व्यञ्जनायैव कल्पत इति । नूनं विचाराभिव्यञ्जनस्य भाषा परमोत्कृष्टं साधनम् । विचारो - त्कर्षाय भाषाया महत्यावश्यकता वर्तते; परन्तु भाषा तु वस्तुतो विचारवाहनं भवति । विचारमात्रं भाषासाहाय्यं न केवलं स्वाभिव्यञ्जानाय, अपि तु स्वकीयस्वरूपनिर्धारणार्थ- मप्यपेक्षते। तदुक्तं हि भर्तृहरिणा-

न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमादृते ।

अनुविद्धमिव ज्ञानं सर्वं शब्देन भासते ॥ इति ।

अर्वाचीनानां मनोवैज्ञानिकानां मतं परमोत्कृष्टशब्दब्रह्मवादिना भर्तृहरिणातीव स्फुटतया स्फोरितम्। सर्वं ह्यस्माकं लौकिकं ज्ञानं शब्दैरनुविद्धमिव अनुव्याप्तमिव भवतीति तेषां तात्पर्यम्। एकोऽपि प्रत्यय एवंविधो नोपलभ्यते, यस्य चिन्तनं शब्दादृते कर्तुं शक्येत, ज्ञानस्य प्रत्ययसमुच्चयोत्थस्य तु वार्ता कुतः ! ननु किमृषीणां ज्ञानमात्मसाक्षात्काररूपं शब्दब्रह्मसाक्षात्काररूपं वा तादृशं न भवति यादृशे शब्दव्यापारो नोपलभ्यते ? ऋषीणां ज्ञानं शब्दातीतं भवतु नाम, नहि तेनार्वाचीनमनोविज्ञानस्य मानवव्यवहाराध्ययनदक्षस्य किमपि प्रयोजनं साध्यते । यज्ज्ञानं तदलौकिकं शब्दातीतं भवतीति सर्वं साम्प्रतम् । तद्विषयमधिकृत्य भर्तृहरिर्ज्ञानं विशिनष्टि-

ऋषीणां दर्शनं यच्च तत्त्वे किञ्चिदवस्थितम् । न तेन व्यवहारोऽस्ति न तच्छब्दनिबन्धनम् ॥ इति । [१]

अलौकिकज्ञानेनैकरसेनाशाब्देन मनोविज्ञानलक्ष्यं मानवव्यवहारस्य यथातथं निरूपणं तु नाभिनिर्वर्तयितुं शक्यते। अतः परमोपयोगितया लोकानामैहिकास्युदयदृष्ट्या लौकिकं ज्ञानं यस्मिन् समन्वित एकैकः प्रत्ययः शब्देन निष्पाद्यते, तदेवास्माकमस्मिन् ग्रन्थे प्रतिपाद्यम्; यद्यपि ह्यलौकिकज्ञानस्य स्वरूपावधारणं मनोविज्ञानस्य साङ्गोपाङ्गाध्ययनाय परमावश्यकमपरिहार्यं चेत्ति व्याख्यातचरम्। मूर्तानुभवराशेः पृथक्कृता वै विचारसहकारिणः प्रत्ययाः। प्रत्ययास्तावदस्फुटा भवन्ति, यावन्न भाषामाध्यमेन तदभिव्यञ्जनं निष्पाद्यते। भाषा वै अमूर्तान् प्रत्ययान् मूर्तरूपत्वेन दृश्यत्वेनालङ्करोति ।

उदाहरणस्वरूपं शौचप्रत्ययो विचारणीयः । शुचेर्भाव: शौचमिति । शौचाभावोऽ- शौचम्। यदि भाषामाध्यमेन शौचस्वरूपमभिव्यक्तं न भवेत्तर्हि तत्स्वरूपं स्फुटं न भवेत्। अपि च, शौचमिति प्रत्ययो बहुलार्थगर्भितः। अत एव कस्यचिदप्यन्यतमस्यार्थ उन्नेतुं शक्यते, अथ वा सर्वेषामेव युगपत् । स यथा किन्नु अङ्गानां शौच एव शौचप्रत्ययस्य तात्पर्यम् ? किमुत शौचप्रत्ययेन मनः शुद्धिरभिव्यक्ता ? किं वा वचः शुद्धिरेव शौचप्रत्ययेनोन्नीयत इति ? नहि भाषामाध्यममन्तरा शौचप्रत्ययार्थावगमः कर्तुं शक्यते । भाषा वै प्रत्ययस्यात्मरूपस्य शरीरमिति निर्गलितोऽर्थः । भाषामाध्यमेन प्रत्यय: संज्ञाविशेषं लभते। संज्ञाविशेषेण तदभिव्यञ्जनं सुकरं भवति ।

किं तावत्प्रत्यया पूर्वं सम्भवन्ति ? किमुत भाषा ? भाषायां आविर्भावस्वरूपं त्वग्रे विचारयिष्यते। भाषा नाम प्राणिनां पुरुषाणां वा परस्परं विचारादानप्रदानसाधनीभूता । प्रत्ययानां विचाराङ्गभूतानां स्वतः सत्त्वन्तु प्रागेव प्रतिपादितम्। प्रत्ययो वै आत्मस्थानीयः, भाषा तु शरीरकल्पा। प्रत्ययपरिच्छेदस्तु भाषयैवाभिसम्पद्यते । विचारोत्कर्षे प्राय: सर्वेषामेव प्रत्ययानां चिन्तनं भाषागर्भितं भवति । किन्तु बालमूकानां प्रत्ययानुभवो भाषाविहीनो दृश्यते । शिशवः पिपासवोऽपि पानीयमिति वक्तुं न प्रभवन्ति । 'अँ' 'अँ' इत्येवम्प्रकारकं ध्वनिमस्फुटमेव कियच्चिरमनुवदन्ति । यदा तेषामभीप्सितं नावाप्यते, ते क्रन्दितुमारभन्ते । अत्र प्रत्ययानुभवः प्राक्कालिकोऽस्फुटश्च ध्वनिस्तु तदनन्तरमुत्पद्यते । अस्पष्टो ध्वनिविशेष एवात्र ‘भाषा’ इति वयं वदामः । मूकानां भाषा इङ्गितमयी भवति । तेऽङ्गुलिनिर्देशमात्रेण स्वकीयभावान् प्रकटयन्ति । अपि च, प्रत्ययान् स्पष्टीकर्तुं स्पष्टतश्चिन्तयितुमभिव्यञ्जयितुञ्च भाषासाधनं नितान्तमपरिहार्यमिति तु वयं ब्रूमः ।

सेयं भाषा नूनं प्रत्ययस्याभिध्यानकेन्द्रीकरणार्थं परमपेक्ष्यते । भाषामाध्यमेन च विचारानुगतविश्लेषणसंश्लेषणाख्यौ मानसौ व्यापारौ बहुशाखौ सुसूक्ष्मौ च प्रसरतः। नव्यनैयायिकानां परिष्कारग्रन्थेषु प्रौढविज्ञानग्रन्थेषु परिनिष्ठितपारिभाषिकशब्दावलिषु च सर्वमिदं भाषासौष्ठवं केनाप्यवलोकयितुं शक्यते । येषां जनानां भाषाऽविकसितैवावतिष्ठते, तेषां विचारप्रकर्षोऽपि नोपलभ्यते। ज्ञानकलासंस्कृतिराजनैतिकसामाजिकविकासोऽपि तेषामत्यन्तं निम्नस्तरीयो विद्यते । वस्तुतो भाषाविचारयोरभिन्नतमः सम्बन्धो भवतीति विभाव्यम्।

वैयाकरणमतम् - स्फोटवादः[सम्पादयतु]

तत्र वैयाकरणदर्शनानुसारिणः शब्दार्थयोर्नित्यसम्बन्धमङ्गीकुर्वन्ति। शब्दो नित्यः। नहि ध्वनिनित्य एव शब्द इति वक्तुं शक्यते । नित्यशब्दस्य ध्वनिस्त्वभिव्यञ्जक एव । अन्यथा कथं ‘क’ ‘क’ इति दशवारमुच्चारणेऽपि 'क' इति वर्णस्यैवावगमो भवेत् ? स च शब्दो निरवयवो वर्णक्रमहीनो नित्यश्च, स च तन्मते स्फोटाख्यः । अतो वर्णातिरिक्तो वर्णाभिव्यङ्गयोऽर्थप्रत्यायको नित्यः शब्दः ' । स्फुटत्यर्थोऽस्मादिति स्फोटः ।

सन्ति स्फोटस्य अष्टौ प्रकाराः, यथा - (१) वर्णस्फोटः, (२) पदस्फोटः, (३) वाक्यस्फोटः, (४) अखण्डपदस्फोटः, (५) अखण्डवाक्यस्फोटः, (६) वर्णजातिस्फोटः, (७) पदजातिस्फोटः, (८) वाक्यजातिस्फोटश्चेति । एतत्सर्वं पण्डितप्रवरेण बालकृष्ण-पञ्चोलिमहोदयेन वैयाकरभृषणसारस्य प्रभाटीकायां श्रीमद्रामाज्ञापाण्डेयमहोदयेन च स्वकीये ‘वैयाकरणं दर्शनम्'३ इति गवेषणापूर्णग्रन्थे सपरिकरं प्रपञ्चितम् । श्रीमद्रामाज्ञापाण्डेयमते तु षोडशप्रकारकः स्फोटो भवतीति विशेषः । वाक्यस्फोटो हि खलु शब्दस्फोटादतिरिच्यते, यस्मिन् नित्योऽखण्डो वाक्यार्थ एव निरवयववाक्यार्थस्यावबोधं जनयति । वाक्यस्फोट एव तेषां मते वस्तुतो नित्य:, तदङ्गभूतानि वर्णपदादीनि सर्वाणि मिथ्या । वैयाकरणानां मते सर्वं बाह्यं जगत् कल्पनात्मकम्। स्फोटब्रह्म एव नित्यं तत्त्वम्, तत्त्वम्, तदेव शब्दतत्त्वम्; तदङ्गमादाय सर्वोऽयं जगद्व्यवहारः प्रवर्तते । तदुक्तं हि शेषकृष्णेन स्फोटतत्त्वनिरूपणाख्ये ग्रन्थे-

न प्रत्येकं न मिलिता न चैकस्मृतिगोचराः ।

अर्थस्य वाचका वर्णाः किन्तु स्फोटः स च द्विधा ॥ इति । [२]

जगद्व्यवहारस्य मृषात्वञ्च भर्तृहरिरप्येवं व्याचष्टे-

उपायाः शिक्षमाणानां बालानामुपलालनाः ।

असत्ये वर्त्मनि स्थित्वा ततः सत्यं समीहते ॥ इति । (वाक्यपदीयम्)

अपि च, वैयाकरणं वाचो भेदचतुष्टयमङ्गीकुर्वन्ति मनुष्याणां वाग्व्यवहारमधिकृत्य। तद्यथा–परा, पश्यन्ती, मध्यमा, वैखरीति । इह परा वाक् तु परशक्तिरूपा वाङ्मनसोऽगोचरा योगिभिरेव निर्विकल्पसमाधौ विज्ञातुं शक्यते । तज्जन्यायां पश्यन्त्यामपि न शब्दार्थयोः प्रविभाग इति सापि सम्मुग्धज्ञानरूपा नहि साक्षादर्वाग्दृशां प्रत्येतव्या भवति । तदनु मध्यमायां तु शब्दार्थप्रविभागो भवति, किन्तु केवलं मानस एव। सापि परेण पुरुषेण प्रतिपत्तुं न शक्या। चतुर्थी वैखरी तु सर्वैः शब्दरूपतया विज्ञायते । श्रुतिरप्येवं वाक्यचतुष्टयसिद्धान्तं विशिनष्टि -

चत्वारि वाक् परिमिता पदानि तानि विदुर्ब्राह्मणा ये मनीषिणः ।

गुहा त्रीणि निहिता नेङ्गयन्ति तुरीयं वाचो मनुष्या वदन्ति ॥ इति । [३]

वैयाकरणमतार्वाचीनमनोविज्ञानाभिमतयोस्तुलना[सम्पादयतु]

स्थाने खल्विदं यद्वयं सङ्क्षेपत उपरिवर्णितयोर्द्वयोरेव मतयोस्तुलनात्मकं समीक्षण- मपि किञ्चित् पुरस्कुर्मः। दार्शनिकपक्षस्य जगन्मिथ्यात्वादिकस्य समालोचनाय नायमवसरः, यतो हि मनोविज्ञानं व्यावहारिकजगद्व्यवहारसत्यत्वमधिकृत्यैव प्रवर्तते । जगतो मिथ्यात्वममिथ्यात्वं वेति समस्या दार्शनिकपक्षमुपैति । किन्तु भाषाप्रत्यययोर्यः सम्बन्धोऽस्माभिः प्राग्वर्णितः, तस्य रमणीयमुद्भावनं वै वैयाकरणदर्शने समुपलभ्यते । यद्यप्यर्वाचीनं मनोविज्ञानं वाच्यवाचकविभागं सत्यत्वेनाङ्गीकृत्यैव विचारप्रक्रियां व्याख्यातुं प्रवर्तते, न तु मृषात्वेनोपायरूपत्वेनैव वा, यथा वैयाकरणा यतन्ते, तथापि तेषां मतयोः साम्यं सुस्पष्टमेवायति, यदा वैयाकरणा व्याकरणशास्त्रस्यैहिकं लक्ष्यं प्रतिपादयन्ति ।

वार्तिककारोऽप्येवं विशिनष्टि-‘“किमर्थं शास्त्रम् ? सिद्धे शब्दार्थसम्बन्धे, रक्षोहागमलघ्वसन्देहाः प्रयोजनम्" इति । भाषा परिष्कृता यदा भवति तदाल्पशब्दैरेवाभीष्टप्रत्ययानामर्थानां वाभिव्यक्तिः सुष्ठुतरं जायते, असन्देहश्च प्रत्ययावबोधो भाषामाध्यमेन व्याकरणशास्त्रसुनियन्त्रितेनैव सम्भाव्यत इति सर्वमर्वाचीनमनोविज्ञानाभिमतेन व्यख्यातपूर्वेण सार्धं सङ्गच्छते। प्रत्ययविपर्यासोपशमो व्याकरणशास्त्राध्ययनेन जायते, अत एव भर्तृहरिः सगर्वमुक्तवान्-

इयं सा मोक्षमाणानामजिह्मा राजपद्धतिः ।

अत्रातीतविपर्यासः केवलामनुपश्यति ॥ इति ।

भाषाविर्भावः[सम्पादयतु]

ननु कथं भाषाणामाविर्भावो जायते ? अयं प्रश्नो भाषाविज्ञानस्य प्रतिपाद्यः । तथापि विचारेण सह भाषाया अतीव सन्निकृष्टसम्बन्धत्वादस्य किञ्चिद् विवेचनमत्रापि प्रस्तूयते। या या भाषाः प्रचलिता उपलभ्यन्ते सर्वस्ता लोकसङ्केतायत्ताः । मानवव्यवहारे परम्परया तेषां समुद्गमो भवति। लोकसङ्केतजन्यास्ता इत्यर्वाचीनानां भाषाविज्ञानपारङ्गतानां मनोविज्ञानविशारदानाञ्च मतम् । प्राचीननैयायिकानां मते भाषाणामाविर्भाव ईश्वरसङ्केताज्जायते । 'अस्माद्भयमर्थो बोद्धव्य इतीश्वरसङ्केतः शक्तिः"। शक्तञ्च पदं भवति । शक्तिर्नाम घटादिविशेष्यकघटादिपदजन्यबोधविषयत्वप्रकारक ईश्वरसङ्केतः । ईश्वरसङ्केतो नाम ईश्वरेच्छा | सैव शक्तिरित्यर्थः। अर्वाचीना नह्येतन्मतं समर्थयितुमुत्सहन्ते । तेषां मते विविधानां भाषाणां विकासः कालक्रमाद् वर्षसहस्राणि यावत् सञ्जातः । भाषाश्च प्रतिजनपदं प्रतिदेशं वा भिद्यन्ते। व्यक्तिरितरेषां जनानां साहचर्येण भाषां वेत्ति। भाषाभ्यासश्चानुकरणमैच्छिकं प्रयत्नञ्चेति द्वयमेवापेक्षते ।

ननु कथं प्रागैतिहासिके काले भाषाया उद्गमः सञ्जातः ? यदि भाषामन्तरा चिन्तनं नाभिनिर्वर्तते, तर्हि वर्तमानाभिः प्रचलिताभिर्विविधाभिर्लोकसङ्केतायत्ताभिर्भाषाभिः साध्यमानो विचारविनिमयो वर्तमानमानवजात्याः प्राक् कथं प्रचाल्यते स्म । एवम्प्राप्तायामाशङ्कायां वयं ब्रूमः - नूनं तदाद्यतनोपलभ्यमानभाषाम्यो विभिन्नैव काचिद्भाषा प्राकृता (न तु प्राकृतम्) प्रचलति स्म । तत्साधनेनैव तदा परस्परं मानवानां विचारः प्रचलति स्म। ननु का हि सा भाषा आसीत्? न हि वयमधुना प्रचलितोपलभ्यमानभाषाभ्यः प्राक्कालिकं किमपि तथ्यमैतिहासिकप्रमाणतयोद्घाटयितुं प्रभवामः ।

अस्माकं समाधानं त्वस्य प्रश्नस्य बालविकासान्तर्गतभाषाविकासमनुसृत्यैव प्रसरति । बालकाः कथं स्वकीया आवश्यकताः प्रकटयन्ति ? कथं वा बर्बरवन्यमानुषाद्यसभ्यजातिपुरुषाः स्वमनोगतभावान् प्रकटयन्ति ? कथं वा अज्ञातविदेशभाषा वयमास्माकीनां भाषामजानतां विदेशीयानां मध्ये व्यवहरामः? इत्यादिपरस्थितिविशेषानवधार्यैवास्माकं समाधानमस्य प्रश्नस्य प्रसरति ।

शिशुषु प्राय: प्रौढविचाररूपं नोपलभ्यते । तथापि विचाराख्यव्यापारस्य यत् किञ्चिन्मौलिकं रूपं क्रमशस्तदाविर्भवति, याँश्च भावान् याँश्च मूलप्रवृत्त्यात्मक- वेगाँस्तेऽनुभवन्ति, ताँस्ते शरीरावयवचेष्टाभिः प्रकटयन्ति । यदा स बुभुक्षामनुभवति, पिपासां वानुभवति, स भृशं क्रन्दति । क्रन्दनप्रकारेऽपि केचन भेदा उपलभ्यन्ते । ते भेदा अभ्यासजन्या नैसर्गिका भवन्ति । प्रायः शिशुमाता क्रन्दनं श्रुत्वैव तदावश्यकता- मवधारयति। यदा स पर्य्य शयानो व्युत्थितो वा कष्टमनुभवति, तदा स रोदिति । यदा स भयभीतो जायते, तदापि रोदित्येव । किन्तु प्रत्यवसरविशेषं तस्य रोदनं भिद्यते। अन्यच्च, यदा दुग्धमानीयते धात्र्या मात्रा वा, तदा स हस्तावुत्थाय हर्षातिरेकं व्यग्रतां शीघ्रतां च प्रकटयति ।

रोदनध्वनिरपि तदनुसारं परिवर्तते । यदा कुक्कुराय भोजनं प्रदीयते सहर्षं स पुच्छमितस्ततः परिचालयति । एवम्प्रकारेण जापानदेशे गत्वा वयं कथं भोजनावश्यकतामभिव्यञ्जयितुं शक्नुमः ! जापानीयस्तु संस्कृतहिन्दीगुजरातीत्यादि-भाषा न जानाति, यां वयं जानीमः। वयञ्च तद्भाषां न परिचिनुमः । अतो भोजनं हस्तमुखादिशरीरावयवविशेषचेष्टेङ्गितादिभिरेव वयं प्रार्थयामहे । अतोऽनुमीयत एतदस्माभिर्यद्धि प्रागैतिहासिके कालेऽपि प्रथमा प्राकृता भाषा शरीरावयवविशेषचेष्टा- रूपासीदिति। तदनन्तरं सा प्रतीकविशेषानादाय विकसिता सञ्जाता। मित्रदेशीय- पिरैमिडोत्खननादिसामग्रीगवेषणेन निष्पन्नं तथ्यमेतदायाति यत्पक्षिविशेषचित्रमेकं वस्तुविशेषमावश्यकताविशेषं वा द्योतयति स्म इति । नहि खल्वियमवस्था बौद्धिकोच्चस्तरं प्रकटयति, यतो हि प्रौढबौद्धिकव्यवहारेऽसङ्ख्येयप्रत्ययवाचकशब्दानामावश्यकतानुदिन- मनुभूयते। शरीरावयवचेष्टामयी सेङ्गिता भाषा प्रतीकात्मकभाषा वा ज्ञानशैशवमात्रमभि- व्यनक्ति । यथोक्तं हि शुक्राचार्येण-

नानुवाकहता बुद्धिर्व्यवहारक्षमा भवेत् ।

अनुवाहकता या तु न सा सर्वत्र गामिनी ॥ इति । [४]

देवभाषायाः प्रागपि भाषाविकासस्येयमेव रूपरेखा आसीदिति सम्भाव्यं विकासवादनयानुसारम् ।

ननु नन्दिकेश्वरकृतकाशिकायां प्राचीनं मतमेव वर्णितं यद्धि साक्षान्महेश्वराद् व्याकरणशास्त्रमधीत्य पाणिनिमुनिः व्याकरणशास्त्रेऽष्टाध्यायीरूपं सूत्रपाठम्, गणपाठम्, धातुपाठम् लिङ्गानुशासनम्, शिक्षा चेति ग्रन्थपञ्चकं चकार । अत्रोच्यते-

येनाक्षरसमाम्नायमधिगम्य महेश्वरात् ।

कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः ॥ इति । [५]

अन्यच्च, मानवमस्तिकस्य शिरोऽलङ्कारभूतमिदं पाणिनीयं व्याकरणशास्त्रं महतायासेन दैर्घकालिकानुसन्धानपर्यटनादिक्रियायोगेन निष्पन्नं पाणिनिमुनिना प्रणीतम् । मन्ये महेश्वरः कोऽपि गुरुविशेष एवासीद्, अथवा सर्वज्ञाननिधिस्वरूपपरमेश्वरस्य सर्वेषामेव गुरोरेवेदं सामान्यं वचनम्। “स पूर्वेषामपि गुरुः कालेनानवच्छेदात्” इति योगसूत्रकाराः। भाष्यकारोऽपि पाणिनिपरिश्रमक्रियायोगदिकं साक्षात्कारयति प्रातःस्मरणीयैः खल्वेभिरशब्दैः-

"प्रमाणभूत आचार्यो दर्भपवित्रपाणिः शुचाववकाशे प्राङ्मुख उपविश्य महता प्रयत्नेन सूत्राणि प्रणयति स्म । तत्र वर्णेनाप्यनर्थकेन न भवितव्यम्, किं पुनरियता सूत्रेण ' इति । पूर्वं सूत्रप्रत्याख्यानं कृत्वाप्यपरिमेयां श्रद्धां भाष्यकारः प्रादर्शयत् ।

भाषाविकासः[सम्पादयतु]

ननु कथं बालकानां भाषावबोधक्रमो भवति ? षण्मासानन्तरं सप्तमे मासे वा बालको ‘माँ माँ' ‘बाँ बाँ' 'द द' वोच्चारयति । ततः पूर्वमप्यस्फुटां 'ऐं ऐं' इत्यादिकध्वनिविशेषयुक्ताम्, मातरं धात्रीं दुग्धपात्रं वा दृष्ट्वा, शिशुश्चतुर्थमासादारभ्य भाषां प्रयुङ्क्ते। प्रतिमासमनुकरणेन च स शब्दाधिकारं क्रमशोऽवाप्नोति । यदा शिशुः सार्धद्विवर्षीयो जायते, लघुवाक्यैः स्वमन्तव्यं प्रकटयति, यथा- मैं रोटी खाता हूँ" । 'उसने मुझे मारा' इति । तस्य शब्दसङ्ग्रहोऽतीव न्यूनों भवति, अतः स शरीरावयवचेष्टाभिः स्वमनोगतं भावं प्रकटयति, यदाधीतशब्दैरभिनववस्तुपरिस्थितिविशेषानभिव्यङ्क्तुं समर्थं नात्मानं मन्यते।

स्मिथमहोदयैः शिशूनां भाषावबोधविकासमधीत्य निम्नलिखितमायुः शब्दसंख्याधिकारसंवलितं निर्णीतम् । तथा हि-

आयुः अधीतशब्दसंख्या ८ मासे ० १ वर्षे ३ २ वर्षयोः २७२ ३ वर्षेषु ८७६ ४ वर्षेषु १५४० ५ वर्षेषु २०७२ ६ वर्षेषु २५६२

उपरिलिखितेनाकलनेन स्पष्टमेवेदं यद्धि बालकस्य प्रारम्भिकवर्षेषु भाषाबोधविकासतस्तीव्रगत्या जायते । स्मरणीयञ्चायं यद्धि भाषाविकासो वंशपारम्पर्यपरिस्थिति- विशेषायत्तो भवतीति ।

अनुमानम्[सम्पादयतु]

अनुमानं तर्कश्च बौद्धिकविचारस्य परमां कोटिं द्योतयतः । ज्ञातेभ्यः केभ्यश्चिद्वाक्येभ्यो यदा कश्चन निर्णयोऽज्ञातपूर्व उन्नीयते, तदा तदनुमानमिति वयं ब्रूमः । ज्ञातेभ्यो वाक्येभ्यो लिङ्गलिङ्गिसम्बन्धः साध्यसाधनसम्बन्धो वा नियतसाहचर्यरूप उन्नीयते। तदनुमानं लिङ्गलिङ्गिपूर्वकमिति साङ्ख्या: प्राहुः । अथवा मितेन लिङ्गेन लिङ्गिनोऽर्थस्य पश्चान्मानमनुमानम्। प्रत्यक्षं ज्येष्ठप्रमाणम्। नह्यनुमानं प्रत्यक्षतः प्राप्तेऽर्थे साधयितुं प्रयतते। “पाणौ प्रत्यक्षत उपलभ्यमाने नानुमानम्, नागमः” इति वात्स्यायनाचार्याः। अनुमानेऽनधिगततत्त्वावबोधनं प्रत्यक्षव्यतिरिक्तं भवति, अत एव तस्य प्रमाणत्वं सिद्धं भवति। का प्रमा, का चाप्रमा, किञ्च तत्साधनम् ? इति सर्वं वस्तुतो न्यायशास्त्रस्य प्रतिपाद्यम्। नह्यस्य सर्वस्य चिन्तनं मनोविज्ञानस्य लक्ष्यम्; किन्तु निखिलमनोगतव्यापार- परायणं हि खल्वार्वाचीनं मनोविज्ञानम्। अतोऽनुमानतर्कादिविचारव्यापाराः कथमभिनिर्वर्तन्ते? * इति सर्वं मनोव्यापारयाथात्म्येन, न तु प्रमाणतया विवेचनं मनोविज्ञानेऽप्यर्हति ।

अनुमानं खलु त्रिविधं भवति - पूर्ववत्, शेषवत्, सामान्यतोदृष्टञ्चेति। तदुक्तं सूत्रकृद्भिः -

“अथ तत्पूर्वकं त्रिविधमनुमानं पूर्ववच्छेषवत्सामान्यतोदृष्टं च” [६] इति। तत्पूर्वक- मित्येनन लिङ्गलिङ्गिनोः सम्बन्धदर्शनं लिङ्गदर्शनं चाभिसम्बध्यते । साध्यसाधनयोः सम्बद्धयोर्दर्शनेन लिङ्गस्मृतिरभिसम्बध्यते । स्मृत्या लिङ्गदर्शनेन चाप्रत्यक्षोऽर्थोऽनुमीयते ।

(अ) पूर्ववदनुमानम् - तत्र भवति यत्र कारणेन कार्यमनुमीयते । यथा- 'मेघोन्नत्या भविष्यति वृष्टि:' इति ।

(आ) शेषवत् - तत्र भवति यत्र कार्येण कारणमनुमीयते । पूर्वोदकविपरीतमुदकं नद्या: पूर्णत्वं शीघ्रत्वं च दृष्ट्वा स्रोतसोऽनुमीयते 'भूता वृष्टिः' इति ।

(इ) सामान्यतोदृष्टम् - व्रज्यापूर्वकमन्यस्यान्यत्र दर्शनम् । अत्रानिर्दिष्ट- साध्यसाधनसम्बन्धो भवति । पूर्ववदनुमाने शेषवदनुमाने च नियतकार्यकारणभावो वर्तते; किन्तु सामान्यतोदृष्टेऽनुमानेऽनिर्दिष्टः कार्यकारणसम्बन्धो भवति । “केनचिदर्थेन लिङ्गस्य सामान्यादप्रत्यक्षो लिङ्गी गम्यते; यथेच्छादिभिरात्मा । इच्छादयो गुणाः, गुणाश्च द्रव्यसंस्थानाः । तद्यदेषां स्थानं स आत्मा" इति भाष्यकाराः ।

अनुमानं पञ्चावयववाक्यं समीहते । प्रतिज्ञाहेतूदाहरणोपनयनिगमनान्यवयवाः । [७] यथा-

पर्वतोऽयं वह्निमान्। (प्रतिज्ञा) धूमात् (हेतुः) यत्र यत्र धूमस्तत्र तत्र वह्निर्यथा महानसम् । (उदाहरणम्) यथा चायम्। (उपनयः, परामर्शः) अतः पर्वतो वह्निमान्। (निगमनम्)

तत्र साध्यनिर्देशः प्रतिज्ञा [८] । प्रज्ञापनीयेन धर्मेण धर्मिणो विशिष्टस्य परिग्रहवचनं प्रतिज्ञेति भाष्यकारः । प्रस्तुते पञ्चावयववाक्योदाहरणे 'पर्वतोऽयं वह्निमान् इति प्रतिज्ञावाक्यम्।

तत्रोदाहरणसाधर्म्यात् साध्यसाधनं हेतुः । [९] उदाहरणसाधर्म्यादुदाहरणवैर्धर्म्याद् वा साध्यसाधनं हेतुरिति। उपर्युक्ते पञ्चावयववाक्ये ‘धूमात्' इति हेतु: । स चं प्रत्यक्ष- गोचरः, तस्य च पक्षेण सह सम्बन्धोऽपि प्रत्यक्षगम्यः ।

तत्र साध्यसाधर्म्यात्तद्धर्मभावी दृष्टान्त उदाहरणम्। [१०] उपरि वर्णितेऽनुमानवाक्ये ‘यत्र यत्र धूमस्तत्र तत्र वह्निः, यथा महानसे' इति उदाहरणम्। तच्च साध्यसाधनयोर्व्याप्ति- निदर्शनपूर्वकम् । व्याप्तिश्च 'साध्यवदन्यस्मिन्नसम्बन्ध उदाहृतः' इति । येन सम्बन्धेन हेतुता तेनैव सम्बन्धेन साध्यवदन्यावृत्तित्वमिति बोध्यम् ।

तत्र उदाहरणापेक्षस्तथेत्युपसंहारो न तथेति वा साध्यस्योपनयः’। ‘तथा चायम्’ इति उपनयः । स एव परामर्शो लिङ्गपरामर्शो वेत्यभिधीयते। कारिकावल्यां विश्वनाथेनैवं व्याख्यात:- 'व्याप्यस्य पक्षवृत्तित्वधीः परामर्श उच्यते ' ॥ इति । [११] अत्र सन्दिग्धसाध्यवान् पक्षः । यथा धूमादिति हेतौ पर्वतः । व्याप्तिविशिष्टस्य हेतोः पक्षेण सह वैशिष्ट्यावगाहिज्ञानमनुमितौ जनकम्। तत्र हेत्वपदेशात् प्रतिज्ञायाः पुनर्वचनं निगमनम् [१२] । अथवा सिद्धनिर्देशो निगमनम्। “निगम्यन्तेऽनेनेति प्रतिज्ञाहेतूदाहरणोपनया एकत्र” इति निगमनम्। निगम्यन्ते समर्थ्यन्ते सम्बध्यन्ते" इति भाष्यकाराः । अनुमितिश्चेयं द्विधा भवति - स्वार्थानुमितिः, परार्थानुमितिश्चेति। यत्र स्वयमेव भूयोदर्शनेन यत्र यत्र धूमस्तत्र तत्राग्निरिति महानसादौ व्याप्ति गृहीत्वा पर्वतसमीपं गत:, तद्गते चाग्नौ सन्दिहान: पर्वते धूमं पश्यन् व्याप्तिं स्मरति - 'यत्र यंत्र धूमस्तत्र तत्राग्नि:’ इति; तदनन्तरम् 'वह्निव्याप्यधूमवान्यं पर्वत:' इति ज्ञानमुत्पद्यते । अयमेव ‘लिङ्गपरामर्शः’ इत्युच्यते; तस्मात् 'पर्वतो वह्निमान्' इति ज्ञानमनुमितिरुत्पद्यते। तदेव स्वार्थानुमानम्।

परार्थानुमाने धूमात् स्वयमग्निमनुमाय परं प्रति बोधयितुं पञ्चावयववाक्यं प्रयुज्यते। अनेन पञ्चावयववाक्येन प्रतिपादिताल्लिङ्गात् परोऽप्यग्नि प्रतिपद्यते ।

प्रतीच्यानुमानद्वैविध्यनिदर्शनम्[सम्पादयतु]

प्रतीच्यास्तु यवनदेशीया अरिस्टाटलमहोदयानुयायिनो द्विविधमनुमानवाक्यं त्र्यवयवमेव स्वीकुर्वन्ति। तच्च निगमनानुमानमेवम्प्रकारकं भवति - 'सर्वे मानवा मरणशीलाः । रमेशचन्द्रोऽपि मानवोऽस्ति ।

अतो रमेशचन्द्रोऽपि मरणशीलः ' । (निर्णय:)

आगमानुमानं प्रतीच्यानुसारमेवम्भूतम्-

‘रामो मृतः श्यामो मृतः मोहनो मृत:, उर्वशी मृता, इत्यादिः । देवदत्तोऽपि मानवस्तत्सदृश एव । अतो देवदत्तोऽपि मर्त्यः ' ॥

त्र्यंवयववाक्यमनुमानप्रकारं वेदान्तिनो मीमांसकाश्चापि स्वीकुर्वन्ति। उपर्युक्ते पञ्चावयववाक्य आद्यावयवत्रयमन्तिमावयवत्रयं वाङ्ङ्गीकृत्यापि लाघवेनानुमितिसाधनं सम्पाद्यते। मनोविज्ञानदृष्ट्या भारतीयन्यायदर्शनाभिमतमनुमानं पञ्चावयववाक्यात्मकमेवो- पादेयम्। पञ्चावयववाक्यात्मकानुमानस्योपयोगित्वमाङ्गलदेशीयनैयायिकशिरोमणिना ब्रैडलीमहोदयेनापि मुक्तकण्ठेनोररीकृतम्'। यथार्थानुभवविश्लेषणोत्थितत्वाद् भारतीय- नैयायिकाभिमतमेव पञ्चावयववाक्यात्मकमनुमानं प्रतीच्यप्रतिपादितानुमानवाक्यापेक्षया रमणीयतरं विश्वासावहमपीति वयं मन्यामहे ।

प्राचीनतमानां नैयायिकानां मतम्[सम्पादयतु]

अस्ति हि खल्वेकं प्राचीनतमं न्यायमतम्, तदनुसारं न्यायवाक्ये दशावयवाः स्वीक्रियन्ते। उपरिवर्णितपञ्चावयववाक्यात् पूर्वं जिज्ञासा, संशयः, शक्यप्राप्तिः, प्रयोजनम् संशयव्युदास इतीतरे पञ्चावयवा अपि मन्तव्याः। इदं हि खलु दशावयववाक्यात्मकमनुमानं मनोविज्ञानरीत्या नितान्तमुपादेयं रमणीयतमं चेति वयं मन्यामहे ।

(अ) तत्र अप्रतीयमानेऽर्थे प्रत्यक्षार्थस्य प्रवर्तिका जिज्ञासा । अप्रतीयमानमर्थं कस्माज्जिज्ञासते? सामान्येनावगते धर्मिणि पर्वते विशेषेण अग्निमत्त्वादिना सन्दिग्धेऽग्निमत्त्वावधारणं 'प्रत्ययः' तस्य अर्थः प्रयोजनं हानोपादानो- पेक्षाबुद्धयः, तस्य प्रवर्तिका उत्पादिका 'जिज्ञासा' इति बोद्धव्यम् ।

(आ) तत्रैकस्मिन् धर्मिणि विरुद्धनानाधर्मवैशिष्ट्यावगाहिज्ञानं 'संशय:' इति । जिज्ञासाधिष्ठानं संशयश्च व्याहतधर्मोपसङ्घातात् तत्त्वज्ञाने प्रत्यासन्नः। परस्परं विरुद्धयोर्हि धर्मयोरन्यतरत् तत्त्वं भवितुमर्हति ।

(इ) प्रमातुः प्रमाणानि प्रमेयाधिगमार्थानीति शक्यप्राप्तिः । सा द्वेधा - प्रमाणानां शक्यप्राप्ति, प्रमातुश्च शक्यप्राप्तिः । प्रमेयं शक्यम्, तस्मिन् शक्तिः शक्यशक्तिरित्याचक्षते । शक्तता प्राप्तिरिति ।

(ई) प्रयोजनं तत्त्वावधारणमर्थसाधकस्य वाक्यस्य फलम् ।

(उ) संशयव्युदासस्तत्र प्रतिपक्षोपवर्णनं तत्प्रतिषेधे तत्त्वाभ्यनुज्ञानार्थम्। मनो- विज्ञानाभिमता एते पञ्चावयवा: प्रतिपाद्यस्वरूपोद्घाटनं कुर्वन्ति । भाष्यकारैरपि तेषामवधारणीयार्थोपपादकत्वमङ्गीकृतम्। तथा हि-“प्रकरणे तु जिज्ञासादयः समर्थाः, अवधारणीयार्थोपकारात्” इति।

जैननैयायिकभद्रबाहुमतानुसारमपि दशावयवात्मकं न्यायवाक्यमेवाऽभ्युपगन्तव्यम्। तद्यथा-

(१) अहिंसा परमो धर्मः । (प्रतिज्ञा)

(२) जैनशास्त्रानुसारेण अहिंसा परमो धर्मः । (प्रतिज्ञाविभक्ति:)

(३) अहिंसकानां देवप्रियत्वात्। (हेतुः)

(४) अहिंसकेभ्योऽन्ये धर्मलोकेषु वस्तु न लभन्ते । (हेतुविभक्ति:)

(५) याज्ञिकहिंसापरायणा अपि स्वर्गे वसन्तीति वर्ण्यते । (विपक्ष:)

(६) अहिंसकाः कदापि देवप्रिया न भवन्ति । (विपक्षप्रतिषेधः)

(७) अर्हन्तो हिंसाभयादन्नं न पचन्ति । (दृष्टान्त: )

(८) अन्ये पुरुषा यदन्नं पचन्ति तदन्नमर्हन्तोऽपि भुञ्जन्ते, अतस्तेऽपि हिंसादोषेण दुष्यन्त एव । (आशङ्का)

(९) अर्हदुद्देशेनैव यन्न पच्यते, तद्गतहिंसादोषेण ते न दुष्यन्ति । (आशङ्काप्रतिषेधः)

(१०) अतोऽहिंसा परमो धर्मः । (निगमनम् )

भाष्योक्तसंशयसंशयव्युदासयोः स्थाने भद्रबाहुना शङ्काशङ्काप्रतिषेधावुक्तावित्यवसेयम्।

कल्पनागौरवभयादेव पञ्चावयववाक्यस्य ग्रहणं करणीयम्, अन्यथा प्रमाणत्वेन विश्वासजनकत्वात्तु दशावयववाक्यात्मकं परार्थानुमानमेवाश्रयणीयम्, यतो हि तस्मिन्नुप- पत्तिक्रमः प्रतिपदं यथाभूतं व्याख्यातो भवति । अतः प्राचीननैयायिकैकदेशिभिरङ्गीकृता दशावयवा मनोविज्ञानदृष्ट्यातीव रमणीया यथातथं विचाराख्यमनोव्यापारनिदर्शकाश्चेति वयं मन्यामहे ।

स्वार्थानुमानविशेष:[सम्पादयतु]

स्वार्थानुमाने नहि सदा परार्थानुमानापेक्षितः पञ्चावयववाक्यक्रमो लक्ष्यते। प्रायो बुद्धिप्रकर्षाद् आशुकारित्वाच्च फलं निर्णयो वा सद्यः प्रथममुदेति, तदनन्तरं क्रमागतपूर्व- वाक्यानां सङ्ग्रथनं क्रियते । क्रमप्राप्तपूर्ववाक्यानामभावो भवतीति न वाच्यम्। तेषां क्रमो ध्यानानन्वितमस्पष्टं द्रुतं वा भवतीति मन्तव्यम् । भावनावेगात् प्रायो जना निगमनं सहसा प्रतिपादयन्ति। प्रतिक्रियानन्तरं यदि कश्चन पृच्छति - कथं हि तदनुमानमुपपद्यते ? इति, तर्हि वयं पूर्वक्रमागतवाक्यान् योजयितुमारभामहे। परार्थानुमाने तु पञ्चावयववाक्यक्रम एवाश्रयणीयः, कदाचन दशावयववाक्यक्रमश्चापि विशेषविश्वासजननाय ।

सन्दर्भाः[सम्पादयतु]

  1. वाक्यपदीयम्
  2. स्फोटतत्त्वनिरूपणम्, श्लो० ३
  3. महाभाष्यम्, प्रथमाह्निकम्
  4. शुक्रनीतिः ३/२६१
  5. नन्दिकेश्वरकृतकारिका
  6. गौतमन्यायसूत्रम् १।१।५
  7. गौतमन्यायसूत्रम् १।१।३२
  8. गौतमन्यायसूत्रम् १।१।३३
  9. गौतमन्यायसूत्रम् १।१।३४
  10. गौतमन्यायसूत्रम् १।१।३६।
  11. सिद्धान्तमुक्तावली, का० ६८
  12. न्यायसूत्रम् १।१।३९

सम्बद्धाः लेखाः[सम्पादयतु]