मनोविज्ञाने संवेदनभावादिविवेचनम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

मनोविज्ञाने संवेदनभावादिविवेचनम् अतीव महत्त्वपूर्णः विषयः वर्तते। तेन संवेदनायाः ज्ञानं भवति।

विषयोपोद्घातः[सम्पादयतु]

पूर्वेषु कतिपयाध्यायेष्वस्माभिश्चिन्तनमनुभवनापरनामधेयं साङ्गोपाङ्गमनुव्याख्यातम्। चिन्तनेन व्यक्तिर्बाह्यं जगदात्मगतं मानसं जगच्च जानाति । चिन्तनस्य फलं वै ज्ञानम्।आलोचनप्रत्यक्षविचारकल्पनास्मृत्यादिमनोव्यापाराणां चिन्तनप्रकारत्वेन विवेचनं सपरिकरं व्याख्यातचरम्। वयमधुनास्मिन्नध्याये संवेदनभावादिकमनुव्याख्यास्यामः । आदिपदेन स्थायिभावभावग्रन्थिविभावानुभावादीनां समावेशः करणीयः । नहि खलु चिन्तनमनुभवनाख्यं भावव्यतिरिक्तं प्रयत्नापेतं वा कदाचनावतिष्ठते । चिन्तनम्, संवेदनम्, प्रयत्नश्चेति मिश्रीभूयैकैकस्मिन् चैतन्यव्यापारे वर्तन्ते । जानाति, संवेत्ति, इच्छति, यतते-इति चैतन्यव्यापारक्रमो वर्णनसौकर्य्यायात्र गृहीतः, यद्यपि चिन्तने संवेदनप्रयतने अप्यनुप्रविशतः। प्रत्यक्षादिविवेचनावसरेऽपि नूनमस्माभिर्यथावसरं संवेदनसंवेगादिविवेचनं परम्परया कृतम्, तथापि विशेषेण संवेदनभावादिस्वरूपमत्र वयमनुव्याख्यास्यामः ।

संवेदनस्वरूपम्[सम्पादयतु]

ननु किमिति संवेदनं नाम? संवेदनं संवेदना वेति प्रत्येकमनुभवस्यानिवार्य्यमङ्गम्। वस्तुदर्शने सति तद्विषये कश्चन भावनाविशेषो जायते; यथा - सुखप्रदमिदम्, दुःखप्रदमिति वा। सेयं भावना ‘संवेदनम्' इति निगद्यते । सन्ति हि भावनाया विविधाः प्रकाराः । कदाचन पुरुषविशेषं दृष्ट्वा क्रोधोऽनुभूयते । अन्यं पुरुषविशेषं दृष्ट्वा रागो जायते । क्रोधराममात्सर्यादिविविधा भावा भवन्ति । ननु कथं संवेदनं प्रत्येकमनुभवस्यापरिहार्यमङ्ग- मित्युच्यते? यद्यपि संवेदनं प्रत्येकानुभवेऽनुप्रविष्टं विद्यते, तथापि न्यूनमात्रस्य संवेदनस्य ध्यानविषयत्वं नोपलभ्यते । संवेदनस्य सान्द्रमात्रायां सत्यामेव तदुपलब्धिः सम्भाव्यते । ध्यानाविषयीभूतमपि संवेदनमनुभवपृष्ठभूमौ विद्यमानं तदनुकूलप्रवृत्तिं जनयति । 'संवेदनम्’ इति पदं कैश्चन भारतीयैर्लेखकैर्निर्विकल्पकप्रत्यक्षार्थेऽपि प्रयुज्यते; तत्तु नोचितं प्रतिभाति । भवभूतिमहाकविना अस्माकमभिमतार्थ एव संवेदनपदं प्रयुक्तम् । तथा हि-

दुःखसंवेदनायैव रामे चैतन्यमागतम् ।

मर्मोपघातिभिः प्राणैर्वज्रकीलायितं हृदि ॥ इति । [१]

अतो वयं ‘संवेदनम्’ इति पदं दुःखसंवेदनसुखसंवेदनख्यापनायैव व्यवहरिष्यामः। संवेदनपदस्य विशिष्टोऽयमर्थः । संवेदनसामान्येऽर्थे संवेदनपदेन संवेगभावादिकमपि द्योत्यते, यथा-चिन्तनेन सामान्येऽर्थे स्मृतिविचारकल्पनादिकमपि द्योत्यते ।

किं लक्षणं दुःखं सुखं चेति ? तदुक्तमभियुक्तैः - “अनुकूलवेदनीयं सुखम्”, प्रतिकूलवेदनीयं दुःखम् इति । भगवान् मनुः सुखदुःखलक्षणमेवं व्याचष्टे-

सर्वं परवशं दुःखं सर्वमात्मवशं सुखम् ।

एतज्ज्ञेयं समासेन लक्षणं सुखदुःखयोः ॥ इति ।

अत्रेदं वक्तव्यं भवति-सुखसंवेदनं दुःखसंवेदनं चेति मानसमाभ्यन्तरं व्यापारद्वयम् । संवेदनस्वरूपप्रयोजिका बाह्यपरिस्थितिरेव न भवति। संवेदनमिति तु मानसिकानुभवविशेषः । समानपरिस्थितिविषये कदाचन त्वेकेनैव पुरुषेणानुकूलवेदनीयत्वमनुभूयते, कदाचन च प्रतिकूलवेदनीयत्वम्। एकस्मिन्नेव काले च समानायां परिस्थितौ कस्यचिद् दुःखानुभूतिः, कस्यचित्सुखानुभूतिः । तस्मात् संवेदनं न बाह्यपरिस्थितिमात्रप्रयोज्यम्; अपि त्वनुभवितुराभ्यन्तरावस्थाप्रयोज्यम्। संवेदनं नहि ज्ञानव्यतिरिक्तं प्रयत्नविरहितं वावतिष्ठते। ज्ञानप्रयत्नपरिणद्धं वै सुखदुःखादिसंवेदनं भवति । संवेदनं विशुद्ध मानसो व्यापारो भवति, अतो ध्यानस्य विषयत्वं प्रायः संवेदनं नैवाप्नुते ।

वण्टमहोदयानां त्रिपरिणाहात्मकं मतम्[सम्पादयतु]

जर्मनदेशीयमनोवैज्ञानिकप्रवरा वण्टमहोदयाः प्रतिपादितवन्तो यत्संवेदनं षड्विधं भवति। त्रिषु युग्मकेषु षण्णां संवेदनानां वर्गीकरणं कर्तुं शक्यते। प्रथमे युग्मके सुखसंवेदनदुःखसंवेदनयोरन्तर्भावः करणीयः। शरीरविश्रान्ति' व्यग्रतां' चादाय द्वितीयं युग्मकं निष्पन्नं जायते। तृतीये युग्मके उत्तेजितत्वं शान्तिश्च सन्निविष्टे भवतः । संवेदनायाः षड्विधोऽयं स्वरूपप्रसरो वण्टमहोदयानुसारं त्रिपरिणाहात्मकं मतमिति व्यपदिश्यते। [२]  

अस्माँस्त्विदं प्रतिभाति यद्धि दुःखसंवेदनं सुखसंवेदनं चेति मौलिकं सरलतम- मविश्लेष्यं चैतन्यव्यापाररूपम्, किन्तु तदपेक्षया विश्रान्तिः व्यग्रता, उत्तेजितत्वम्, शान्तिश्चेति जटिलतरं मानसक्रियारूपम्, यस्मिन् सुखदुःखातिरिक्तं पेशीजन्यनिर्विकल्पक- प्रत्यक्षमपि सन्निविष्टं भवति । उत्तेजना च संवेदनापेक्षया भावविशेषयुक्ता प्रायो भवति। अत: संवेदनामधिकृत्य प्रतिपादितं त्रिपरिणाहवादान्तिमयुग्मकद्वयमालोचनसंवेदनात्मकं संश्लिष्टं मनोव्यापाररूपमिति वयं मन्यामहे । संवेदना तर्हि द्विविधैव भवति, न तु षड्विधेति सिद्धम्।

संवेदनमालोचनव्यतिरिक्तं मानसं कार्यम्[सम्पादयतु]

नहि संवेदनमालोचनज्ञानाङ्गभूतमिति वाच्यम्। आलोचनज्ञानमिव संवेदनं संवेदना वापि मौलक: सरलतमोऽविश्लेष्यो मानसो व्यापारविशेषः । वस्तुज्ञानमालोचनद्वारा जन्यते। वस्तुविषये सुखदुःखाद्यनुभूतिरेव च संवेदनम् । नहि विश्लेषणेन संवेदनं प्रविभज्य पेशीजन्यज्ञानादिषु सरलतमेषु निर्विकल्पंकज्ञानविशेषेषु ज्ञानरूपतया व्याख्यातुं शक्यते। संवेदना मनसो रागात्मिका वृत्तिः । अन्यच्च निर्विकल्पकं ज्ञानं तत्तदिन्द्रिय- सम्बन्धि ज्ञानं भवति, यथा - चाक्षुषमालोचनं चक्षुरिन्द्रियजन्यम्। उदरवेदनाज्ञानादिकमपि पेशीविशेषजन्यम्; किन्तु संवेदनं समग्रमानवस्य भवति । दुःखसंवेदनं नहि शरीरेन्द्रियविशेषजन्यम्। आलोचनमिन्द्रियविशेषव्यापारतया प्रत्यक्षरूपं भवति, नहि तथा संवेदनम्। यद् दुःखं तत्तु निखिलमानवस्यैकीभूतस्य । नहि संवेदनं मानसप्रत्यक्षेण तथा ग्रहीतुं शक्यते, यथालोचनं ज्ञानम् । मानसे प्रत्यक्षे सति संवेदनस्य दुःखादिरूपमपि विनिवर्तते प्राय: । मानसप्रत्यक्षविषयीभूतं संवेदनं शान्तमिवोदासीनमिव चावतिष्ठते । मानसप्रत्यक्षेण संवेदनजनकपरिस्थितिविशेषा उद्घाट्यन्ते।

महर्षिगौतममतम्[सम्पादयतु]

“बाधनालक्षणं दुःखम्” इति गौतममहर्षिः [३] । बाधना पीडा, तदेव लक्षणं यस्य तदित्यर्थः। दुःखं तु मनसैव गृह्यते। न्यायनये जीवमात्रवृत्ति चेति विज्ञेयम्। सांख्यमतानुसारम्–“सुखदुःखादिकं चित्तधर्मः” इति बोद्धव्यम् । सुखदुःखादिकं प्रत्यात्मवेदनीयं भवति । न्यायशास्त्रवेदान्तयोरस्ति हि भेदः । न्यायमत आत्मनिष्ठस्य सुखादेः शरीरनिष्ठत्वेनोपलभ्भः, शरीरस्य सुखाद्यधिकरणतावच्छेदकत्वात्। किन्तु शाङ्करवेदान्तानुसारम्–“नहि सुखादीनामन्त:करणावच्छिन्नचैतन्यनिष्ठाविद्याकार्यत्वप्रयुक्तम् ‘अहं सुखी' इति ज्ञानम्। सुखादीनां शुद्धचैतन्य एव अध्यासात्” इति। शुद्धचैतन्याश्रिता- विद्याकार्यं सुखदुःखादिकमित्यवसेयम्। अत एव सुखदुःखादिकं केवलसाक्षिवेद्यमित्यायातं भवति ।

संवेदनविषयकमतानि[सम्पादयतु]

केषाञ्चन मनोवैज्ञानिकानां मते सुखदुःखसंवेदने नहि मौलिकाविश्लेष्यमनोव्यापार- रूपे; अपि तु ते अत्रापि विश्लेषणार्हे, जटिलरूपे चेति । तदनुसारं ते संवेदने सरलतरैर्व्यापार- विशेषैरनुव्याख्यातुं प्रयतेते। वयमत्र आलोचनात्मकज्ञानात्मकं मतम्, प्राणिविज्ञानात्मकं मतं चेति मतद्वयं विचारयिष्यामः ।

आलोचनज्ञानात्मकं मतम्[सम्पादयतु]

केचन विद्वांसोऽभिमन्यन्ते यद्धि संवेदनं जटिलरूपं भवति । तस्य च विश्लेषणं सरलतमेषु मनोव्यापारघटकेषु कर्तुं शक्यत इति । तदनुसारं संवेदनमालोचनापरनामधेय- मित्यालोचनात्मकवादेन प्रतिपाद्यते । संवेदनमिति जटिलमनोव्यापारः, यस्य रूपं शरीरेन्द्रिय- जन्येनालोचनज्ञानेन पेशीजन्येनालोचनज्ञानेन चाभिनिर्वर्तते । एतेषां विदुषां मते सर्वं ज्ञानं सर्वे मानसिका व्यापारा अन्ततोगत्वा आलोचनज्ञानप्रकारविशेषाः, किं वा आलोचन- ज्ञानरूपमौलिकघटकेभ्यो विनिम्मिता भवन्ति । अत्रेदं स्मर्तव्यं यद्धि संज्ञावाहिनाडीकन्दाणुकानां समुत्तेजनानन्तरं नूनं संवेदनं सुखदुःखाद्यनुभूतिरूपमनुभूयते; किन्तु तस्मान्नैतदायाति यत्संवेदनमित्यालोचनप्रत्यक्षरूपम्। मानसप्रत्यक्षेण संवेदनाया रूपमालोचनप्रत्यक्षव्यावृत्तं सुस्पष्टं सरलतममविश्लेष्यं निष्पन्नं भवतीति । अत एव संवेदनमालोचनज्ञानभिन्नं मानसव्यापाररूपमिति वयं मन्यामहे ।

आलपोर्टमहोदयाः [४] संवेदनं स्वतन्त्रपरिस्वतन्त्रनाडीमण्डलक्रियानिबन्धन- मित्युद्भावयन्ति। सुखसंवेदनं दुःखसंवेदनप्रतिकूलमित्यनेन प्रतिफलति यदेतत्सर्वं परस्परविरोधिव्यापाराभ्यां स्वतन्त्रपरिस्वतन्त्रनाडीमण्डलाभ्यां जायते । तथा हि स्वतन्त्र - नाडीमण्डलक्रियातिशयजन्या दुःखानुभूतयो भवन्ति, सुखानुभूतयश्च परिस्वतन्त्रनाडी- मण्डलस्य क्रियातिशयेन। मनोरञ्जकं हि नूनमालपोर्टमहोदयानामिदं मतं सारगर्भितमपि भवितुमर्हति। तथापीदं त्व॑स्मान् प्रतिभाति यद्धि स्वास्थ्यप्रदाः क्रियाः स्वाभाविकक्रिया- वेगनिर्बाधिकाः सुखानुभूतिजनिका भवन्ति । शारीरिकस्वास्थ्यसन्तुलनविनाशिका अभीष्टक्रियावेगाधिकाश्च क्रिया दुःखानुभूतिसहकृता भवन्ति । एतावता सुखानुभूतिर्वै स्वतन्त्रपरिस्वतन्त्रनाडीमण्डलयोः क्रियासन्तुलनोद्भवा क्रियासामञ्जस्यजन्या वेत्यवदातमेव सर्वम्। दुःखानुभूतिश्चैतयोरन्यतरस्य क्रियातिशयेन क्रियाहासेन वा सञ्जायते।

प्राणिविज्ञानात्मकं मतम्[सम्पादयतु]

प्राणिविज्ञानात्मकमतानुसारमिदं प्रतिपाद्यते यद्धि स्वास्थ्यप्रदक्रियाजन्यं सुखम्, स्वास्थ्याहितकरक्रियाप्रभवञ्च दुःखमिति । दृश्यते चेदं लोके यच्छारीरिकरोगादयः प्रायो दुःखावहाः। शारीरिकमानसिकस्वास्थ्यकराणि कर्माणि सुखप्रदानीत्यनुभूयते । यदि हि नूनं कष्टप्रदाः क्रियाः प्राणधारणोपयोगिन्योऽभविष्यस्तर्हि सर्वेषां प्राणिनामचिरेण विनाशोऽप्यभविष्यत्। अत एव विधातुः कौशलमिदं यत् सर्वा जीवनधारणाय योग- क्षेमकराः क्रियाः प्रायेण सुखावहा इति ।

उपर्युक्तं मतं शारीरिकसुखदुःखाद्यनुभूतिमभिप्रेत्य विशेषेण सार्थकं भवति । ‘प्रायेण' इति पदमत्रास्माभिः साकूतं सन्निवेशितम्। न वयं नियमरूपेणेदं प्रतिपादयितुमर्हा यद् व्यक्तेः सर्वाः सुखप्रदाः क्रियाः प्राणिविज्ञानाभिमतरीत्या हितावहाः, प्राणधारणक्षमा इति यावत्। विशेषतोऽभ्यस्तक्रियास्वर्जिताभिरुचिप्रवर्तमानासु क्रियासु नैतिकादर्शानुप्राणितमानवानां सद्वृत्तेषु. च वयं प्राणिविज्ञानात्मकं संवेदनस्वरूपमतमवितथं न लभामहे । धूम्रपानसेवनं हि खल्वभ्यस्ता क्रिया फुफ्फुसव्याधिरक्तविकारादिजनिका; तथापि चिरसेविता साभ्यस्ता क्रिया प्राणिविज्ञानरीत्या स्वास्थ्याहितकरापि व्यक्तिमानन्दयत्येव। चलचित्रदर्शनोत्सुको मानवोऽनुदिनमचाक्षुष्यं चलचित्रदर्शनं दृष्ट्वा सुखं संवेत्ति, अनुभवति वा। चलचित्रदर्शनमहरहः शारीरिकसामाजिकार्थिकमानसिकहितनाशकं सदपि सुखोत्पादकम्। विषपानं प्राणिविज्ञानात्मकमतरीत्या विप्रदुष्टमपि सत्यनिष्ठाय दार्शनिकपुङ्गवाय यवनदेशीयमहामुनिसुकरातमहोदयायारोचत, किन्तु क्रीटोनामधेय - शिष्यानुज्ञातमपि कारावासवातायनद्वारेण पलायनं जीवितयोगक्षेमकरमपि नहि तस्मा अरोचत । पुण्यचरितानां कृतीनां स्वजीवनादपि कीर्तिरक्षणं वरीयो भवति । तदुक्तं हि भगवता श्रीकृष्णेन श्रीमद्भगवद्गीतायामर्जुनमभिसम्बोध्य-

"सम्भावितस्य चाकीर्तिर्मरणादतिरिच्यते' इति । [५]

अन्यच्च, रघुकुलतिलकेन भगवता रामचन्द्रेणाप्युक्तम्-

स्नेहं दयां च सौख्यं च यदि वा जानकीमपि।

आराधनाय लोकानां मुञ्चतो नास्ति मे व्यथा ॥ इति । [६]

सुखं दुःखञ्चेति मानसिकसंवेदनात्मिकानुभूतिः प्राणिविज्ञानाभिमता शारीरिक- स्वास्थ्यकरापि क्रियानभीष्टत्वान्नहि सुखावहा कदापि भवितुमर्हति । अवमानपुरस्कृत- ममृतमपि सद्भिरत एव त्याज्यं भवति। अतः प्राणिविज्ञानात्मकं संवेदनस्वरूपमधिकृत्य प्रवृत्तं मतमंशत एव सत्यत्वेन ग्राह्यम्। तस्य नियमरूपत्वं तु मानसिकव्यापारजाटिल्याद् दूरमपास्तम्।

मिश्रितसंवेदना:[सम्पादयतु]

नन,किं सुखदुःखे परस्परमितरेतरव्यावृत्तलक्षणे ? किमुत ते सम्भूयैकस्मिन्ननुभवे मिश्रीभवतः? नहि कोऽपि मानसिकोऽनुभवः संवेदनविधुरो वर्तते ? तदुक्तं हि भरतमुनिना- “न रसादृते कश्चिदर्थः प्रवर्तते” इति । प्रत्येकं तर्ह्यनुभवविशेषः सुखानुषिक्तो दुःखानुलिप्तो वा भवति; किन्तु किमेकस्मिन्नपि खल्वनुभवविशेषे सुखं दुःखं च द्वे एव मिश्रीभावेन वर्तेते? सामान्यत इदं वक्तुं शक्यते यद्धि प्रायः प्रत्येकमेवानुभवस्यैकः सुखात्मक पक्षो वर्तते, अपरश्च दुःखात्मक इति । यथा यदा किञ्चन मित्रं समागच्छति, तस्य बालसखस्य शुभागमनं वै हर्षोत्पादकम्; किन्तु तस्यार्थविषयिकाभ्यर्थना स्वकीयविवशताऽ- सामर्थ्यं च तद्विषये वारं वारं दुःखाकरोत्यस्मान्।

अतो वयं ब्रूमः - अनुभवाङ्गविशेषमादायेदं वक्तुं शक्यते यदेकोऽनुभवविशेषः सुखात्मको दुःखात्मको वा भवति; किन्तु सोऽनुभव- विशेषः किञ्चित् क्षणं यावदवतिष्ठते । नहि कश्चन चेतनानुभवः सरलरूपो भवति। प्रायस्तत्र महाजाटिल्यमनुप्रविशति । अत एव यद्यपि सुखदुःखे परस्परमितरेतरव्यावृत्तलक्षणे वर्तेते, तथापि जटिलरूपेषूपलभ्यमानानुभवेषु तयोः सम्भिन्नं मिश्रितं वा रूपमुपलभ्यते। सामान्यानुभवस्याङ्गविशेषमधिकृत्यैव वयं तस्य दुःखात्मकत्वं सुखात्मकत्वं वा विनिर्णेतुं शक्नुम इति । निखिलानुभवेऽपि कश्चन सांवेदनिकप्रभावो विद्यते, येनानुरञ्जितानि सर्वाण्येव सुहृन्मिलनस्मृतिप्रभृतीनि खल्वनुभवाङ्गानि भवन्ति । केषां केषां प्रत्ययसम्बन्धानामुद्बोधनं तदा सम्पद्यते ? इति सर्वमेव तत्सांवेदनिकप्रभावायत्तं बोद्धव्यम्। अथवा कः सांवेदनिकः प्रभावो निखिलानुभवस्य भविष्यति ? इति तदानीन्तनस्मृति- विचारादिप्रत्ययसम्बन्धान् व्यपाश्रित्य वर्तते; परन्तु तत्तत्क्षणे ये ये त्वनुभवाङ्गविशेषा ध्यानैकविषयीभूता जायन्ते, ते ते दुःखात्मका सुखात्मका वेति पृथक् पृथगनुभूयन्ते । सांवेदनिकः प्रभावः सामान्यः साधारणो वा भवति । सुखदुःखादिविशेषानुभवश्च गभीरतरः, तत्तत्क्षणस्थायी, स्पष्टतरश्च भवतीति बोद्धव्यम्।

संवेगस्वरूपम्[सम्पादयतु]

चतुर्थेऽध्यायेऽस्माभिर्मूलप्रवृत्तिस्वरूपविवेचनावसरे संवेगस्य तदङ्गत्वेन वर्णनं कृतम्। संवेगे समुत्पन्ने मूलप्रवृत्तिरुदेति । नहि संवेगमन्तरा मूलप्रवृत्तिर्जायते । संवेगानुभवनं च वस्तूपलब्ध्यपेक्षं भवति । कदाचन प्रत्ययैः स्मृतिरूपैरपि संवेगाः समुत्पाद्यन्ते । संवेगो नाम ‘सङ्क्षोभ:' इति । येनायं पुरुषः क्षुभ्यते, यथा क्रोधेन, रागेण, वात्सल्येन वा, स एव सङ्क्षोभः 'संवेगः' इति व्यपदेशेन अर्वाचीने मनोविज्ञाने प्रथते, स च व्यभिचारिभावरूपः। प्राग्वर्णितमस्माभिर्यथा एकस्या मूलप्रवृत्तेः संवेगविशेषेण सह साहचर्य्यसम्बन्धों विद्यते । संवेगान् समारुह्य मूलप्रवृत्तिरूपा वेगाः प्रवर्तन्ते ।

नहि संवेदनमेव संवेगः । संवेदनं सरलतमश्चेतनव्यापारः । संवेगो वै जटिलतमो मानसव्यापारः, यस्मिन् संवेदनमपि तदङ्गत्वेनानुप्रविशति । संवेगाः संवेदनापेक्षया जटिलतरा भवन्ति। उदाहरणरूपेण भयं क्रोधो वात्सल्यं च संवेगाः । संवेगा नूनं प्रत्यात्मवेदनीया अनुभवविशेषाः । मानसप्रत्यक्षेण तेषां ज्ञानं जायते । भयं क्रोधश्च द्वावेव दुःखात्मकौ; किन्तु भय़ानुभवः क्रोधानुभवाद् भिद्यते । दुःखलेशे विद्यमानेऽपि समाने क्रोधस्य भयाद् विशेषो वर्तते। ततः संवेदनसंवेगौ समानार्थकाविति न वाच्यम्। संवेदनापेक्षया संवेगः प्रौढौ जटिलश्च मानसानुभवो भवति ।

नहि संवेगस्य ज्ञानपक्षेऽन्तर्भावः कर्तुं शक्यत इति वाच्यम्। वस्तुस्वरूपाव- धारणात्मकं ज्ञानम्। नापि संवेगः कृतिरेवेति वाच्यम् । प्रयतनं नाम चैतन्यव्यापारं वयमग्रेऽनुव्याख्यास्यामः। प्रयत्ने वक्ष्यमाणे मानसव्यापारविशेषे पदार्थविशेषमुपादातुं हातुं प्रवृत्तिरिच्छाभिलाषो वा विद्यते; किन्तु ज्ञानप्रयत्नाभ्यामुभाभ्यां विलक्षण एव संवेगाख्यभावरूपो मानसव्यापारविशेषः, यस्मिन् समुत्पन्ने प्राणी आभ्यन्तरं कञ्चन सङ्क्षोभमनुभवति, शरीरावयवेष्वपि कम्पनवैवर्ण्यरोमाञ्चादिकमनुभवति, हर्षशोकादिक- मनुभवति, सुखदुःखादिकं संवेत्ति । इमे संवेगाः साहित्यशास्त्रेऽर्वाचीनमनोविज्ञाने च ‘भावा:' इति पदेन व्यपदिश्यन्ते, तथापि काव्यशास्त्रमनोविज्ञानयोः भावस्थायिभावादि- स्वरूपमादाय किञ्चित् सुसूक्ष्ममन्तरं वर्तते, तद्वयमग्रेऽनुव्याख्यास्यामः।

भावादिस्वरूपविवेचनम्[सम्पादयतु]

संस्कृतवाङ्मये भावादिमनोविकाराणामतीव रमणीयं व्याख्यानं समुपलभ्यते । अत: स्थाने हि तद्विवेचनमग्रिमविवेचनसौकर्य्याय । विशेषतो मनोविज्ञानाभिमतं स्थायिभावादिस्वरूपं तेन विस्पष्टं भविष्यति । भावो नाम मनसो विकारः । भावा द्विविधा भवन्ति-स्थायिभावाः, व्यभिचारिभावाश्च । अनादिकालादात्मनि वासनारूपेण ये तिष्ठन्ति, ते स्थायिभावाः । प्रत्येकरसेन सहैकैकस्य स्थायिभावस्य परिणामरूपः कार्यकारणभावसम्बन्धो भवति । कारणसामग्र्यां समुपस्थितायामेव रसनिष्पत्तिर्जायते । तदुक्तं भरतमुनिना नाट्यशास्त्रे-“ विभावानुभावव्यभिचारिभावसंयोगाद्रसनिष्पत्तिः "" इति ।

तत्र स्थायिभावा अष्टसंख्याका नवसंख्याका वा भवन्ति । तदुक्तं विश्वनाथेन -

शृङ्गारहास्यकरुणरौद्रवीरभयानकाः ।

बीभत्सोऽद्भुत इत्यष्टौ रसाः शान्तस्तथा मतः ॥ इति । [७]

स्थायिभावनामानि तदनुबन्धिरसनामानि
रतिः शृङ्गाररसः
हास: हास्यरसः
शोक: करुणरसः
क्रोधः रौद्ररसः
उत्साहः वीररसः
भयम् भयानकरसः
जुगुप्सा (घृणा) बीभत्सरसः
विस्मयः अद्भुतरसः
शमः शान्तरसः

तथा हि-

रतिर्हासश्च शोकश्च क्रोधोत्साहौ भयं तथा ।

जुगुप्सा विस्मयश्चेत्थमष्टौ प्रोक्ताः शमोऽपि च ॥

अत्रेदं स्मरणीयं यद्धि नवमो रसः श्रव्यकाव्य एव काव्यशास्त्रमर्मज्ञैरनुमोद्यते, न तु दृश्यकाव्येषु नाटकादिषु । अष्टौ रसाः स्थायिभावाश्च सर्वैरेवाङ्गीक्रियन्ते । नवमरसस्य निर्वेदाख्यस्य शान्तरसस्य प्रतिपादने विप्रतिपत्तयः समुपलभ्यन्ते । निर्वेदोदाहरणम्-

अहौ वा हारे वा बलवति रिपौ वा सुहृदि वा

मणौ वा लोष्ठे वा कुसुमशयने वा दृषदि वा ।

तृणे वा स्त्रैणे वा मम समदृशो यान्ति दिवसाः

क्वचित् पुण्यारण्ये शिव शिव शिवेति प्रलपतः ॥ [८]

अतो यत्तु वागीशा: “अष्टाविति नाट्याभिप्रायेण शान्तस्य नाट्ये तादृक्पुष्टिविरहात्, तदुक्तम्- अष्टौ नाट्ये रसाः स्मृताः” । इति वदन्ति, तन्न विचारसहम्, “राजानकमम्मटाचार्यौ ‘अष्टौ नाट्ये रसाः स्मृताः' इत्युपक्रम्य 'शान्तोऽपि नवमो रसः' इत्युपसंहृतवन्तौ” इति तद्विरोधस्य स्पष्टत्वात्।

ननु को नाम भावः ? तदुक्तं वै भरतमुनिना -

यथा बीजाद् भवेद् वृक्षो वृक्षात् पुष्पं फलं यथा ।

तथा मूलं रसाः सर्वे तेषु भावाः व्यवस्थिताः ॥

विभावेनाहृतो योऽर्थस्त्वनुभावेन गम्यते ।

वागङ्गसत्त्वाभिनयैः स भाव इति संज्ञितः ॥

वागङ्गमुखरागैश्च सत्त्वेनाभिनयेन च।

कवेरन्तर्गतं भावं भावयन् भाव उच्यते ॥ इति ।

भावयति सामाजिकमनोवृत्ती: सुखदुःखादिरूपेण परिणमयतीति व्युत्पत्तिलभ्यो भावः। तदुक्तं विश्वनाथकविराजेन-

“सुखदुःखादिभिर्भावैर्भावस्तद्भावभावनम्' ॥ इति । [९]

ननु किं नाम विभावानुभावाविति ? 'विभाव:' इति स्थायिभावस्य कारणम्। 'अनुभावः' इति च स्थायिभावस्य कार्यम् । नहि तावत् स्थायिभावा: रसानुभवितुश्चेतसि पूर्णतोऽभिव्यक्तिं लभन्ते, यावन्न तेषां कार्यकारणसहकारिणां मधुरं सम्मिलनमभिनिर्वर्तेत । द्विविधं हि खलु रत्यादिस्थायिभावस्य कारणं भवति - आलम्बनकारणम्, उद्दीपनकारणञ्चेति। आलम्बनं तु स्थायिभावस्याधारभूतं कारणम्, तद्विना नहि स्थायिभावोन्मेषो जायते, यथा-रतिस्थायिभावस्यालम्बनं सुन्दरी स्त्री भवति । उद्दीपनमपरं कारणं रत्यादिस्थायिभाव- मुद्दीप्तं करोति। यथा हि हिमकरोपवनसुरभितपवनादिकम्। यथा ह्युद्दीपनकारणै रतिस्थायि- भावैरुद्दीप्त उद्बोधितो वा जायते, तदा केचन स्वेदस्तम्भरोमाञ्चस्वरभङ्गादयः कायिक विकारा:, मोहासूयाचिन्तास्मृतिव्रीडादयो मानसिकाश्च विकाराः प्राकट्यं लभन्ते । तत्रालम्बनं स्थायिभावकारणम्। तदेव ' विभाव' पदेन व्यपदिश्यते । उद्दीपनं 'विभावः' इत्युच्यते, तच्च बाह्यं कारणं भवति ।

सहकारीणि स्थायिभावकारणानि तान्येव भवितुमर्हन्ति यान्यन्तःकरणवृत्तिरूपाणि यथा निर्वेदग्लानिशङ्काख्या अन्तःकरणधर्माः । एतदेवान्तर- मुद्दीपनसहकारिकारणयोर्भवतीति विभाव्यम्। तान्येव व्यभिचारिकारणानीति निगद्यन्ते । एवम्प्रकारेण कार्यकारणसहकारिकारणसामग्रीसमुपस्थितौ स्थायिभावोऽपि तत्तद्रसरूपेण तथैव परिणमते, यथा-दुग्धं कारणजाते समुपस्थिते दधिरूपेण परिणमते। स्थायिभावस्य रसरूपेण परिणतौ विभावानुभावव्यभिचारिभावानां संयोग एव कारणसामग्री ।

स च विभावानुभावव्यभिचारिभावसंयोगो रसगङ्गाधरकारैरेकादशप्रकार- विशेषोऽनुव्याख्यातः। मम्मटाचार्य्यैस्तु चतुर्धा । अभिनवगुप्तपादमम्मटाचार्य्यास्तु व्यङ्गय- व्यञ्जकभावरूप एव तत्संयोग इत्यभिमन्यन्ते । अर्थाद् विभावादीनां परस्परं सम्बन्ध एव रसोन्मेषाभिव्यञ्जक इति । अत्र 'रसो वै व्यङ्ग्यः' इत्यवसेयम्। तदिदमभिनवगुप्तपाद- मम्मटाचार्याणां मतम् ‘अभिव्यञ्जनावाद:' इति व्यपदेशेन संस्कृतसाहित्यशास्त्रे प्रथते। आलङ्कारिकैर्वैयाकरणैश्चाभिव्यञ्जनावादोऽयमाश्रीयते । अत्र विभावादयो व्यञ्जका अवगन्तव्याः । भट्टलोल्लटाचार्यास्तेषामनुयायिनश्चोत्पत्तिवादमङ्गीकुर्वन्ति। तेषां मते रसोत्पत्तिर्जन्यजनकभावरूप- संयोगेनाभिनिष्पद्यते। विभावादयो जनकाः, रसश्च जन्य इत्यवधार्यम् ।

मीमांसकैरपीदं मतमनुमोद्यते। श्रीशङ्कुकाचार्य्यास्तेषामनुयायिनश्च भरतोक्तसूत्रान्तर्गतं रसनिष्पत्तिरिति पदं रसानुमितिपरतया व्याचक्षते । अत्र संयोगो गम्यगमकभावरूपः। सोऽयमनुमितिवादो नैयायिकैरपि समर्थितः। भट्टनायकाचार्य्यास्तु संयोगपदस्य भोज्यभोजकभावपरमनुव्याख्यानं स्वीकृत्य भुक्तिवादाख्यं मतं प्रतिपादयन्ति । सोऽयं वादः सांख्याचार्यैरप्यनुमोद्यते । एतेषु सर्वेषु वादेष्वभिव्यञ्जनावाद एव साधीयान् इत्यस्माकं मतम्।

तत्र के के सञ्चारिभावा व्यभिचारिभावा इति यावद् भवन्ति ? तदुक्तं वै विश्वनाथकविराजेन-

निर्वेदावेगदैन्य श्रममदजडता औग्र्यमोहौ विबोधः

स्वप्नापस्मारगर्वा मरणमलसतामर्षनिद्रावहित्थाः।

औत्सुक्योन्मादशङ्काः स्मृतिमतिसहिता व्याधिसन्त्रासलज्जा

हर्षासूयाविषादाः सधृतिचपलता ग्लानिचिन्तावितर्काः ॥ इति । [१०]

उपर्युक्तप्रकारेण त्रयस्त्रिंशत्सङ्ख्याका हि खलु सञ्चारिभावाः । स्थायिनि भावे कदाचिदुन्मग्ना जलबुद्बुदवत् झटिति प्रतीयमानत्वेन प्रादुर्भूताः, निर्मग्ना जलबुद्बुदवच्च कदाचनाप्रतीयमाना भावा व्यभिचारिणः कथ्यन्त इति शेषः । अन्यच्च, विभावानुभावापेक्षया विशेषेण रसपुष्टिजनकभावत्वं व्यभिचारित्वमिति लक्षणं फलितम्। तदुक्तं विश्वनाथेन-

विशेषादाभिमुख्येन चरणाद् व्यभिचारिणः।

स्थायिन्युन्मग्ननिर्मग्नास्त्रयस्त्रिंशच्च तद्भिदा ॥ इति। [११]

भावास्तर्हि द्विविधा भवन्ति - स्थायिभावाः, व्यभिचारिभावाश्चेति ।

ननु कथं रसाभिव्यक्तिर्निष्पद्यते ? अत्रोच्यते रसगङ्गाधरकारै:- “भग्नावरणचिद्- विशिष्टरत्यादिस्थायिभावो रसः " । नहि विभावादिसंयोगस्तावत् स्थायिभावेन सह रसोन्मेषाय कल्पते, यावन्नाविद्यावरणभङ्गो जायेत । अज्ञानावृतं यत् शुद्धं चैतन्यं विभावानुभावादिद्वारा काव्यभावनमज्ञानावरणभङ्गं सम्पाद्य स्वयं प्रकाशते, रत्यादिकाँश्च रसभावेन प्रकाशितान् करोति । अत एवोच्यते आलङ्कारिकैः- “साक्षिभास्यो वै रसः” । रत्यादिप्रकाश एव रसः ।

जेम्सलैङ्गमतम्[सम्पादयतु]

भावसंवेगौ ह्यर्वाचीनमनोविज्ञाने पर्यायवाचकौ शब्दाविति वर्णितपूर्वम्। सम्प्रति वयं भावाभिव्यक्तिस्वरूपमधिकृत्य जेम्सलैङ्गमतमनुव्याख्यास्यामः। संवेगनिरूपकं विश्वविश्रुतं मतमिदममेरिकनदेशीयमनोवैज्ञानिकप्रवरैर्जेम्समहोदयैः डेनमार्कदेशीयशारीरविज्ञान- वेत्तृभिर्लेङ्गमहाशयैश्च स्वतन्त्रतया प्रतिपादितत्वाद् जेम्सलैङ्गमतमिति समाख्यां भजते । तयोर्मूलभूतौ निबन्धौ डनलपनाइटमहोदयानां 'संवेगा:' इत्याख्यग्रन्थे [१२] समुपलभ्येते । सामान्यतो जना मन्यन्ते यद्वयं प्रथमं संवेगजनकं वस्तु पश्यामः, तदनन्तरं तद्विषये कञ्चिद् भावविशेषं संवेगविशेषमिति यावदनुभवामः, तदनन्तरं तत्प्रतिक्रियारूपेण व्यवहरामः। यथा-वृकं वने दृष्ट्वा वयं भयमनुभवामः ततश्च पलायनरूपां प्रतिक्रियामाचरामः। जेम्मलैङ्गमहोदयौ त्विमं क्रमं परिवर्तेते । तन्मते वृकदर्शनानन्तरं पलायनरूपा प्रतिक्रिया जायते, ततश्चोदेति मानसिकाङ्गिकप्रतिक्रियारूपसङ्क्षोभात्मको भयसंज्ञको भावः। जेम्समते, "वयं भयान्विताः, यतो हि वयं पलायनं कुर्मः, वयं क्रुद्धा:, यतो हि वयं ताडयामः” ।

अत्र 'संवेग' इति शारीरिकमानसिकप्रतिक्रियाणां ज्ञानाभिन्नम्। प्राध्यापकविलियमजेम्समहोदयः स्वकीयं मतमित्थं व्याचष्टे - " अस्माकं मतानुसारं बाह्योत्तेजकं वस्तु दृष्ट्वा शारीरिकपरिवर्तनान्यभिनिर्वर्तन्ते, तेषाञ्च परिवर्तनानां यथाभूतानां संवेदनमेव संवेगः । सामान्यतो व्यावहारिकबुद्धयो ब्रुवन्ति - सम्पत्तौ विनष्टायां सत्यां शोकविद्धा वयं भवामः, अपि च, क्रन्दाम:, ऋक्षे समुपस्थिते वयं भीत्वा धावामः, प्रतिद्वन्द्विनावमानिता वयं क्रुद्धा भवामः; अपि च, ताडयामः । नूनमधिकं बुद्धिसङ्गतं व्याख्यानमिदं भवितुमर्हति यद्वयं क्रन्दनात् शोकाभिभूता भवामः, ताडनाद्धि वयं क्रुद्धाः, प्रकम्पनाद् वयं भीता भवामः । नेदं वाच्यं यद्वयं शोकात् क्रन्दामः, क्रोधात् ताडयामः, भयाद् वेपथुमनुभवामः । प्रत्यक्षानन्तरं शारीरिकपरिवर्तनान्यन्तरा, प्रत्यक्षं नूनं विशुद्धं ज्ञानरूपं वर्णहीनं भावोष्मविनिर्मुक्तं चावतिष्ठते” इति। [१३]  

जेम्समहोदयैर्यैयैर्हेतुभिः स्वपक्षस्थापनं साधितम्, तान् वयमिदानीमनु- व्याख्यास्यामः। [१४] यदि चेत् संवेगविशेषस्य सकलशीरीरिकाङ्गिकविचेष्टाविरहितं रूपमुपलब्धं भवेत्तर्हि तन्नूनं भावरूपं संवेगात्मकं वा न भविष्यति, अपि तु निष्पन्दबौद्धिकनिर्णयमात्रमेव। उदाहरणतो यदि मृगेन्द्रे समुपस्थिते मदीया मुखाकृतिर्विवर्णतां नापद्यते, नापि च मम हृद्गतिरेव वर्धते, भयाद् रोमाञ्चितेन सता मया पलायनमपि नाश्रीयतें, तर्हि सिंहदर्शनेन कोऽपि भयसंवेगरूपो भावविकारो नोत्पादितः ।

पारिशेष्यात् 'सिंहोऽस्ति' इति केवलं ज्ञानात्मकं वाक्यं सिद्ध्यति, न त्विदं भयात्मकं भावरूपमभिव्यनक्ति। सुतरां तर्हि वैवर्ण्यहृद्गतिवर्धनरोमाञ्चमुख-परिशोषपलायनादि-शारीरिकाङ्गिकविकारजातेनैव भवरूपसंवेगानुभूतिर्जायते । एतेभ्यो विभावाख्यशारीरिकविकारेभ्य ऋते भयरूपमपि नोपलभ्यते। अतो जेम्समहोदयैर्निणीयते यद्धि सिंहदर्शनं विजने कान्तारे प्रथमं शारीरिकाङ्गिकविचेष्टा जनयति, ततश्च जायते भयसंवेगः, किं वा ता एव 'भयसंवेगः ' इति व्यपदिश्यन्ते।

अन्यच्च, जेम्समहोदया मन्यन्ते यद्धि कस्यचिद् भावविशेषस्य शारीरिकाङ्गिक- विकाराणां कृत्रिमोत्पादनेन वयं तद्भावभाविता भवितुमर्हामः । उत्तेजकपरिस्थितिं विनापि केवलं शारीरिकविकारजातस्य कृत्रिमोत्पादनेन संवेगविशेषानुभूतिर्जायते । चलचित्रतारिका अभिनेतारश्च क्रोधशोकमोहोपयुक्तविभावाभिव्यञ्जनेन तत्तद्भावभाविताः क्रोधशोकमोहादि- संवेगानुभवं कुर्वन्ति। अतः शारीरिकाङ्गिकविकारमात्ररूपाः संवेगा इति तेषां तात्पर्यम्।

अन्यच्च, मद्यादिकानुसेवनेन हर्षोत्साहवर्धनं जायते । अतः शारीरिकविक्रिया: संवेगमूलमिति सिद्धम्।

किञ्च, शारीरिकविकारजन्याः केचन भावविशेषा भवन्ति । ये यथा-यकृद्विकारजातेन वैवर्यौदासीन्यक्रोधित्वादिभावविशेषाः सम्भवन्ति । नाडीजन्यविकारैर्भयनैराश्यादिभावाः समुत्पद्यन्ते। विषयविहीनेषु संवेगेष्वसामान्यविकारपेषु शारीरिकरोगादिप्रभावः सँल्लक्ष्यते। उन्मादग्रस्तानां रोगिणां नूनं विषयविहीनाः संवेगा दृष्टिगोचरा भवन्ति । तन्मूलं शारीरिक- विकाराः। अतः शारीरिकविकारमूला: क्रोधरागादिसंवेगा इति जेम्समहोदयानामभिसन्धिः ।

अस्ति हि लैङ्गमहोदयानां जेम्समहोदयेभ्य एको विशेषः । जेम्समहोदयानां मते मस्तुलुङ्गीयशारीरिकविक्रियाणां प्राधान्यं वर्तते, किन्तु लैङ्गमहोदयानां मते संवेगे रक्तवाहिसंस्थानविक्रियाणामेव प्राधान्यम्। विविधशरीरावयवेषु सहजक्रियाजन्या रक्ताधिक्य- ह्रासरूपा विकाराः, तत्समुद्भूतानि च विविधशरीराङ्गानां परिवर्तनानि भवन्ति ।

एतद्रक्त- संस्थानशरीरावयवचेष्टाव्यतिरिक्तः कोऽपि संवेगाख्यो मानसिकविकारो नास्ति । वस्तु-प्रत्यक्षानन्तरं किमपि सुखदुःखादिसंवेदनं संवेगस्वरूपनिर्धारणेनानुप्रविशति, अतो लैङ्गमहोदयमतानुसारं भावो नाम संवेदनांशविरहितविविधशरीरावयवविचेष्टानां पेशी - समुद्भूतालोचनज्ञानानाञ्च पुञ्जीभावः। तेनोक्तं हि खलु 'अस्माकं सुखदुःखहर्षशोकादि- निखिलमानसिकभावात्मकानुभवेभ्यो रक्तचेष्टावाहिसंस्थानमेव धन्यवादान् अर्हति’ [१५] इति।

जेम्सलैङ्गमतसमालोचनम्[सम्पादयतु]

नैतन्मतं समीचीनम्। चित्रतारिकाणां साक्ष्यं द्विविधमेवोपलभ्यते। केचन अभिनेतारोऽनुमोदन्ते यत्तेऽभिनीयमानभावविशेषमनुभवन्ति । अन्ये च नैतन्मतं स्वीकुर्वन्ति । तन्मते भावविशेषमभिनयन्तोऽपि ते नहि तद्भावभाविता जायन्ते, नहि तद्भावविशेषानुभवं कुर्वन्ति। अतो जेम्समहोदयानां द्वितीया युक्तिरनवद्येति न वाच्यम्, सावकाशत्वात्।

प्रथमो हेतुरपि जेम्समहोदयानां परीक्षकैर्न समादरेण स्वीक्रियते। शारीरिकाङ्गिक- विकारान् विहाय संवेगरूपं कल्पनापथं नैवावतरतीति तु निरवद्यम् । यदि हि खलु बाष्पनिरोधो भवेत्, नाडीमण्डले रक्तप्रवाहहासो न जायेत,

हृदयस्फुटनाभावो देहबन्धस्रंसनाभावश्च भवेत्तर्हि शोकसंवेगोऽपि नोन्नेतु शक्यते। यथा हि-

हा ! हा ! देवि ! स्फुटति हृदयं स्रंसते देहबन्धः

शून्यं मन्ये जगदविरतज्वालमन्तर्ज्वलामि ।

सीदन्नन्धे तमसि विधुरो मज्जतीवान्तरामा

विष्वङमोहः स्थगयति कथं मन्दभाग्यः करोमि ॥ इति । [१६]

अत्रैतस्मिन्नुदाहरणे शारीरिकाङ्गिकप्रतिक्रियाजातं श्रीरामचन्द्रस्य शोकाभिव्यञ्जनाय दुर्निवारम्; किन्तु नैतावता प्राध्यापकजेम्समतस्य याथातथ्यमवधारणीयम् । जेम्समते शारीरिकाङ्गिकविक्रियाजातमेव संवेगः, अथवा शारीरिकविक्रियाणां ज्ञानमेव संवेगानुभूतिरिति, तत्तु नेष्टम् । नापि जेम्समहोदयोक्तहेतुना तत् साधयितुं शक्यते । मदीया शोकानुभूतिर्यदा जायते, तदा शोकानुभवनं बाष्पमुञ्चनश्वासावरोध-देहबन्धस्रंसनादि-शारीरिकविक्रियाणां ज्ञानमात्रमिति न वक्तुं शक्यते ।

शोकानुभूतिर्हि विशिष्टो मानसिको व्यापारः। नहि शोकमोहवात्सल्यक्रोधद्वेषेर्ष्यादिभावानां ज्ञानाख्ये मानसिके व्यापारेऽन्तर्भावः कर्तुं शक्यते । क्रोधे या या: शारीरिकविचेष्टा जायन्ते, तासां ज्ञानमेव संवेगो नास्ति । तासां विक्रियाणां समकालमेव ज्ञानविलक्षणः संक्षुब्धमनसो योऽनुभवः स एव 'संवेग : ' इति, ‘भावः’ इति वा व्यपदिश्यते । यदा तासां शारीरिकविचेष्टानामनुव्यवसायो जायते, तदा संवेगसङ्क्षोभपरिहाणिर्दृश्यते । एतावतापि संवेगस्वरूपवैलक्षण्यमुन्नेयं भवति। अन्यच्च, शारीरिकविक्रियाः संवेगसहचारिण्यो विक्रियाः । संवेगस्तु सङ्क्षोभात्मको विशिष्टो मानसिकोऽनुभवः। प्रायः संवेगस्य चरमां कोटिं व्यतीत्य तदनुव्यवसायो जायते।

किञ्च, जेम्समहोदयानामियं प्रतिज्ञाऽपि यद्धि शारीरिकविक्रिया: प्रत्यक्षमूला:, शारीरिकविक्रियानन्तरञ्च संवेगानुभूतिरुदेतीत्यपि नैव स्थाने । नहि जेम्समहोदयेन कोऽपि निर्णायकोऽनन्यथासिद्धो हेतु: प्रदत्तः, येनेदं साधयितुं शक्येत् यत् शारीरिकविचेष्टानन्तरं संवेगोत्पत्तिर्जायत इति। अतो लोकविश्रुतं मतं यद्धि प्रत्यक्षानन्तरं संवेगानुभूतिः, ततश्च विविधाः शारीरिकविक्रिया अभिव्यक्तिं लभन्त इति नासङ्गतं प्रतीयते ।

बाढम्, संवेगसहचारिविविधविकाराणां शरीरावयवानां सत्त्वं संवेगारम्भादेव स्फुटमस्फुटं वा विद्यत एव। प्राच्यसाहित्यकोविदानां मतेऽपि शारीरिकाङ्गिकविकारा भावकार्यत्वेनानु- व्याख्याताः। संवेगानुभवप्रकर्षह्रासव्यपेक्षाणि हि दृश्यन्ते विभावपरिवर्तनानि। शारीरिकविचेष्टानां मानसिकानुभवेन संवेगाख्येन साकं भूयिष्ठमितरेतरप्रभावोत्पादकत्वं हि खलु वर्तते, अनुभूयते चापि; किन्तु नैतावता कथमपि साधयितुं शक्यते यत् शारीरिकाङ्गिकविकारा मानसिकभावविशेषानुभूतकारणभूता इति । किं वा, मानसिकानु- भूतिः संवेगाख्या गौणत्वं भजत इति ।

किञ्च, शारीरिकविचेष्टानुभवसहकृता संवेगानुभूतिश्चलचित्रतारिकाभिनेत्रनुभववज्र- लेपायिता इति जेम्सप्रदत्तं विनिगमकमपि नातिचिरेण फल्गुतां भजते; यदीदं स्मरणीयं भवेद् यद्धि प्रयत्नसाध्या बुद्धिविचेष्टाव्यापारा:, न तु स्वतन्त्रपरिस्वतन्त्रविकीर्णान्तःस्राव- ग्रन्थिजन्याः क्रियाः प्रयत्नजातेन मस्तुलुङ्गायत्तेन साध्याः । संवेगे स्वतन्त्रपरिस्वतन्त्रनाडी- मण्डलान्तर्गतव्यापाराणामेव प्राधान्यं दृश्यते । अतो मनः सङ्क्षोभरूपा भावानुभूतिर्नहि शारीरिकविचेष्टानुकरणमात्रेण वर्णयितुं पारयितुं वा शक्यते । संवेगानुभवस्तु मानसिकानु-भूतिविशेष:, नहि तस्य कस्मिश्चिदप्यन्यस्मिन् मानसिकशारीरिकानुभवेऽन्तर्भावः कर्तुं शक्यते ।

प्राध्यापकप्रवराणां टिचनरमहोदयानां जेम्समतसमालोचनमतिरमणीयत्वात् स्फुटत्वाच्च अत्रोद्धृतं करिष्यते । तद्यथा - “ शरीरावयवजन्यलोचनज्ञानानि नूनमन्ततो गत्वा शारीरिकविचेष्टाजातमात्रम् । हृद्गतिवर्धनं नहि स्वतो भयसंवेगानुभूतिः । मुखरक्तिमवर्णत्वं नहि लज्जां सूचयति । सहायविधुरं निरीक्षणं यत् प्रकटीकरोति तत्तु संवेगशारीरिकचेष्टयोर्न गुणे, नाऽपि गभीरत्वे, नाप्यभिव्यक्तिकाले, न चापि समये नियतं साहचर्य्यं कथमपि भवति इति । [१७]

यदुक्तं जेम्समहोदयैर्निर्विषयान् संवेगानुभवान् प्रति, तदपि साम्प्रतं नास्ति । उन्मादपीडितानां संवेगानुभवा नहि निर्विषया भवन्ति । तत्तत्संवेगविषयाणां विवेचनं मनोविश्लेषणविशारदैर्यथा सम्पाद्यते, तथा वयमग्रेऽनुव्याख्यास्यामः । नहि तेषां संवेगानुभवाः शारीरिकरोगमात्रजाः । तेषां मूलं मानसिकद्वन्द्वे सङ्घर्षे वाऽन्वेष्टुमर्हम् । निखिलमेतत् खल्वद्यतने मनोविज्ञानतन्त्रे फ्रायडप्रभृतिभिर्मनोविश्लेषणविचक्षणैरत्यर्थं साफल्येनाविष्कृतम्। अन्यच्च, मद्यादिसेवनं परिस्थितिरूपत्वेनानुभावकत्वं भजते । तदपि नहि संवेगविशेषं जनयति, अपि तु संवेगविशेषानुकूलावसरं प्रदत्ते, तदनुकूलं चित्तवैशारद्यं तत्तदङ्गशैथिल्यञ्चाभिनिर्वर्तयतीति । अत एव जेम्सलैङ्गमतं समीचीनं नास्तीति निःसन्दिग्धं प्रतिपादयितुं शक्यते ।

भावस्थायिभावयोर्लक्षणम्[सम्पादयतु]

भावस्थायिभावलक्षणं प्राचीनसाहित्यशास्त्रार्वाचीनमनोविज्ञानोपबृंहितमत्र वयं विवृणुमः। प्राचीनैस्त्रयस्त्रिंशद्व्यभिचारिणः, अष्टौ स्थायिनः, अष्टौ सात्त्विकाश्चेत्येकोन-पञ्चाशद् भावाः प्रतिपादिता: । तत्र निर्वेदादयो व्यभिचारिणो भावास्त्रयस्त्रिंशद् निम्नलिखिता भवन्ति-

निर्वेदग्लानिशङ्काश्रमधृतिजडताहर्षदैन्यौग्र्यचिन्ता-

स्त्रासेर्ष्यामर्षगर्वाः स्मृतिमरणमदाः सुप्तनिद्राविबोधाः ।

व्रीडापस्मारमोहाः सुमतिरलसतावेगतर्कावहित्था:

व्याध्युन्मादौ विषादोत्सुकचपलयुतास्त्रिंशदेते त्रयश्च ॥ इति । [१८]

अत्र ‘अवहित्थम्’ लज्जाद्यैर्विक्रियागुप्ताववहित्थाङ्गविक्रिया। `यथा—

एवंवादिनि देवर्षो पार्श्वे पितुरधोमुखी ।

लीलाकमलपत्राणि गणयामास पार्वती ॥ इति ।

अथाष्टौ स्थायिभावाः -

विरुद्धैरविरुद्धैर्वा भावैर्विच्छिद्यते न यः ।

आत्मभावं नयत्यन्यान् स स्थायी लवणाकरः ॥

रत्युत्साहजुगुप्साः क्रोधो हासः स्मयो भयं शोकः ।

शममपि केचित् प्राहुः पुष्टिर्नाट्येषु नैतस्य ॥ इति । [१९]

अथाष्टौ सात्त्विका भावाः -  

स्तम्भप्रलयरोमाञ्चाः स्वेदो वैवर्ण्यवेपथू | |

अश्रु वैस्वर्यमित्यष्टौ स्तम्भोऽस्मिन्निष्क्रियाङ्गता ।

प्रलयो नष्टसंज्ञत्वं शेषाः सुव्यक्तलक्षणाः ॥ इति । [२०]

एते सात्त्विका भावा एव विभावाः । नहि ते 'संवेगाः' इत्यवसेयम्। व्यभिचारि- भावेष्वपि उन्मादापस्मारस्मृतितर्कसुप्तनिद्राशङ्काप्रभृतयो ये मनोव्यापाराः परिगणिताः, ते काव्यशास्त्रदृष्ट्या सिद्धान्तिता भवन्तु नाम; किन्तु मनोविज्ञानदृष्ट्या तेषां मनोव्यापाराणां स्वतः सिद्धत्वादन्यत्र वर्णितत्वाच्चास्मिन्नेव ग्रन्थे नैव संवेगेष्वन्तर्भावः कर्तुं शक्यते ।

अपस्मारो यथा मनसोऽसामान्यमनोऽवस्थाविशेषः, उन्मादोऽप्यसामान्यमनोऽवस्थाविशेषः। नहि स्मृतिः कथमपि ‘संवेग' इति 'भाव:' इति वा वक्तुं शक्यते । अतः काव्यशास्त्रविदां भावसूची नह्यर्वाचीनमनोविज्ञानाभिमतसंवेगानुव्याख्यानाय सर्वांशतो रमणीया । अतो भावाश्चतुर्दश इत्यवसेयम् । चतुर्दशमूलप्रवृत्तिभिः सह वर्तमानाः संवेगा एव मौलिका भावाः संवेगा अवबोद्धव्याः। ते च बुभुक्षाभयक्रोधाश्चर्यरचनात्मकानन्दलोभघृणाकरुणा- वात्सल्यवासनाहङ्कारैकाकिभावात्मदैन्यहर्षाः। अन्ये भावास्तयोः सम्भेदमादायाभिनिर्वर्तन्ते। एते चतुर्दश निसर्गजा: ।

स्थायिभावा अपि अर्वाचीनमनोवैज्ञानिकैरन्यप्रकारकानुव्याख्यानं लभन्ते। प्राचीनैः स्थायिभावा अष्टाविति नवेति वान्वमन्यत। किन्त्वर्वाचीनै: स्थायिभावानां नियतसङ्ख्याकत्वं नाङ्गीक्रियते। प्राचीनानां मते स्थायिभावा अनादिवासनाजन्या निसर्गजाः; किन्त्वर्वाचीनानां मनोविज्ञानपारदृश्वनां मते स्थायिभावा निसर्गजा अनादिवासनानैरन्तर्यसमुत्थिता इति नाभिमन्यते। केवलं मूलप्रवृत्तिसाहचर्यान्विता नियताः संवेगा एव निसर्गजा भावा इति तेषां मतम्; किन्तु स्थायिभावा ऐहिकसंस्कारोपचयसमुद्भूता भावविशेषाः, ते तु अर्जिताः। मनोवैज्ञानिकवरेण्यैः शैण्डमहाभागैः स्थायिभावस्वरूपं भावलक्षणाद्भिन्नं सर्वोपरि विवृतम्।

यदा भावविशेषः कञ्चन वस्तुव्यक्तिवादविचारभावादर्शविशेषमभि उपनिबद्धो जायते, हेतुहेतुमद्भावेन साहचर्यस्थायित्वं तेन साकमुपैति, तदा स 'स्थायिभावः’ इति व्यपदिश्यते। अभ्यासनैरन्तर्येण भावनोपचयाद्विचारोपोद्बलितत्वाच्च भाव एवानुभवप्रकर्षे सति स्थायिभावत्वमापद्यते। एवम्प्रकारेण भावा एव स्थायिभावरूपेण कालान्तरे परिणमन्ते। अस्ति हि प्रेमरूपसंवेगविशेषः । स एवानुभवनैरन्तर्येण गुणानु- चिन्तनेन मैत्रीभावत्वमापद्यते । मैत्रीभावः स्थायिभावः । नहि एषोऽर्वाचीनमनो- वैज्ञानिकानां मतेऽनादिवासनासमुत्थित:, अपि तु भावनोपचयजन्यः । संवेगापेक्षातः स्थायिभावा नूनं चिरकालवर्तिनः । स्थायिभावेषु समुपेतेषु तत्तत्परिस्थित्यां समु- पस्थितायां तत्तत्संवेगानुभूतिरञ्जसैव जायते । स्थायिभावेषु तत्तत्पदार्थव्यक्ति- विचारविशेषविषयेऽस्माकं मूलप्रवृत्तीनां संव्यूहनं सञ्जायते । तत्संव्यूहनं सङ्घटनं वा भावनोपचयेऽसाधारणं भावावेगमभिव्यञ्जयति । एवमेव सामान्यक्रोधरूपसंवेगो यदा अभिपुरुषविशेषं निबद्धो जायते, तदाऽस्फुटेऽपि तस्याभिव्यक्तिरवसरविशेषे समुपस्थिते तत्पुरुषविशेषस्योपरि विद्वेषमुद्वमति । अस्माकं व्यवसायसंस्था-जातिधर्मवर्गसमुदायविशेषमभिमुखीकृत्यापि स्थायिभावा अभिनिर्वर्तन्ते। साम्यवादिनां वर्गसङ्घर्षविषयः स्थायिभावः सुविदित एव परीक्षावताम् । एवमेव श्रमिकसङ्घटनानां सदस्येष्वपि स्थायिभावो जन्यते । स्थायिभावविशेषे निष्पन्ने विचारविवेकद्वारं पिहितं जायते, साग्रहं संवेगं साभिनिवेशं चास्याभिव्यक्तिर्जायते, अभ्यासनैरन्तर्याच्चैष-विरोधिमूलप्रवृत्तिमार्गं रुणद्धि ।

भावसङ्केतयोः सम्बन्धः[सम्पादयतु]

विलियमजेम्समहोदयमते निराकृतेऽपि तन्निर्दिष्टो भावानां शारीरिकविचेष्टाभिः सह भूयिष्ठः सम्बन्धो नूनमव्याहतः । यदि शारीरिकावयवपरिचालनेन अभिव्यञ्जनं समुपयुक्तं भवेन्नूनं भावाभिनिवेशोऽप्यायाति । अथवा, भावविशेषाभिमुखी प्रवणता सँल्लक्ष्यते। अर्वाचीनमनोवैज्ञानिकानां मते सङ्केतप्रभावादेषा भावविशेषाभिमुखी प्रवणताभिनिर्वर्तते। सङ्केतनाम्नी सामान्यप्रवृत्तिस्तु चतुर्थेऽध्याये सपरिकरं वर्णितपूर्वा ।

संवेगस्य तत्सम्बन्धिशारीरिकविचेष्टात्मकाभिव्यक्त्या सहैतादृशो घनिष्ठः साहचर्य्यसम्बन्धो हेतुहेतुमद्भावरूपसम्बन्धो वा वर्तते, यद्धि शारीरिकविचेष्टानां भावविशेषोपयुक्ता- नामभिनयेन, समाचरणेनोत्पादनेनेति यावत्, संवेगाख्यमानसिकानुभूतिप्रवणतां सङ्केतोऽनायासेन जनयति । अट्टहासप्रीतिभोजशुभ्रवस्त्रसङ्गीतगृहद्वारप्ररोचनताम्बूल- धारणोन्मुक्तवार्तालापादिकेन हर्षरूपभावानुभवो जायते, सङ्केतप्रभावात्; किन्तु स्मरणीयमत्र यद्धि मनसि विरोधिभावस्थित्या सङ्केतप्रभावफल्गुता जायते । यदि कस्यचित्पुरुषस्य पुत्रो दिवङ्गतो जायेत, नहि तस्मै सङ्गीताट्टहासादिकं रोचते, हर्षोत्साहादिसंवेगानुभूतेस्तु कुतोऽवकाशः ! नहि प्रोषितपतिकोद्विग्ना विरहिणी शकुन्तला दुर्वाससो महर्षेरुच्चैर्भाषणं श्रोतुं प्राभवत्। प्रबलतरविरोधभावः सङ्केतमार्गं रुणद्धि ।

भावविषये गौतममतम्[सम्पादयतु]

अस्माभिरत्र भावविषयमधिकृत्य गौतमवात्स्यायनप्रभृत्याचार्य्यप्रवराणां मतोपन्यासः क्रियते। रागद्वेषमोहा इति दोषा भवन्ति । “प्रवर्तनालक्षणा दोषाः "" इति सूत्रेण गौतम- मुनिर्दोषाणां सवृत्तिहेतुत्वं प्रादर्शयत् । प्रत्यात्मवेदनीया इमे दोषा भवन्ति । आचार्य्यप्रवरो वात्स्यायनः रागादीनित्थं व्याचष्टे - " तेषां दोषाणां त्रयो राशयः, त्रयः पक्षाः । रागपक्ष:- काम:, मत्सरः, स्पृहा, तृष्णा, लोभ इति । द्वेषपक्ष:- क्रोध, ईर्ष्या, असूया, द्रोह:, अमर्ष इति। मोहपक्ष:- मिथ्याज्ञानम्, विचिकित्सा: मानः, प्रमाद इति । आसक्तिलक्षणो राग:, अमर्षलक्षणो द्वेषः, मिथ्याप्रतिपत्तिलक्षणो मोह इत्येतत् प्रत्यात्मवेदनीयं सर्वशरीरिणाम्” [२१] इति। अत्रोद्योतकराचार्य्योऽप्येवं विशिनष्टि - “तथा दोषाः तत्त्त्रैराश्यम्; रागद्वेषमोहार्थान्तर्भावात्’” [२२] इति।

एवम्प्रकारेण त्रिष्वेव दोषेषु गौतमवात्स्यायनोद्योतकर- प्रभृत्याचार्य्याणां मते सर्वेषां दोषाणामन्तर्भावः करणीयः। तत्र स्त्रीगताभिलाषः ‘काम:’। अक्षीयमाणवस्त्वपरित्यागेच्छा 'मत्सरः'। अस्वपरस्वादानेच्छा 'स्पृहा' । पुनर्भवप्रतिसन्धान- हेतुभूता ‘तृष्णा’। प्रमाणविरुद्धपरद्रव्यापहारेच्छा 'लोभः'। 'क्रोध:' इति स्फुटम्। साधारणे वस्तुनि पराभिनिवेशप्रतिषेधेच्छा 'ईर्ष्या' । परगुणाक्षमता 'असूया'। परापकारेच्छा 'द्रोह:' । कृतापकाराक्षमता ‘अमर्षः' । विचिकित्सा 'संशयः ' । विद्यमानाविद्यमानगुणाध्या- रोपेणात्मोत्कर्षप्रत्ययः 'मानः' । कर्त्तव्याकरणं 'प्रमादः ' ।

न्यायनये 'जानाति, इच्छति, यतते' इति क्रमोऽङ्गीकृतः । प्रवृत्तिहेतुत्वं हि खलु भावानां दोषापरव्यपदेश्यानां भवतीत्यवसेयम्।

मूलप्रवृत्तिसंवेगयोः सम्बन्धः[सम्पादयतु]

चतुर्थेऽध्याये मूलप्रवृत्तिस्वरूपं सपरिकरं वर्णितपूर्वम् । तत्र मैकडुगलाचार्य्य- प्रवरोक्तमूलप्रवृत्तिलक्षणव्याख्यानप्रसङ्गेऽस्माभिरुक्तं यद्धि वस्तुप्रत्यक्षानन्तरं भावानुभूति- र्जायते, संवेगानुभवनानन्तरं तद् वस्तु प्रति काचित् प्रवृत्ति: सँल्लक्ष्यते । एवम्प्रकारेण मूलप्रवृत्त्यङ्गत्रयस्य मध्ये केन्द्रीभूतो भावाख्यो मानसिकव्यापारः। नहि संवेगानुभवनमन्तरा मूलप्रवृत्तिरूपं स्फुटं समुज्ज्वलमभिनिर्वर्तत इत्येतत् सर्वमवदातम् ।

‘भयम्' इति पलायनमूलप्रवृत्तेः केन्द्रीभूतो भावः । भोजनान्वेषणमूलप्रवृत्तेर्बुभुक्षा संवेगो भवति। एवमेव प्रतिमूलप्रवृत्तिं संवेगविशेषसम्बन्धः प्रागुक्तरीत्योन्नेयः । मूल- प्रवृत्तीनां केन्द्रीभूता भावाः, संवेगा इति यावत्, मौलिकाः सन्तोऽपि महज्जाटिल्यं बिभ्रति। तेषां मौलिकं स्वरूपं त्वेतावतैवोन्नेयं यद्वयमेकैकस्य संवेगस्य विशिष्टमितरव्यावृत्तं स्वरूपं लभामहे, तान् समादाय मिश्रभावाः अभिनिर्वर्तन्ते। श्रद्धा-आतङ्क-लज्जा- कृतज्ञता-प्रशंसाप्रभृतयो मिश्रभावा एवम्प्रकारकाणां मूलप्रवृत्तिसम्बन्धिसंवेगानां मिश्री- भावेनाभिनिर्वर्तन्ते। मिश्रभावा जटिलतराः संवेगव्यपेक्षातः ।

नहि संवेगा: सरलानुभवरूपा इति वाच्यम्, संवेगानामपि जटिलानुभवरूपत्वात् । किञ्च, मिश्रभावानां स्वरूपमनुभूत- रूपतया विलक्षणमितरव्यावृत्तं भवति । तज्जाटिल्यं च मूलप्रवृत्तीनां सङ्घटनेन जाटिल्येन चाभिनिर्वृत्तम्। मूलप्रवृत्तीनां सङ्घटनं जाटिल्यं चानपेक्ष्य तेषां स्वरूपमेवानुभवगोचरतां नापद्येत।

भावावेशः[सम्पादयतु]

सङ्क्षोभात्मका हि खलु संवेगा भावा इति । उग्रसंवेगानुभवो नह्यञ्जसा चेतसस्तिरो- हिंतं जायते। जलोम्मिरिव संवेगोऽपि क्रमशश्चरमां कोटिं यावद् वर्धते, क्रमशश्च ह्रासं गच्छति। ‘क्रोधज्वालमन्तर्ज्वलामि' इति क्रोधावसरे वियोगकाले वा प्रयोगः प्रायो दरीदृश्यते। ‘निमज्जतीवाऽन्तरात्मा' इति प्रयोगो वियोगकाले रामस्य वियोगवेदनामत्यर्थं स्फुटमभिव्यञ्जयति । 'क्रोधाद् दह्यते मे चेत:' इत्यादिप्रयोगैरपि कामक्रोधशोककारुण्यादि- भावानामुन्मेषावस्था चरमावस्था ह्रासोन्मुख्यवस्था चेत्यवस्थात्रयं सिद्धं भवति। भावा- पगमेऽपि चेतसः सङ्क्षुब्धावस्थानुवर्तते।

यावत्सा संक्षुब्धावस्था संस्कारबहलाऽनुवर्तते, संवेगतिरोधानेऽपि पुनः क्षुद्रेऽप्युत्तेजके विषये समुपस्थिते तत्संवेगस्य तीव्रानुभूतेरवकाशो वर्तत एव। सङ्क्षोभवस्थानन्तरमपि संस्कारमयी चेतसोऽवस्था संवेगाविर्भावानुकूला वै ‘भावावेशः’ इति व्यपदिश्यते। दृश्यते हि लोके क्रोधानन्तरं मनागपि क्षुद्रमुत्तेजकवस्तु क्रोधानलप्रज्वालनायालमिति । कदाचन त्वनागसं बालकं पुरुषं वाऽपि भावावेशप्रभावात् सहसा वयं ताडयामः। सिद्धा तर्हि संवेगोत्तरकालिका संवेगविशेषसंस्कारबहुलावस्था, यस्यास्तत्संवेगाविर्भावः सहसा प्रादुर्भवति ।

किं तावत् स्थायिभाव एव भावावेश: ? नैतद् वाच्यम् ? नहि स्थायिभाव एव भावावेशः। स्थायिभावस्तु चिरन्तनाभ्यासजन्या संवेगविशेषस्य परिणतावस्था । किन्तु भावावेशः संवेगविशेषस्यापगमेऽपि तदुत्तरानुवर्तमानावस्थाविशेषः । स्थायिभावः प्रगाढतमः संवेगो भवति, वासनाप्राचुर्य्यात् । नहि भावावेश: प्रधानसंवेग इव उग्रसङ्क्षोभ इत्यवगन्तव्यम्। भावावेशः संवेगविशेषजन्यमाविलचेतस्त्वमिति बोद्धव्यम्। भावा- वेशोंऽशतोऽस्तं गच्छन्नाडीविक्रियाजन्य इत्यवदातम्।

संवेगस्वतन्त्रनाडीमण्डलयोः सम्बन्धः[सम्पादयतु]

स्वतन्त्रनाडीमण्डलपरिस्वतन्त्रनाडीमण्डलविकीर्णग्रन्थिजालादिकस्य यो यः प्रभावोऽस्माकं मानसिकशारीरिकविकासे विशेषेण च संवेगानामुदये परिपाके तिरोधाने च दृश्यते, स निखिलोऽस्माभिर्द्वितीयेऽध्याये सपरिकरं वर्णितचरः। तत्रैवास्माभिरेका तालिकापि विवृता ।

केननप्रभृतिविपश्चिद्भिः [२३] प्रमाणीकृतमिदं यद्धि भये स्वतन्त्रनाडीमण्डलस्य क्रियातिरेको विद्यते। हृद्गतिर्वर्धते, रक्ताधिक्यं रक्तचापो वा वर्धते, श्वसनं स्वच्छन्दं जायते, भोजन-. पाचनादिक्रियासङ्कोचनं जायते । उपवृक्कग्रन्थिक्रियाकारित्वं विशेषेणानुलक्ष्यते । उपवृक्कग्रन्थिजन्यान्तःस्रावो रक्तप्रवाहे प्रक्षिप्तो जायते । तेनापि स्वतन्त्रनाडीमण्डलीय- क्रियाकलापः संवर्धितो भवति । केननमहाभागेन क्रोधेऽपि तदनुकारिणी नूनमान्त्रिकक्रिया परिलक्षिता, निर्णीतं च तेन यद्धि भये क्रोध इवान्त्रिकप्रतिक्रिया जायत इति ।

किन्तु भये स्वेदातिरेको जायते, वैवर्ण्य च। क्रोधे मुखस्य ताम्रवर्णत्वमिति रक्तप्रवाहक्रियाभेदं निर्दिशति। एतादृशीं निरीक्षणसामग्रीमादाय अन्याश्च विशेषोपोद्बलितामरनाल्डमनोवैज्ञानिक- प्रवरा मन्यन्ते यद्धि केननमतानुसारं भयं विशेषेण स्वतन्त्रनाडीमण्डलीयक्रियाव्यापृतमिति समीचीनम्; किन्तु केननमहोदयमतविप्रतिकूलं क्रोधस्तु विशेषतः परिस्वतन्त्रनाडीमण्डलीया क्रियेति बोद्धव्यम्। प्रहर्षः सङ्क्षोभो वा (Elation and excitement) सामान्यत: परिस्वतन्त्रनाडीमण्डलीया क्रिया भवति । [२४] अथवा सामान्यतः सर्वास्वेव संवेगानुभूतिषु कश्चित् परिस्वतन्त्रनाडीमण्डलीयक्रियाकलापों दृश्यः । अत्रोल्लेख्यं विशेषेण यद्धि प्रत्येकसंवेगानन्तरं तद्विरोधिक्रियानुवर्तते; यथा - विक्षोभानन्तरं (Excitement) देहसम्बन्धविस्रसनमङ्गानां शैथिल्यं वानुभूयते ।

कामवासनायां वात्सल्यभावे च परिस्वतन्त्रनाडीमण्डलस्य प्रतिक्रियाणां प्राधान्यं वर्तते। विशेषेण कामवासनायां नाडीप्रतिक्रिया भयसंवेगानुगतनाडीविक्रियाविरोधिनी भवति, यतो हि भयेन कामवासनाविपरिलोपो दृश्यते। अन्तःस्रावग्रन्थिभेदोऽपि प्रतिसंवेग भिद्यते। भये क्रोधे वा उपवृक्कग्रन्थिप्रतिक्रियाजन्यान्तःस्रावक्रियाकारित्वं वर्तते; किन्तु कामवासनायां मुष्कडिम्बग्रन्थिजन्यान्तःस्रावप्रतिक्रिया जायते । वात्सल्ये चान्यासामन्तः- स्रावग्रन्थीनां पयोधरादीनां क्रियाकलापोऽनुवर्तते । मूषिकाणां वात्सल्यमये व्यवहारे भृशं साधितं हि खलु प्रयोगजातेन यत् कियान् पयोधरस्थग्रन्थिजन्यान्तःस्रावस्य प्रभावो भवतीति ।

संवेगानुभवस्य मृदुमध्यातिमात्रमयं रूपं वस्तुतो व्यक्तिगतानुभवात्मसंयम- चरित्रादिकमपेक्ष्य प्रतिपुरुषं भिद्यते ।

संवेगानां मस्तुलुङ्गीयायतनम्[सम्पादयतु]

किन्नु खलु संवेगानां स्थायिभावानाञ्च मस्तुलुङ्गीयायतनं भवतीति? हारवर्डविश्व- विद्यालयीयप्राध्यापकप्रवरेण केन महाभागेन मस्तुलुङ्गीयक्रियाणामध्ययनेन निर्णीतं यद्धि संवेगानां विशेषेण मस्तिष्कस्याधस्तरीयभागावाज्ञाकन्दौ आयतेन भवत इति । स्वतस्त्वाज्ञाकन्दौ निष्प्रत्यूहं संवेगायतने भवतः । यद्याज्ञाकन्दपार्श्वस्थमस्तुलुङ्गभागा अपसारिताः कर्तिता वा भवेयुस्तर्ह्यग्रतरं भावसञ्चरणं संवेगानुभवनं वा आज्ञाकन्द- भागाभ्यामभिनिर्वर्तते। एतावता पार्श्वस्थभागा आज्ञाकन्दानुगतनाडीक्रियानिरोधं कुर्वन्तीति सर्वमवदातम्। केननमहोदयैः प्रतिपादितमिदमाज्ञाकन्दीयं मतं जेम्सलैङ्गप्रत्याख्यानायालम्। आज्ञाकन्दौ स्वतन्त्ररूपेण वल्कं तत्तत्पेशी: प्रति स्वतन्त्रनाडीमण्डलमार्गेणान्त्रिकाजालं प्रति च क्रियावेगान् प्रवाहयतः।

अनेन साधितं भवति यद्धै संवेगानुभूतिर्नहि शारीरिक- विक्रिया जनयति, नापि शारीरिकविचेष्टा एव भावानुत्पादयन्ति । नूनं प्रबलतर- शारीरिकविचेष्टाजातेननान्त्रिकक्रियाभिः पेशीजन्यक्रियाभिश्च संवेगानुभूति: प्रवृद्धा जायते । जेम्समतं केननमतेन सुष्ठुतरं निराकृतं भवति । सम्प्रति सर्वैर्मनोवैज्ञानिकैः समादृतेन केननमतेन संवेगा मस्तुलुङ्गीयायतनप्रभवाः, न तु शारीरिकविक्रियाजन्याः, यथा जेम्समहाभागो मन्यत इति साधितं भवतीति सर्वमवदातम् ।

संवेगपरिवर्तनम्[सम्पादयतु]

वयमिदानीं संवेगानां परिवर्तनानि यथाभिनिर्वर्तन्ते, तदनुव्याख्यास्यामः । विचार- विवेकानुभवातिशयानुसारं संवेगानामात्मनियन्त्रणमभिसम्पद्यते, तच्च संवेगाभिव्यक्तौ भावानुभूतौ च महत्त्परिवर्तनमादधाति । अस्माकं निखिलः सभ्यतासंस्कृतिशेवधिश्चारित्र्ये सन्निविष्टः । चारित्र्यं च संवेगपरिशोधं भावसंयमनमपेक्षते । कथं तर्हि संवेगा भावा नियन्त्रिता भवन्ति? इति सर्वमस्माभिर्विवेच्यम्। संवेगानां परिवर्तनानि चतुर्धा जायन्ते । तद्यथा-

(अ) संवेगदमनेन ।

(आ) मार्गान्तरीकरणेन ।

(इ) संवेगविरेचनेन ।

(ई) संवेगोन्नयनेन परिशोधेन वा।

तानि वयं परिवर्तनसाधनानि प्रतिपदमनुव्याख्यास्यामः । तत्तत्संवेगपरिवर्तनेन तत्तन्मूलप्रवृत्तावपि परिवर्तनानि कल्प्यन्ते; यतो हि संवेगानुभूतिर्मूलप्रवृत्तेः केन्द्रीभूता विद्युच्छक्तिरिव प्रेरिका भवति । अतो येन येन विधिना संवेगपरिवर्तनान्यभिनिर्वर्तन्ते, स स मूलप्रवृत्तिपरिवर्तनायापि प्रभवतीति बोद्धव्यम्।

(अ) संवेगदमनम्[सम्पादयतु]

संवेगावदमनमेव दमनमिति व्यपदिश्यते । यदि कश्चन भावविशेषोऽन्येन प्रबलतरेण विरोधिभावेन तिरोधीयते, तर्हि पूर्वभावविशेषस्यावदमन- मापद्यते। अवदमनं हि खलु नितान्तं त्याज्यमिति अर्वाचीनमनोवैज्ञानिकानां तारस्वरं डिण्डिमोद्धोषणम्। यदि भावद्वयस्येतरविरोधिरूपं भवेत्, तयोर्युगपदनुभूयमानत्वमपि भवेत् तदैवावदमनस्यावकाशः । भयेन रागावदमनमभिसम्पद्यते। परस्परविरोधिभावाभ्यां मानसिकसङ्घर्षो जायते, मानसिकसङ्घर्षाच्च दोलायितचेतस्त्वमापद्यते । दोलायित- मानसत्वात्क्रियाविपरिलोपो जायते । मानसिकसङ्घर्षेण संवेगावदमनेनानेके मानसिक- विकारा आविर्भवन्ति। ये संवेगा अवदमनविषयीभूता जायन्ते, ते भावग्रन्थिरूपतां बिभ्रति ।

भावग्रन्थिनिर्माणं हि खलु घोरमानसिकोन्मादादिविकारान् जनयति । मूलप्रवृत्तिनिरोधाद्वै तत्संवेगनिरोधो जायते । मूलप्रवृत्तिविषयानुपलब्धिर्बलादानीता एव निरोधः। संवेगनिरोधेन निरुद्धसंवेगः प्रान्तीयचैतन्ये सूक्ष्मचैतन्ये वा स्वाभिव्यञ्जनावसर- मवाप्तुं भ्रमतीव। निरुद्धः संवेग: सर्वथा विनष्टो जायत इति न वाच्यम्; यदि व्यक्तित्व- सामञ्जस्यद्वारा सा भावग्रन्थिर्विलीयते, तर्हि कापि क्षतिर्नाविर्भवति । इतरथा भावग्रन्थिरत्युग्रा सती व्यक्तित्वद्वैधीभावमापद्यमानं दुर्ग्रस्तं मानवं साक्षादसामान्यमानसिकविकारपाशैः प्रतिबध्नाति ।

नहि बालकानां प्रकृष्टा जिज्ञासा मातापितृभ्यां गुरुणा वा तिरस्कारवाक्यैर्निरोद्धव्या । सामाजिकनिन्दाभयेन कामवृत्तेरवदमनं बहूनसामान्यमानसिकविकारान् जनयति । यदा सङ्घर्षगतसंवेगयोः समानबलयोः परस्परं तुमुलसङ्घर्षो जायते, चिन्ता परमक्लेशप्रदा अन्वागच्छति। तया च प्रयत्नविरहितोऽकिञ्चित्करत्वं भजते । नहि मूलप्रवृत्तिसुलभानां संवेगानामवदमनं प्रशस्तं मनोवैज्ञानिकैर्मन्यते।

(आ) विरेचनम्[सम्पादयतु]

संवेगाः क्षीयन्ते विरेचनमार्गेण । हासपरिहासद्वारा केषाञ्चन पुरुषाणामुग्रसंवेगानां क्षयः सञ्जायते। तत्प्रकारेण तेषामसामाजिककार्यप्रवृत्ति: विनष्टा जायते। दृश्यते हि होलिकाप्रदाहानन्तरं जानानां हर्षाभिव्यञ्जनम्। उन्मुक्तहासपरिहासद्वारा अवचनीयवाक्यैरपशब्दैश्च लोकानां कामवृत्त्यतिशयविरेचनं क्रियते । यद्यपि विरेचनं साधुभिर्विगर्हितं साधनम्, तथापि मनोवैज्ञानिकोपयोगित्वमस्य दुर्निवारम् । स्मर्तव्यं यद्धि विरेचनावदमनाख्ये साधने नहि संवेगानां सम्यक्तया पथप्रदर्शनं कुरुतः ।

(इ) मार्गान्तरीकरणम्[सम्पादयतु]

संवेगानां परिवर्तनं मार्गान्तरीकरणेनापि महत्सौकर्येणा- भिनिर्वर्तते। कामवृत्तेरतिशय: चित्रकलाकाव्यरचनानृत्यगीतवाद्याभिनयचित्रपटदर्शनो- पन्यासपठनप्रभृतिसाधनजातेन मार्गान्तरं नीयमानः स्वकीयां सामाजिकरूपतां प्रजहाति । भर्तृहरिवचनं नूनं स्मरणीयम्-

"साहित्यसङ्गीतकलाविहीनः साक्षात्पशुः पुच्छविषाणहीनः " । इति ।

अपरिष्कृता मूलप्रवृत्तिवेगाः पशुमनुष्यसमानाः । संवेगानां परिष्कारेण मार्गान्तरीकरणेन पशुत्वं विहाय नरो दैवीं प्रकृतिमभिसम्पद्यते । आसुरी प्रकृतिः पशुसंवेगरूपविनिम्मिता भवति । मार्गान्तरीकरणेन संवेगस्य चरमावस्थां प्रति खल्वनुभविता समाहितो जायते। अन्यमनस्कत्वं संवेगक्षयाय कल्पते । मार्गान्तरीकरणं शिष्टसम्मतं साधनम्। अन्यच्च ‘पूरोत्पीडे तडागस्य परीवाहः प्रतिक्रिया' ।

(ई) उन्नयनम्, परिशोधो वा[सम्पादयतु]

संवेगपरिवर्तनस्याद्यं साधनं दमनाख्यं विद्वद्भिरसेव्य- मग्राह्यञ्चेति। कस्तावत्तर्हि श्रेष्ठः परमकल्याणवहः पन्था: ? नूनं संवेगोन्नयनं संवेगपरिशोधो वा शिष्टैः सर्वथानुग्राह्यो विधिः । संवेगोन्नयनं हि खलु तत्तत्संवेगस्यादर्शविशेषमभि- लक्ष्यानुकरणीयचरित्रश्लाघ्यगुणसम्पन्ननरशार्दूलं प्रति विचारभावनानैरन्तर्येण सम्बन्ध- निर्म्माणमिति। संवेगानां पशुसुलभमाद्यमसंस्कृतं रूपं त्वस्माभिर्वणितपूर्वम्। तच्च विचारनैतिकादर्शविशेषपूतं भूत्वा सर्वथा परिवर्तितं तिरोहितमिव वा जायते। तस्य मूलरूपं च तदा इयत् परिवर्तनमादधाति, यद् वयं तदिभिज्ञातुं न प्रभवामः ।

यद्यपि संवेगावदमनविधिनापि परिवर्तनं जायते, किन्तु तस्यान्ततो गत्वा क्लेशप्रदाः परिणामा भवन्ति, व्यक्तित्वद्वैधीभावप्रभृतिमानसिक विकारा जायन्ते । दृष्टिविषयस्य समाने सत्यपि विचारसंवेगानुभवतदभिव्यक्तादयः परिशोधन परिष्कृतरूपेणोपलभ्यन्ते । सामाजिक- सहकारिताविश्वबन्धुत्वसमानताकर्तव्यपरायणत्वपरमतसहिष्णुत्वादिनैतिकधार्मिकादर्शैः प्रतिसंस्कृता मूलसंवेगा आमूलचूडपरिवर्तितामभिव्यक्तिमनुभूतिं च धारयन्ति। वयमत्र कतिपयसंवेगानामुन्नीतं परिशुद्धमुदात्तीकृतं वा रूपं निदर्शयामः । एतावतैव तत्सम्बन्धि- मूलप्रवृत्तेरन्यासां चावर्णितानां मूलप्रवृत्तीनामुन्नयनासादितरूपाण्यपि बोद्धव्यानि।

नूनं भोजनान्वेषणं स्वोदरपूर्त्तये आद्यं बुभुक्षासंवेगरूपम्। अतिथिसेवया धार्मिक- स्थायिभावनिर्माणेन च तत्कथं परिशोधमुन्नयनं वाऽर्हतीति भगवत्या श्रुत्यैव स्फुटं प्रतिपादितम्-

मोघमन्नं विदन्तेऽप्रचेताः सत्यं ब्रवीमि वध इत्स तस्य ।

नार्यमाणं पुष्यति तो सखायं केवलाघो भवति केवलादी ॥ इति ।

अग्निहोत्रमन्त्रैः प्रतिपदं हव्याहुतिविषये 'इदं न मम' इति सिद्धान्तितेन वचनेन परोपकाराय देवार्चनाय च स्वार्थत्यागार्थ धार्मिकस्थायिभावनिर्माणं नूनं बुभुक्षासंवेगोन्नयन- कारकमित्युन्नेयम्। देशप्रेम्णाऽपि बुभुक्षासंयमनमभिनिर्वर्तते । दृष्टं चैतद् वीरवरवन्दावैरागि- शैक्ष्य(सिक्ख)गुरूणामनुयायिसैनिकानाम्, आजादहिन्दसेनाधिपतिसुभाषचन्द्रबोसस्य सैनिकानाम् ‘डम्फाल’युद्धे यद् भोजनाभावेऽपि मातृभूमिबन्धनविमोचनाय निरन्तरं युद्धं समावृत्तम्, तच्चाप्यभूतपूर्वसाहसेन ।

अस्ति हि कामवासनेत्यन्यो तीव्रतमः संवेगः । स हि तीव्रतमो मानवानां पशूनां च संवेग इति फ्रायडमहाभागा उद्गिरन्ति । सोऽपि सम्यक्तया पथप्रदर्शनेनोन्नीतरूप- मादधाति। नारीणां पातिव्रत्यं कुलव्रतमेकपत्नीव्रतं चार्य्याणां परस्त्रीमातृभक्तिश्च शिष्टानामाचरणराद्धान्ततया सुप्रथितमेव सर्वस्मिन् भूमण्डले।

'वसुधैव कुटुम्बकम्' इति भावना यथा सङ्कीर्णं प्रेम उन्नीतं विश्वकल्याणावहं करोति तथा निदर्श्यते-

अयं निजः परो वेति गणना लघुचेतसाम् ।

उदारचरितानां तु वसुधैव कुटुम्बकम् ॥ इति ।

अन्यच्च, यथा पातिव्रत्यसौरभेण कामवृत्तिर्लोकवन्द्यं परिशुद्धं रूपमादधाति,

तथा स्फुटीक्रियते-

अग्निपरीक्षावसरे सीताया उक्तिः -

मनसि वचसि काये जागरे स्वप्नस

यदि मम पतिभावो राघवादन्यपुास ।

तदिह दह ममाङ्गं पावनं पावकेदं

ह्यकृतदुरितभाजां त्वं हि कर्मैकसाक्षी ॥ इति ।

किञ्च रावणप्रणयप्रार्थनावसरे-

दीनो वा राज्यहीनो वा यो मे भर्त्ता स मे गुरुः ।

तं नित्यमनुरक्तास्मि यथा सूर्यं सुवर्चला ॥

यथा शची महाभागा शक्रं समुपतिष्ठते ।

अरुन्धती वशिष्ठं च केशिनी सगरं यथा ॥

लोपामुद्रा यथागस्त्यं सुकन्या च्यवनं यथा ।

तथाहमिक्ष्वाकुवरं रामं पतिमनुव्रता ॥ इति ।

किं बहुना -

सव्येनापि हि पादेन न स्पृशेयं निशाचरम् ।

रावणं किं पुनरहं कामयेयं विगर्हितम् ॥ इति ।

अथवा, वनवासार्थं प्रस्थानावसरे सीतोक्तिः-

यदि त्वं प्रस्थितो दुर्गं वनमद्यैव राघव ।

अग्रतस्ते गमिष्यामि मृद्नती कुशकण्टकान् ॥ इति ।

राज्यप्राप्तिलोभो हि सञ्चयप्रवृत्तेश्चरमं रूपम् । किन्तु लोभसंवेगपरिशोधं वयं भरतेऽतिशयेन लभामहे, किन्तु तस्योदात्तीभावस्यं तत्रोपस्थितविभीषणसुग्रीवादिष्वभावो नूनं संवेगानां मूलरूपपरिशुद्धरूपयोरितरेतरव्यावृत्तरूपं स्फुट विचारपटल आदधाति । भरत उवाच -

यस्त्वां पश्यामि राजानमयोध्या पुनरागतम् ।

अवेक्षतां भवान् कोशं कोष्ठागारं पुरो बलम्।

भवतस्तेजसा सर्वं कृतं दशगुणं मया ॥ इति । [२५]

भ्रातृस्नेहस्य परमोज्ज्वलं निदर्शनं स्वार्थत्यागस्य चादर्शरूपं प्रातःस्मरणीयं भूयो भूयोऽस्माकं चेतांस्यनन्दयति निषादोक्तिः-

धन्यस्त्वं न त्वया तुल्यं पश्यामि जगतीतले ।

प्रयत्नादागतं राज्यं यस्त्वं त्यक्तुमिहेच्छसि ॥ इति । [२६]

अपि च-

तथा ब्रुवाणं भरतं दृष्ट्वा तं भ्रातृवत्सलम् ।

मुमुचुर्वानरा वाष्पं राक्षसश्च विभीषणः ॥ इति । [२७]

एवम्प्रकारेण बालकेषु समानतासहकारितादेशप्रेमपरोपकारसत्याहिंसादिचरमो- दात्तादर्शविचारान् प्रति स्थायिभावानां सम्यक्तया निर्माणेन तेषां मूलसंवेगानां मूलप्रवृत्तीनां चोन्नयनं कर्तुं शक्यते । मूलसंवेगानां परिशोधो वै सभ्यतायाः शिष्टसमुद्राचारस्य चाधारशिलेति निःसंशयम्। “अभ्यासवैराग्याभ्यां तन्निरोध:” [२८] इति सूत्रेण भगवान् पतञ्जलिश्चित्तवृत्तिनिरोधस्य साधनद्वयं प्रतिपादितवान्। भगवता श्रीकृष्णेनापि खल्वभ्यास- वैराग्याभ्यां चित्तवृत्त्युपशमनं प्रशस्तमुद्धोषितम्। तद्यथा-

असंशयं महाबाहो ! मनो दुर्निग्रहं चलम् ।

अभ्यासेन तु कौन्तेय ! वैराग्येण च गृह्यते ॥ इति । [२९]

योगाभिमतोऽयं निरोधो नास्त्यवदमनमिति पूर्वसंज्ञितम् । अभ्यासो हि खलु चिरकालिकभावनानुरञ्जितस्थायिभावायत्तदृढसङ्कल्पजन्यो भवतीति सर्वं वर्णितचरम् । वैराग्यमिति विरोधिस्थायिभावनिर्माणप्रभवम्। संवेगातिरेकदोषप्रदर्शनेन तद्विषये वैराग्यमुप- जायते। अभ्यासेन वैराग्येण च आत्मसंयमो दृढसङ्कल्पश्च प्रवर्धितौ जायेते । अवदमनेऽवदमितसंवेगाः प्रबलतरस्थायिभावे समुपस्थितेऽपि, पार्श्वभूमौ सूक्ष्मचैतन्यस्य सक्रिया दृश्यन्ते। नहि योगाभिमतनिरोधे परिशोधचरमरूपे उदात्तव्यक्तित्वलाभान्विते कुत्रचिदपि ह्यवदमनस्यावकाशः ।

अन्यच्च मार्गान्तरीकरणे संवेगानां शक्तिरक्षुण्णा अप्रतिहता चावतिष्ठते। केवलमनवहितत्वान्मानवः संवेगाभिमुखः समुपस्थितेष्वसरेषु न जायते। परिशोधसाधने वै संवेगानां मूलशक्तिरपि क्षयमवाप्नुते। परिवर्तितरूपनियतत्वं चैतेषामभिव्यक्तिर्बिभर्ति । यदा मार्गान्तरीकरणलक्ष्यीभूता कला 'सत्यं शिवं सुन्दरम्' इत्यादिचरममानवपुरुषार्थै: सहान्विता तदनुप्राणिता वा जायते, तदा सापि मार्गोन्तरी- करणाख्यसाधनकक्षं विहाय परिशोधकक्षमनुप्रविशति, संवेगोदात्तचरमावस्थायां पर्यवस्यतिं चेति विशेषः ॥


सन्दर्भाः[सम्पादयतु]

  1. उत्तररामचरितम् १/४७
  2. E. B. Titehner. A Text book of Psychology, Pages 225-264.
  3. न्यायसूत्रम् १/१/२१
  4. F.H.Allport. Social Psychology. (Hughton mifflin 1924 ). PP. 84-98
  5. गीता २/३४
  6. उत्तररामचरितम्, श्लो० १।१२।
  7. साहित्यदर्पण: ३।१८२
  8. वैराग्यशतकम्, श्लो० ११३।
  9. साहित्यदर्पणः पृ. २५४
  10. साहित्यदर्पणः ३/१४१
  11. साहित्यदर्पणः ३ । १४०
  12. Knight Dunlop. "Emotions" (William & wilkins, 1922)
  13. W. James; A Text book of Psychology, (PP. 375-76) "My theory is that the bodily changes follow directly the perception of the exiting fact and that our feeling of the same changes as they occur is the emotion. Common sense says, we lose our fortune, are sorry and weep; we meet a bear, are frightened and run; we are insulted by a rival, are angry and strike. The more rational statemant is that we feel sorry becouse we cry, angry becouse we strike, afraid because we tremble, and not that we cry, strike or tremble because we are sorry, angry or fearful as the case may be. Without the bodily states following on the perception, the latter would be purely cognition in form, pale, colourless, destitute or emotional warmth."
  14. William James, "principles of psychology", vol, II, pp. 449-467 (Mc. millan & Co. )
  15. "It is the vaso-motor system that we have to thank for the whole emotional aspect of our mental life, for our joys and sorrows, our happiness and misery."
  16. उत्तररामचरितम् ३ | ३८
  17. Titchner, "A Text book of Psychology, ' (pp. 482) "A group of organic sensations is, after all, a group of oranic sensations' Palpitation of heart is not, in itself, the emotion of dread, and blushing in not, in itself, the emotion of shame. So far as unaided observation takes us, there is no necessary correspordence between emotion and orgainc reaction, either in intensity or quality, either in time of appearance or in duration".
  18. धनञ्जयविरचितं दशरूपकम् ४।८
  19. दशरूपकम् ४।३४-३५।
  20. दशरूपकम् ४।५-६
  21. न्यायसूत्रम् - १।१।१८
  22. न्यायसूत्रभाष्यवार्त्तिकम् - ४ । १ । ३
  23. W. B. Cannon, Bodily changes in Pin. Anger. Fear and Rage (Appleton. 1920)
  24. Arnold magde B. "Physiological Differntiation of emotional States'--Psychological Review. 1945. PP 35-48
  25. वाल्मीकिरामायणम् ६ । १३० १५५-५६
  26. वाल्मीकिरामायणम् २।८५ । १२
  27. वाल्मीकिरामायणम् ६।१३०।५६-५७
  28. पातञ्जलयोगसूत्रम् १/१२
  29. श्रीमद्भगवद्गीता ६ । ३५


सम्बद्धाः लेखाः[सम्पादयतु]