मानसिकरोगः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
चिकित्सा पद्धतिः

मानसिकरोगः रोगेषु अन्यतमः । मानसिकव्यत्ययः अधिकप्रमाणेन भवति चेत् सः मानसिकरोगः भवति । मनुष्यः यदा खिन्नः भवति तदा सः दुःखभावनायुक्तः भवति । अल्पावधिखिन्नस्य मनुष्यस्य चिकित्सा अनपेक्षिता । किन्तु दीर्घावधिं खिन्नतां यः अनुभवेत् तस्य मनुष्यस्य चिकित्सा अपेक्षिता भवति । खिन्नता सप्ताहद्वयं यावत् तिष्ठेत् तर्हि सा भवति चिन्तनीया । अनेन कारणेन व्यक्तेः कार्येषु , दैनन्दिनक्रियासु, तृप्तिकरसम्बन्धेषु च विपरिणामाः भवन्ति । मानसिकरोगः (खिन्नता) सामान्यतः पुरुषाणाम् अपेक्षया स्त्रीषु अधिकतया दृश्यते । डोपमिन् -सेरोटोनिन्-रासायनिके मस्तिष्के समप्रमाणेन भवेताम् । एते नरवाहकाः न्यूनाः भवन्ति चेत् मानसिकरोगः उत्पत्स्यते ।

चिह्नानि लक्षणानि च क्लेशाः
१ खिन्नता १ उदासीनभावः, दुःखस्याभिव्यक्तिः, भावनात्मकक्रियाशीलतायाः न्यूनता, रोदनम्, असङ्गतवाक्यानां प्रयोगकरणम् ।
२ क्रियासु अनासक्तिः २ कार्येषु भागग्रहाणाय अनासक्तिः । विरामसमयेषु अपि कार्येषु भागग्रहणाय तिरस्कारभावप्रकटनम् । सन्तोषप्रकटने अशक्तता ।
३शरीरभारस्य न्यूनता बुभुक्षायाः न्यूनाल्पताच ३ अहारसेवनाय अनासक्तिः ।
४ अनिद्रा अतिनिद्रा च ४ निद्रायाः अनागमनम्, विलम्बेन उत्थानम् उत शीघ्रोत्थानम् । दिवा निद्राकरणम्।
५ अलोचना अनालोचना च ५ अतीव क्रियाशीलता । शक्तेः न्यूनता, अधिकतया वदनम् ।
६ आयासः निश्शक्तिः च ६ स्वल्पे काले निश्यक्तताभावप्रकटनम् । नित्यजीवनविषयेषु अनासक्तिः। कार्येषु असमर्थता ।
७ भावनासु तुमुलः ७ अहम् अज्ञानि, निष्प्रयोजकः, मां कोऽपि नेच्छति इत्यादि स्वात्मकथनम् । स्वनिराशां प्रकटयितुम् अशक्तता ।
८ एकाग्रतायाः न्यूनता ८ कार्येषु दक्षता न भवति । व्यसनेषु अभ्यासेषु च परिवर्तनानि । व्यक्तिगतानि कौशलानि न्यूनानि भवन्ति ।
९ पुनः पुनः मरणस्य चिन्तनम्। अत्महत्यायत्नः आत्महत्यायाः विषये कथनम् । ९ मरणस्य विषये एव कथनम् । आत्महत्यायाः विषये चिन्तनं कथनञ्च ।

मानसिकरोगिणः लक्षणानि[सम्पादयतु]

मानसिकास्वस्थाः

मानसिकास्वस्थः मन्दगत्या चलति । अलोचने अपि मन्दगतिः भवति । वैयक्तिकशुचित्वस्य अरोग्यस्य विषये च निरासक्तिः । दुःखसहितः भवति । सुलभतया अश्रूणि स्रावयति । अल्पमानसिकास्वस्थस्य कदाचित् अश्रूणि नागच्छेयुः । स्वालोचनासु विश्वासः न भवति । असहायकता व्यक्तिषु दरीदृश्यते ।

मानसिकरोगस्य कारणानि[सम्पादयतु]

मानसिकरोगोत्पत्तये नैकानि कारणानि विद्यन्ते । तेषु जैविक-मानसिक-सामाजिकानि कारणानि भवन्ति । एतैः सह शारीरकरोगाः, कौशलानां न्यूनतादीनि अपि कारणानि भवन्ति । व्यक्तिषु लभ्यानि अन्यानि कारणानि अधो निर्दिष्टानि-

  • कुटुम्बे मानसिकक्लेशाः सन्ति चेत् मानसिकरोगाः भवन्ति ।
  • सम्बन्धेषु उत्पत्स्यमानाः वियोगाः ।
  • द्वन्द्वयुक्तमतिः । द्वन्द्वजीवनम्।
  • पुनः पुनः उद्योगस्य परिवर्तनम् ।
  • भावोद्वेगः आतङ्कश्च ।
  • बाल्ये घटिताः दुर्घटनाः एवं लैङ्गिकदौर्जन्यम् ।
  • दारिद्र्यम् ।
  • (हत्या इत्यादि) अपराधी चेत् मानसिकास्वस्थः भवति ।
  • उद्योगवञ्चितः चेत् व्यक्तिः मानसिकास्वस्थः भवति ।
  • दीर्घकालीनव्याधियुक्ता व्यक्तिः मानसिकास्वस्थः भवति ।
  • मादकपदार्थव्यसनशीलः मानसिकास्वस्थः भवति ।
  • न्यूनात्माभिमानयुक्तः चेत् मानसिकास्वस्थः भवति ।

उपायाः[सम्पादयतु]

मानसिकरोगस्य निवारणोपायाः उक्ताः सन्ति ।

  • मानसिकरोगनिवारकानि योगासनानि करणीयानि । योगासनैः स्वस्थः भविष्यति ।
  • सन्तोषदायककार्येषु भागग्रही भवेत् तेन मानसिकस्वस्थता न भवति । ध्यानप्रार्थनादिषु प्रवृत्तिः भवेत् ।
  • उत्तमैः जनैः सह मेलनम्।
  • मानसिकसमस्याः भवन्ति चेत् मनोवैद्यस्य साहाय्यं स्वीकर्तव्यम् ।


बाह्यानुबन्धः[सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=मानसिकरोगः&oldid=247997" इत्यस्माद् पुनः प्राप्तिः