मैत्रायणीसंहिता

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

मैत्रायणीसंहिता कृष्णयजुर्वेदस्य अन्यतमा संहिता। इयं संहिता गद्य-पद्यात्मिकाऽस्ति । अस्यां संहितायां चत्वारः काण्डाः सन्ति । प्रथमकाण्डः (आदिमः) एकादशप्रपाठकेषु विभक्तोऽस्ति । येषु क्रमशः दर्शपूर्णमास-अध्वर-अाधान-पुनराधान-चातुर्मास्य-वाजपेयप्रभृतीनां यज्ञानां वर्णनमस्ति । द्वितीयः काण्डः (मध्यमः) त्रयोदशप्रपाठकेषु विभक्तः अस्ति। एतेषु प्रपाठकेषु काम्य-इष्टि-राजसूय-अग्निचितिप्रभृतीनां यज्ञानां विस्तृतविवरणमस्ति । तृतीयकाण्डे (उपरि) षोडशप्रपाठकाः सन्ति । येषु अग्निचिति-अध्वरविधि-सौत्रामणी-अश्वमेधादीनां विस्तृतं वर्णनं वर्त्तते। चतुर्थकाण्डः खिलकाण्डनाम्ना विख्यातोऽस्ति । एतेषु प्रपाठकेषु पूर्वनिर्दिष्टराजसूयादीनां यज्ञानां विषये अावश्यकवस्तूनां सुमहानां सङ्ग्रहो वर्त्तते । समग्रसंहितायां २१४४ मन्त्राः सन्ति, येषु १७०१ ऋचः प्रतिकाण्डम् ऋग्वेदात् समुद्धृताः सन्ति । एते सर्वेऽपि मन्त्राः ऋग्वेदस्य विभिन्नमण्डलेषु समुपलब्धाः भवन्ति । 

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=मैत्रायणीसंहिता&oldid=423438" इत्यस्माद् प्रतिप्राप्तम्