यं संन्यासमिति प्राहुः...
श्लोकः
[सम्पादयतु]- यं सन्न्यासमिति प्राहुर्योगं तं विद्धि पाण्डव ।
- न ह्यसंन्यस्तसल्पो योगी भवति कश्चन ॥ २ ॥
अयं भगवद्गीतायाः षष्ठोध्यायस्य आत्मसंयमयोगस्य द्वितीयः(२) श्लोकः ।
पदच्छेदः
[सम्पादयतु]यं सन्न्यासम् इति प्राहुः योगं तं विद्धि पाण्डव न हि असंन्यस्तसल्पः योगी भवति कश्चन ॥
अन्वयः
[सम्पादयतु]पाण्डव ! यं सन्न्यासम् इति प्राहुः तं योगं विद्धि । असंन्यस्तसल्पः हि कश्चन योगी न भवति ।
शब्दार्थः
[सम्पादयतु]- पाण्डव = हे अर्जुन
- यम् = यम्
- संन्यासम् इति = कर्मसन्न्यास इति
- प्राहुः = कथयन्ति
- तम् = तम्
- योगम् = कर्मयोगम्
- विद्धि = जानीहि
- हि = यस्मात्
- असन्न्यस्तसङ्कल्पः = अभिलाषम् अपरित्यजन्
- कश्चन = कोऽपि
- योगी = कर्मयोगी
- न भवति = न भवति ।
अर्थः
[सम्पादयतु]श्रुतिस्मृतिविदः यं सन्न्यास इति वदन्ति तमेव कर्मयोगं मन्यस्व । कुतः ? यस्मिन् कर्मसन्न्यासो वर्तते तस्मिन् कर्मफलविषयकः अभिलाषो न भवति, तथा यस्मिन् कर्मयोगो वर्तते तस्मिन्नपि स कर्मफलविषयकः अभिलाषो न वर्तते । एवं कर्मफलविषयकाभिलाषत्यागस्य उभयत्र सावात् तयोः सादृश्यमिति तौ उभौ एक एव न अनेकः ।
शाङ्करभाष्यम्
[सम्पादयतु]ननु च निरग्नेरक्रियस्यैवश्रुतिस्मृतियोगशास्रेषु संन्यासित्वं योगित्वं च प्रसिद्धं कथमिह साग्नेः सक्रियस्य संन्यासित्वं योगित्वं चाप्रसिद्धमुच्यते इति।नैष दोषः। कयाचिद्गुणवृत्त्योभयस्य संपिपादयिशितत्वात्। तत्कथं कर्मफलसंकल्पसंन्यासात्संन्यासित्वं योगाङ्गत्वेन च कर्मानुष्ठामात्कर्मफलसंकल्पस्य वा चित्तविक्षेपहेतोः ।