यावानलः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
यावानलप्रभेदः
अन्यविधस्य यावानलः
यावानलसस्यम्
यावानलस्य बीजानि
त्वक्-रहितयावानलस्य राशिः
यावानलपुष्पम्
रक्तवर्णस्य मधुरयावानलः
विभिन्नानां वर्णानां यावानलः
श्वेतवर्णस्य मधुरयावानलबीजानि
यावानलक्षेत्रम्

अयं यावानलः अपि भारते वर्धमानः कश्चन धान्यविशेषः । अयं यावानलः सस्यजन्यः आहारपदार्थः । अयं यावानलः आङ्ग्लभाषायां Great Millet इति उच्यते । हिन्दीभाषायां जुअर् इति, ल्याटिन्-भाषायां Gramineae इति च वदन्ति । अयं यावानलः तृणकुले Gramineae कुले अन्तर्भवति । अयं यावानलः तस्य वर्णस्य अनुगुणं द्विधा विभज्यते । श्वेतः यावानलः, रक्तः यावानलः च इति । कर्णाटकस्य उत्तरभागे तु यावानलः प्रतिदिनस्य आहारः । तत्र गोधूमस्य रोटिकां वा, तण्डुलस्य ओदनं वा न सेवन्ते । अपि तु प्रतिदिनं यावानलस्य पिष्टेन निर्मितां रोटिकाम् एव खादन्ति । जूर्णः, यवनालः, शिखरी, वृत्ततण्डुलः, दीर्घनालः, दीर्घशरः, क्षेत्रक्षुः, इक्षुपत्रकः, जूर्णाह्वा, योनला, युगन्धरा, यावनालः, देवधान्यं, मौक्तिकतण्डुलः इत्यादीनि यावानलस्य अन्यानि नामानि । अनेन यावानलेन पौलिं, लाजाः, रोटिकां, यवसक्तु च निर्मान्ति । अयं यावानलः द्विविधः भवति । रोटिकानिर्माणस्य यावानलः भिन्नः एव भवति । सः लघ्वाकारकः भवति । अन्ये यावानले पुनः मधुरः यावानलः इत्यपि कश्चन प्रभेदः भवति ।

“यावनालो यवनालः शिखरी वृत्ततण्डुलः ।
दीर्घनालो दीर्घशरः क्षेत्रेक्षुश्चेक्षुपत्रकः ।
जूर्णाह्वा योनला प्रोक्ता यावनालायुगन्धराः ॥“ (धन्वन्तरीकोषः)


आयुर्वेदस्य अनुसारम् अस्य यावानलस्य स्वभावः[सम्पादयतु]

अयं यावानलः पचनार्थं जडः । अयं रूक्षः, शीतगुणयुक्तः, रुचिकरः च । अयं यावानलः मधुररुचियुक्तः ।

“रूक्षः शीतो गुरुः स्वादु सरोविद्वातकृद्यवः ।
वृष्यः स्थैर्यकरो मूत्रमेदःपित्तकफान् जयेत् ॥
पीनसश्वासकासोरुस्तम्भकण्ठत्वगामयान् ॥“ (अष्टाङ्गहृदयम्)
“कफपित्तहरा वृष्या मृदवो गुरवो हिमाः ।
रूक्षा विष्टम्भिनश्चैव पथ्या गुदरोगिणाम् ॥“ (धन्वन्तरीकोषः)
१. श्वेतः यावानलः त्रिदोषहरः, रुचिकरः, पथ्यः, गुल्मनाशकः च ।
२. रक्तः यावानलः उष्णः, कषायरुचियुक्तः च ।
३. यावानलः अस्थिरोगं निवारयति ।
४. अयं यावानलः रक्तं शुद्धीकरोति ।
५. यावानलः त्वक्-सम्बद्धान् रोगान् अपि निवारयति ।
६. यावानलः शरीरं शुष्कीकरोति, व्रणान् अपि बहुशीघ्रं निवारयति ।
७. यावानलः मलस्तम्भकः इति कारणतः गुदरोगिणः मितरूपेण सेवितुम् अर्हन्ति ।
८. यावानलः कफं पित्तं च निवारयति, वातं वर्धयति च ।
९. यावानलः वीर्यवर्धकः, मृदु, पचनार्थं जडः च ।
१०. वृष्टिकाले वर्धितः यावानलः किञ्चित्प्रमाणेन कफकारकः, नैर्यासगुणयुक्तः च ।
११. शैत्यकाले वपनं कृत्वा वसन्ते प्राप्तः यावानलः मधुरः, त्रिदोषहरः, बलवर्धकः च ।
१२. यावानलः शरीरस्य भारं वर्धयति ।
१३. यावानलः शरीरे जलांशं न्यूनीकृत्य प्रमेहनाशकरूपेण कार्यं करोति ।
१४. यावानलः प्रमेहिणां नित्यपथ्यः आहारः ।
१५. यावानलेन निर्मिताः यवलाजाः पचनार्थं लघवः, पचनशक्तिम् अपि वर्धयन्ति ।
१६. यवलाजाः वमनम्, अतिसारः, उदरे ज्वलनं, रक्तदोषः, प्रमेहः, स्थूलकायत्वं, पिपासा इत्यादिभिः समस्याभिः पीडितानां निमित्तम् अत्युत्तमाः ।
१७. यवसक्तु अपि पचनार्थं लघु, वीर्यवर्धकं च ।
१८. यवसक्तु जलेन सह वा, रात्रौ वा, भोजनेन सह वा न सेवनीयम् ।‎
"http://sa.wikipedia.org/w/index.php?title=यावानलः&oldid=250513" इत्यस्माद् पुनः प्राप्तिः