राजा रामण्णा

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्

फलकम्:Underlinked

राजारामण्णः (जनवरी २८, १९२५ - सेप्टेम्बर् २४, २००४) कश्चन अणुविज्ञानी, श्रेष्ठः भौतशास्त्रज्ञः च । भारतीयाण्वस्त्रकार्यस्य आरम्भस्तरे संशोधननिर्देशनं यत् एतेन कृतं तत् महत्त्वपूर्णम् अस्ति । अस्मिन् कार्ये १९६४ तमे वर्षे आत्मानं योजितवान् अयं होमिजहाङ्गीर्भभावर्यस्य मार्गदर्शने कार्यम् अकरोत् । ततः १९६७ तमे वर्षे स्वयं निर्देशनम् अकरोत् । अण्वस्त्राणां वैज्ञानिकसंशोधनस्य अवलोकनं विस्तारः च अनेन कृतम् । १९७४ तमे वर्षे 'स्मयमानः बुद्धः' इत्येतेन गूढनाम्ना विज्ञानिगणेन अण्वस्त्रपरीक्षाः याः क्रियन्ते स्म तस्य निर्देशाधिकारी आसीत् रामण्णः ।

रामण्णः दशकचतुष्टयं यावत् भारतीयाण्वस्त्रकार्यस्य निर्देशनम् अकरोत् । अपि च भारतीयसैन्यस्य कृते औद्योगिकरक्षणकार्याणां च आरम्भं कृतवान् । दशकचतुष्टयं यावत् भारतीयाण्वस्त्रकार्यस्य संवर्धनं निर्देशनं च तेन कृतम् इत्यतः सः भारतीयाण्वस्त्रकार्यस्य पिता इति निर्दिश्यते । अस्य कार्यार्थं तेन श्रेष्ठभारतीयपौरप्रशस्तिः प्राप्ता । रामण्णः २००४ तमे वर्षे ७९ तमे वयसि मुम्बयीनगरे दिवङ्गतः । वैज्ञानिकत्वेन भौतविज्ञनित्वेन च सः भारते पाकिस्थाने च बहु प्रसिद्धः । अणु-भौतशास्त्रेस्य संवर्धने सः श्रेष्ठत्वेन परिगण्यते ।

भारतीयाण्वस्त्रकार्यम्[सम्पादयतु]

भारतीयाण्वस्त्रकार्यं १९४७ तमे वर्षे जवाहरलालनेहरूवर्येण आरब्धम् । होमी जे बाबा आदौ निर्देशकः आसीत् । भौतशास्त्रे विद्यावारिधेः प्राप्त्यनन्तरं १९५४ तमे वर्षे भारतं प्रत्यागतः रामण्णः ज्येष्ठतान्त्रिकसहायकत्वेन भाभा-अणुसंशोधनकेन्द्रं (BARC) प्राविशत् । तत्र सः होमिजहाङ्गीरभाभावर्यस्य मार्गदर्शने अण्वस्त्रपरियोजनायां कार्यम् अकरोत् ।

भाभावर्यः साक्षात् कार्यस्य विषये अवधानम् अयच्छत्, रामण्णः अण्वस्त्रप्रयोगाय योग्यस्य क्षेत्रस्य चयनाय सूचितः । सः पोख्रान्क्षेत्रे अस्य कार्यस्य आरम्भं कृतवान् । होमिभाभावर्यस्य दुरन्तमरणस्य अनन्तरं झटिति रामण्णः तस्याः योजनायाः निर्देशनाधिकारित्वेन नियोजितः । सः प्रथमाण्वस्त्रस्य निर्माणे उद्युक्तः । आरम्भविन्यासः तदीये मार्गदर्शने समाप्तः । तन्निमित्तम् अपेक्षितस्य अण्वस्त्रस्फोटकवस्तुनः निर्माणं १९७० तमे वर्षे सम्पन्नम् । प्रथमम् अण्वस्त्रं यदा सिद्धं तदा रामण्णः तदानीन्तन-प्रधानमन्त्रिण्य्याः इन्दिरागान्धेः समीपम् अगच्छत् । इन्दिरागान्धिवर्या मौखिकरूपेण अङ्गीकारम् असूचयत् । अनुपदं रामण्णः पोख्रानं प्रति अगच्छत् यत्र तेन अण्वस्त्रक्षेत्रं निर्मितम् आसीत् । अत्यन्तं रहस्येन जागरूकतया च सज्जताः कृताः । अण्वस्त्रं ट्राम्बेतः पोख्रानं प्रति आनीतम् । क्षेत्रे अण्वस्त्रं समायोजितम् इन्दिरागान्धेः आगमनात् प्राक् । १९७४ तमस्य वर्षस्य मेमासस्य प्रातःकाले रामण्णः 'स्मयमानः बुद्धः' इति गूढनाम्ना युतस्य लघ्वण्वस्त्रस्य परीक्षाम् अकरोत् । परीक्षा सफला जाता । पत्रिकासु इन्दिरया स्थितौ रामण्ण-डा होमिसेथ्नयोः भावचित्राणि सर्वत्र प्रकाशितानि । इदं साधनं पुरस्कृत्य एव भारतीयश्रेष्ठपौरप्रशस्तिः सर्वकारेण प्रदत्ता । तेन अन्तराष्ट्रियप्रसिद्धिः प्राप्ता । भारतीय वैज्ञानिकः।

तदग्रिमेषु कालेषु अण्वस्त्रवर्धनस्य अवरोधकनियमाः तेन गभीरतया आरचिताः । पाकिस्थाने सम्पन्ने वार्षिक-अन्ताराष्ट्रियभौतशास्त्रसम्मेलने अयम् अणुभौतशास्त्रविषये, अणुशक्तिविषयेषु च भाषणम् अकरोत् । भारत-पाकिस्थानयोः शान्तिस्थापनाय, अण्वस्त्रप्रयोगस्य अवरोधाय च बहु प्रयत्नम् अकरोत् । १९८० - १९९० तमेषु वर्षेषु रामण्णः रक्षणसंशोधनसंवर्धनकेन्द्रस्य (डि आर् डि ओ संस्थायाः) निर्देशकत्वेन कार्यम् अकरोत् । २००० तमे वर्षे रक्षणमन्त्रिणः वैज्ञानिकमार्गदर्शकत्वेन दायित्वं निरवहत् । १९८४ तमे वर्षे सः अन्ताराष्ट्रिय-अणुशक्ति-संस्थां प्राविशत् । तस्य ३० त्तमे सम्मेलने आध्यक्षं निरवहत् ।

राज्यमन्त्री[सम्पादयतु]

१९९० तमे वर्षे वि पि सिङ्गस्य शासनावधौ रामण्णः राज्यरक्षणसचिवत्वेन नियुक्तः । राजनैतिकजनैः प्रोत्साहितः सः निर्वाचने राज्यसभासदस्यः जातः । २००० तमे वर्षे सः बेङ्गलूरुनगरे विद्यमानस्य न्याषनल् इन्स्टिट्यूट् फार् अड्वान्स्ड् स्टडीस् संस्थायाः प्रथमनिर्देशकः जातः ।

तन्नाम्ना विद्यमानसंस्था[सम्पादयतु]

राजारामण्ण सेण्टर् फार् अड्वान्स्ड् स्टडीस्

निरूढानि दायित्वानि[सम्पादयतु]

  • अध्यक्षः, निर्वहणसमितिः, भारतीयविज्ञानसंस्था, बेङ्गलूरु
  • निर्वहणसमितिः, जवहरलाल नेहरू सेण्टर् फार् अड्वान्स्ड् सैण्टिफिक् रिसर्च्, बेङ्गलूरु
  • अध्यक्षः, निर्वहणसमितिः, इण्डियन् इन्स्टिट्यूट् आफ् टेख्नालजि, बाम्बे
  • अध्यक्षः, भारतीयराष्ट्रियविज्ञानाकडमी
  • उपाध्यक्षः, इण्डीयन् अकाडेमि आफ् सैन्सस्
  • निर्देशकप्रमुखः, डि आर् डि ओ
  • रक्षणसंशोधनस्य कार्यदर्शी, भारतसर्वकारः
  • अध्यक्षः, अणुशक्तिसंस्था
  • कार्यदर्शी, अणुशक्तिविभागः
  • निर्देशकः, भाभा-अणुसंशोधनकेन्द्रम्
  • निर्देशकः, न्याषनल् इन्स्टिट्यूट् आफ् अड्वान्स्ड् स्टडीस्, बेङ्गलूरु

प्राप्ताः प्रशस्तयः[सम्पादयतु]

  • विज्ञानतन्त्रज्ञानाय शान्तिस्वरूपभट्नागर्प्रशस्तिः, १९६३
  • पद्मश्री, १९६८
  • पद्मभूषण, १९७३
  • पद्मविभूषण, १९७५

ग्रन्थः[सम्पादयतु]

रागे सङ्गीतविन्यासः पाश्चात्यव्यवस्था च ( The Structure of Music in Raga and Western Systems)

बाह्यशृङ्खला[सम्पादयतु]

""

"http://sa.wikipedia.org/w/index.php?title=राजा_रामण्णा&oldid=274444" इत्यस्माद् पुनः प्राप्तिः