लूयी पास्तग्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लूयीस् पाश्चर् इत्यस्मात् पुनर्निर्दिष्टम्)
लूयी पास्तग्
नाडरेण कल्पितम्
जननम् (१८२२-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम १-२७)२७, १८२२
Dole, France
मरणम् २८, १८९५(१८९५-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ९-२८) (आयुः ७२)
Marnes-la-Coquette, France
देशीयता French
कार्यक्षेत्राणि Chemistry
Microbiology
संस्थाः University of Strasbourg
Lille University of Science and Technology
École Normale Supérieure
Pasteur Institute
मातृसंस्थाः École Normale Supérieure
Notable students Charles Friedel[१]
प्रमुखाः प्रशस्तयः Rumford Medal (1856, 1892)
Copley Medal (1874)
Albert Medal (1882)
Leeuwenhoek Medal (1895)
हस्ताक्षरम्


(कालः – २७.१२.१८२२ तः २८.०९.१८९५)

अयं लूयी पास्तग् रोगनिरोधकक्रमस्य अन्वेषकः । अयं फ्रान्स्-देशस्य डूल् इति ग्रामे १८२२तमे वर्षे डिसेम्बरमासस्य २७तमे दिनाङ्के जन्म प्राप्नोत् । अस्य पिता चर्मकारः आसीत् । अत्यन्तं निर्धनः चेत् अपि लूयी पास्तग् अत्यन्तं कष्टेन विद्याभ्यासं कृत्वा रसायनशास्त्रे पाण्डित्यं सम्पादितवान् । पुत्रः कस्याञ्चित् प्रौढशालायाम् अध्यापकः भवेत् इति तस्य पितुः इच्छा आसीत् । लूयी पास्तग् पञ्चविंशतितमे वयसि डाक्टरेट् प्राप्य डैजान् इत्यत्र शिक्षकपदं प्राप्नोत् । तस्य कार्यनिष्ठतायाः, संशोधनस्य फलरूपेण बहुशीघ्रं स्ट्रास्बरोविश्वविद्यालये उद्योगं प्राप्नोत् । तदनन्तरं ३० वर्षाणि यावत् बहूनि अत्यद्भुतानि संशोधनानि अकरोत् । लघु वयसि एव लूयी पास्तग् बहूनि संशोधनानि यशस्वितया कृत्वा सर्वकारस्य दृष्ट्या अपि आदरं प्राप्नोत् ।

"डूल्"ग्रामे विद्यमानं लूयी पास्तग् यत्र जन्म प्राप्नोत् तत् गृहम्

अयं लूयी पास्तग् रसायनविज्ञानसम्बद्धं स्फटिकस्य ध्रुवणं परीक्ष्य तत्र द्विविधं स्फटिकं संशोधितवान् । तस्मात् कारणात् सावयवानां रासायनिकानां संरचनायाः अध्ययनस्य साहाय्यम् अभवत् । बीट्रूट्शर्करया निर्मीयमाणं मद्यं तदा तदा नष्टं भवति स्म । अयं लूयी पास्तग् तत् परीक्ष्य तस्य नाशार्थम् “ईस्ट्” इत्याख्याः सूक्ष्माणुजीविनः एव कारणम् इति सूक्ष्मदर्शकस्य साहाय्येन संशोधितवान् । १२० डिग्रि फ्यारन् हीट् इत्याख्ये औष्ण्ये मन्दं मद्यम् उष्णीकृतं चेत् तस्य नाशकाः ईस्ट्सूक्ष्मजीविनः मरणं प्राप्नुवन्ति इत्यपि संशोधनेन ज्ञातवान् । तथा उष्णीकरस्य क्रमस्य “पास्तगैसेषन्” इति नामकरणम् अपि अकरोत् लूयी पास्तग् । तम् एव क्रमम् इदानीं क्षीरस्य उष्णीकरणे अनुसरन्ति ।

एतं लूयी पास्तग् इत्यनेन संशोधितं “पास्तगैसेषन्” क्रमं जोसेफ् लिस्टर् नामकः आङ्लविज्ञानी वैद्यविज्ञाने उपयुक्तवान् । कार्बालिका-आम्लसदृशैः पूतिनाशकैः क्षालनेन वातावरणे विद्यमानाः क्रिमयः व्रणं यत् प्रविशन्ति तत् निवारयितुं शक्यते इत्यपि सः अदर्शयत् । ईस्ट्-सूक्ष्माणुजीविनां परीक्षणानन्तरं लूयी पास्तग् ब्याक्टीरियासदृशाणां सूक्ष्मजीविनां विषये विस्तृतरूपेण अध्ययनम् अकरोत् । लूयी पास्तग् १८६५तमे वर्षे फ्रान्स् गत्वा रोगकारणां ब्याक्टीरियाणां मारणपद्धतिं पाठितवान् । आरोग्यकरेभ्यः अण्डेभ्यः अनारोग्यकराणि अण्डानि पृथक् करणक्रमं बोधयित्वा कौशेयस्य उद्यमं रक्षितवान् । तदनन्तरं तस्य अभिरुचिः साङ्क्रामिकरोगाणां विषये उत्पन्ना । सः १८८०तमे वर्षे कुक्कुटानां कालरारोगस्य कारणीभूतान् ब्याक्टीरियान् संशोधितवान् । दुर्बलान् रोगाणून् आरोग्यमतेषु कक्कुटेषु प्रवाह्य तेषां कुक्कुटानां रोगनिरोधकशक्तेः जागरणम् अकरोत् । तस्मात् कुक्कुटाः तस्मात् कालरारोगात् रक्षिताः अभवन् । एतम् एव क्रमम् अजान्, गोवृषभान् च अन्थ्राक्स्-रोगात् रक्षणाय अनुसृतवान् ।

लूयी पास्तग् यदा बालकः आसीत् तदा तस्य ग्रामे अष्टाधिकाः जनाः उन्मत्तस्य शुनकस्य दशनेन प्राणवियुक्ताः आसन् । तान् समीपात् दृष्टवतः लूयी पास्तग् इत्यस्य मनसि तदर्थं किमपि औषधं संशोधनीयम् इति इच्छा प्रबलरूपेण उत्पन्ना आसीत् । तदर्थं सः सहस्रशः प्रयोगान् अकरोत् । केचन प्रयोगाः तु अपायकराः आसन् । दुर्बलीकृतं विषं (वैरस्) अरोगवतां शुनकानां शरीरे प्रवेश्य तेषां रोगनिरोधशक्तेः वर्धनं दृष्टवान् आसीत् । तम् एव प्रयोगं प्रथमवारं मानवानां विषये कृतवान् । सः कस्यचित् बालकस्य शरीरे तत् दुर्बलीकृतं विषं प्रावेशयत् । दश दिनानि यावत् क्रमशः दुर्बलतः किञ्चित् किञ्चित् प्रबलं विषं बालकस्य शरीरे प्रावेशयत् । आश्चर्यं नाम बालकः मरणं न प्राप्तवान् । अनेन प्रयोगेण उन्मत्तानां शुनकानां दशनस्य निमित्तम् औषधस्य संशोधनम् अकरोत् । एतत् एव तस्य लूयी पास्तग् इत्यस्य प्रमुखं संशोधनम् इति मन्यते ।

अनेन लूयी पास्तग् इत्यनेन प्राणिनां मानवानां च विषये ये प्रयोगाः कृताः ते सर्वे अपि अस्मासु आश्चर्यं जनयन्ति । यतः सः यद्यपि वैद्यः नासीत् तथापि तेन आविष्कृतानि तत्त्वानि अग्रे वैद्यकीये क्षेत्रे महतीं क्रान्तिम् एव अजनयन् । पार्श्ववायुरोगेण अङ्गविकलः चेदपि, ज्येष्ठः पुत्रः मृतः चेदपि सः लूयी पास्तग् स्वकार्यात् विमुखः नाभवत् । ७३ वर्षाणि यावत् जीवितवान् एषः लूयी पास्तग् १८९५तमे वर्षे सप्टेम्बर्-मासस्य २८तमे दिनाङ्के निद्रावसरे एव इहकोकम् अत्यजत् ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

  1. Asimov, Asimov's Biographical Encyclopedia of Science and Technology 2nd Revised edition
"https://sa.wikipedia.org/w/index.php?title=लूयी_पास्तग्&oldid=482881" इत्यस्माद् प्रतिप्राप्तम्