शुनकः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्

शुनकः गार्ह्यपशुः अस्ति। प्रायः ४ कोटिवर्षेभ्यः पूर्वं भूमौ मयासिस् इति क्रूरजन्तुः आसीत्। मयासिस् एव शुनकस्य पूर्वजाः इति उहयन्ति। १२ सहस्रवर्षेभ्यः पूर्वं मानवस्य सन्निहिताः आसन् इत्यस्मिन् विषये अधाराः लभ्यन्ते। भारतीय पुराणादिषु शुनकस्य उल्लेखाः सन्ति। मृगयार्थं श्वानस्य उपयोगं सर्वदा पूर्विकाः कुर्वन्तिस्म। युद्धे, एवं गृहादिरक्षणार्थम् उपयोगं कुर्वन्ति। अस्य मुख्यः गुणः घ्राणशक्तिः भवति। अद्यापि विश्वे “श्वानदळः” रक्षणाकार्ये सर्वदा सन्नद्धोऽस्ति। वैद्यकीय संशोधनकार्येषु शुनाकानां उपयोगः नितराम् अस्त्येव। शुनकेभ्यः संशोधितम् औषधं आदौ परीक्षार्थं दास्यन्ति इति।

गुणाः[सम्पादयतु]

सिंहादेकं बकादेकं शिक्षेच्चत्वारि कुक्कुटात्।
वायुसात्पञ्च शिक्षेच्च षट् शुनस्त्रीणि गार्दभात्॥
अनेन श्लोकेन शुनकेभ्यः षट् गुणाः ज्ञातव्याः भवन्ति इति ज्ञायते। के ते गुणाः,
बह्वाशीः स्वल्पसन्तुष्टः सुनिद्रो लघुचेतनः।
स्वामिभक्तश्च शूरश्च षडेते श्वानतो गुणाः॥

  • सप्रसङ्गभोजनम्
  • अल्पतृप्तः
  • गाढनिद्रा
  • लघुचेतनः
  • स्वामीभक्तः
  • शूरः

जातयः[सम्पादयतु]

नाम भारः(किलो प्रमाणे) औन्नत्यम्(अङ्गुलप्रमाणे) वर्णः वैशिष्ट्यम्
अल्सेषियन् २८-४० १९-२५ कृष्णः,धूम्रः,पीतः, सुरक्षापटुः
डोबर्मन् २०-२८ २५-२७ कृष्णः,धूम्रः, सुरक्षापटुः
कालि २५-३० २०-२६ श्वेतः, कृष्णः सुरक्षापटुः
बुल् मास्टिफ् ४०-५० २५-२७ रक्तः, कृष्णमुखः,बलिष्ठः
डाष् हण्ड् ५-११ ८-११ श्वेतः,पीतः दीर्घदेहयुक्तः वामनः, गृहबालानां मित्रता अतीव सुलभा अस्य
मुधोळ हौण्ड् २२-२८ २३-२८ श्वेतः, पीतः, रक्तः, कृष्णः सुरक्षापटुः, मृगयापटुः
आफ्घन् हौण्ड् ३०-३५ २७-३२ श्वेतः, कपिषः शान्तः, सुरक्षापटुः
ऐरिष् सेट्टर् २७-३२ २५-२७ रक्तः, कपिषः मृगयापटुः
बीगल् १४-१७ १२-१७ कृष्णः, श्वेतः, पीतः निपुणाग्रेसरः
पोमेरेनियन् १.५-३.५ ९-११ कृष्णः, कपिषः,श्वेतः क्रीडाचतुरः
स्पिट्ज् ८-१५ १०-१८ श्वेतः, कृष्णः, कपिषः स्वेच्चाचारी, कोपिष्टः
माङ्ग्रेल्स् - - - सुरक्षापटुः
सेण्ट बर्नार्ड् ७०-९५ २४-३६ रक्तः,श्वेतकृष्णमिश्रुतः रक्षणापटुः
राट् वीलर् ४०-४५ २३-२८ कृष्णः, कपिषः सुरक्षापटुः
नेपोलियन् मास्टिफ् ५०-७० २६-२९ कृष्णः, कपिषः, रक्तः आक्रमणकारि
काकर् स्पेनियल् १३-१६ १६-१७ कृष्णः, रक्तः, स्वर्णवर्णः रोमभरितः
गोल्डन् रिट्रैवर् - - स्वर्णवर्णः मृगयापटुः
जाक् रसेल् टेरियर् ७-८ १२-१४ श्वेतः, कृष्णः, कपिषः साहसपटुः
बुल् डाग् २०-२५ १६-१८ श्वेतः, रक्तः सुरक्षापटुः
ग्रेहौण्ड २४-३६ २६-३० श्वेतः, कृष्णः, कपिषः,रक्तः धावनपटुः
डाल्मेषियन् २२-२५ २१-२४ श्वेतः(कृष्णः उत् कपिषवर्णस्य बिन्दवः भवन्ति) सुन्दरः, मृगयापटुः
ल्हासाप्सो ६-७ १०-११ श्वेतः, कृष्णः, कपिषः सुरक्षापटुः
ल्याब्रडार् रिट्रैवर् २४-३४ २२-२४ कृष्णः, कपिषः स्नेहजीवि,
ग्रेट्डेन् - २८-४२ - दैत्यकायः,मृदुस्वभावः
पूडल् - १०-१५ श्वेतः, रजतवर्णः,रक्तः कपिषः -
पग् ६-८ १०-११ रजवर्णः कृष्णमुखी
बसेट् हौण्ड् २३-२८ १३-१४ - मृगयापटुः
ब्लड् हौण्ड् ४०-४५ २४-२६ - प्रत्यभिज्ञानपटुः
बसेञ्जे ९-१० १६-१७ - नभषति
शार् पी १६-२५ १६-२४ - रक्षणापटुः

आहारः[सम्पादयतु]

वैद्यानां सलहानुसारेण निद्रिष्टम् आहारं देयं भवति। मनष्याणां खाद्यवस्तूनि नदेयानि। उदाहरणार्थं बिस्कत्, चाकलेहः, पयोहिमम्, फिज्जादीनि नदेयानि भवन्ति। शुनकेभ्यः दिनेषु देयाहारप्रमाणम् (ग्राम् परिमिते)

वयः लघुशुनकः मध्य(गात्र)शुनकः बृहद्शुनकः अतीवबृहद्शुनकः दिने कतिवारं
३मासपर्यन्तम् २००-३५० २५०-६०० ६००-८५० ७५०-९५० ५-६
३-६ मासपर्यन्तम् ३५०-८०० ७००-१००० ८००-१६०० १०००-२००० ३-४
६ मासानन्तरम् ७५०-९५० ८६०-१६०० १६००-२००० २०००-३००० २-३

स्नानम्[सम्पादयतु]

शुनकेभ्यः जन्मात् ८-१० सप्ताहादनन्तरमेव स्नादिकं कारणीयम्। प्रतिनित्यम् अनपेक्षते। ३-४ सप्ताहेषु एकवारं स्नानादिकं कारणीयम्। श्वानफेनकस्यैव उपयोगः कर्तव्यः। अस्मिन् समये श्वुनकस्य कर्णयोः कार्पासं स्थापनीयम् अन्यथा जलं कर्णयोः प्रविश्य पीडाभवेत्।

औषधम्[सम्पादयतु]

रोगनिरोधकौषधानि सकाले देयानि भवन्ति। रेबिस्, डिस्टेम्पर्, पार्वो, हेपटैटिस्, लेप्टोस्टैरोसिस्, प्यारायिन्फ्लुयेन्जा, करोनाच शुनकसम्बन्धितरोगाः भवन्ति। एतेभ्यः रोगेभ्यः रक्षणार्थं सकाले वैद्यस्य समीपे नयनादिकं सुकरं भवति। शिशुभ्यः मासद्वये एकवारं रोगनिरोधकौषधं देयम् इति।

वीथिका[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=शुनकः&oldid=273816" इत्यस्माद् पुनः प्राप्तिः