विकिपीडिया:संस्कृतविकिलेखाभियानम् २०१८/प्रारूपम्/आर्यभट्ट-प्रेक्षणविज्ञान-शोधसंस्थानम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

आर्यभट्ट-प्रेक्षकविज्ञानशोधसंस्थानम् इति इदं उत्तराखण्डराज्यस्य नैनितले अग्रवर्ति शोधसंस्थानं वर्तते। यत्र ज्यौतिषशास्त्रं, खगोलविज्ञानं, आन्तरिक्षविज्ञानं च इत्येतानि विशिष्टविषयाः सन्ति। भारतसर्वकारस्य वैज्ञानिकसाङ्केतिकशाखायाः अधीने विद्यमाना काचित् स्वायत्तसंस्था इदं शोधसंस्थानं प्रतिष्ठापितवती। इदं शोधसंस्थानं मनोरा पीक् इत्यत्र (1,951 मीटर्स् (6,401 पदानि)) संस्थापितं वर्तते । यच्च सुप्रसिद्धपर्वतस्थानकात् नैनितल् इत्यस्मात् 9 कि.मि परिमितदूरे वर्तते। नाक्षत्रिकप्रेक्षणकेन्द्रं जनानां कृते संदर्शनार्थं कार्यदिवसेषु अपराह्नेषु उद्घाटितं भवति। रात्रौ सन्दर्शनार्थं तु अवसरप्राप्तिः किञ्चित् क्लेशकरः एव। तदर्थं पूर्वानुमतिः प्राप्तव्या भवति। यतो हि यासु रात्रिषु चन्द्रप्रकाशः कौमुदी वा अधिका भवति ताः रात्र्यः पूर्वमेव आरक्षिताः भवन्ति।

इतिहासः डा.ए.एन्.सिंह महोदयस्य पर्यवेक्षणे इदं शोधसंस्थानं 1954 तमे वर्षे एप्रिल् मासस्य 20 तमे दिनाङ्के उत्तरप्रदेशराज्यस्य प्रेक्षणत्वेन सर्वकारीयसंस्कृतमहाविद्यालयस्य प्राङ्गणे समारब्धम्। यश्च संस्कृतमहाविद्यालयः अधुना उत्तरप्रदेशस्य वाराणस्यां सम्पूर्णानन्दसंस्कृत-विश्वविद्यालयः इति नाम्ना प्रथते।