विकिपीडिया:संस्कृतविकिलेखाभियानम् २०१८/प्रारूपम्/सुकान्तभट्टाचार्यः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

सुकान्त-भट्टाचार्यः(१५ अगस्त्, १९२६ - १३ मे १९४७) वंगसाहित्ये मार्कसवादीभावनया प्रभावितः विश्वासी प्रगतिशीचेतनायाः अधिकरी तरुणकविः।

जन्मपरिवारश्च[सम्पादयतु]

पितरौ निवारणभट्टाचार्यः सुनीतिदेवी च। १९२६ ख्रीस्ताब्दस्य १५अगस्तमध्ये मातामहस्य ४३,महिम हालदार मार्गे कलिकातायाः कालीघाटे अजायत्। तस्य पूर्वजानां निवासः असीत् फरिद्पुरजिलायां, वर्तमाने गोपालगञ्जजिलायाः कोटालीपाडा इति उपजिलायाम् उनशियाग्रामे। एके निम्नवित्तपरिवारे अजायत्। वेलेघाटा-देशवन्धुविद्यालयात् १९४५ ख्रीष्टाब्दे प्रवेशिकापरीक्षायां भागं गृहीत्वा अकृतकार्यमलभत्। अस्मिन् समये छात्रान्दोलनेन च वामपन्थीराजनैतिककर्मकाण्डेन सह नियुक्तत्वात् तस्य शिक्षालाभस्य पश्चिमत्वं प्राप्तम्। सुकान्तस्य वाल्यवन्धः आसीत् अरुणाचलवसुः। सुकान्तसमग्रे सर्वाः चिटिकाः अरुणचलवसु इत्यस्मै लिखिताः। अरुनाचलवस्वोः माता सरलावसुः सुकान्तं पुत्रसमं पश्यति। सुकान्तः वाल्यकाले माताहीनः भवति चेदपि सरलावसु तस्य मातृस्नेहाभावं पूरितवती। कवेः जीवनस्य अधिककालः कलिकातायाः वेलेघाटा ३४ हरमोहन-घोषमार्गस्थितस्य प्रगोष्ठे यापितनान्। इदानीमपि तत् गृहम् पूर्ववदेव अस्ति। तस्य पार्शे निवसति कवेः एकमात्रं भ्राता विभासभट्टाचार्यः। पश्चिमवङअगस्य प्राक्तनमुख्यमन्त्री वुद्धदेवभट्टाचार्यः सुक्तान्तस्य भातुष्पुत्र एव।

प्रगतिशीला राजनीतिः

द्वतीयविश्वयुद्धः, त्रिचत्वरिंशतः मन्वन्तरं , फ्यसीवाद इत्यस्य आक्रमणं, साम्प्रदायिकासहनीयता, इत्यादेः विरूद्धं गत्वा लिखितवान्। १९४४ ख्रीष्टाब्दे भारतवर्षस्य कमिउनिष्टपार्टि इत्यस्य सदस्य पदमलभत्। तस्मिन् संवत्सरे आकाल इति नाम्ना एकः संकलनग्रन्थः तेन सम्पादितं प्रकाशितञ्च। कैशरे एव साम्यवादीराजनीतेः संयुक्तः आसीत् । पराधीनदेशस्य दुःखजनितवेदना च शोषणमुक्तस्वीनसमाजस्य स्वप्नं, शोषितजनानां कर्मजीवनं च भविष्यतकाले संग्रामं कर्तुं इत्यादि विषये तस्य पद्यं अस्मारं प्रेरणाभूतं भवति। १९४१ ख्रीष्टाब्दे सुकान्तः कलिकातायां गल्पदादुर आसर इति अनुष्ठानमध्ये योगदानं कृतवान्। तत्र आदौ स रवीन्द्रनाथस्य कविता श्रावितवान्। रवीन्द्रनाथस्य मरणोत्तरकाले स्वलेखं पठित्वा तं श्रद्धां ज्ञापितवान्। गल्पदादुर आसर इति अनुष्ठाने तेन लिखतं गीतं मनोनीतं जातमपि च तस्य गीते सुरं अददत् तत्कालीकश्रेष्ठगायकः पङ्कजमल्लिकः। सुकान्तं वयं कविरुपेणैव जानिमः। किन्तु रवीन्द्रनाथः यथा न केवलं कविरासीत्। साहित्यस्य सकलक्षेत्रे तस्य अवाधगतिरासीत् तथैव सुकान्तः अपि तदा पद्यगीतगल्पनाटकप्रवन्धञ्च लिखितवान् । प्रवन्धस्य पठनेन एव ज्ञायते यत् तस्मिन्नेव वयसि वङ्गछन्दसः न केवलं करायत्वं कृतवान् अपि तु दक्षतापि आसीत्।

साहित्यकर्म

उपनववयसि एव सुकान्तः लेखनमारब्धवान्। विद्यालये सञ्चय इति पत्रिकायां हास्यरसविषयकगल्पं लिखित्वा स्वात्मानं प्रकाशितवान्। ततः परं विजनगङ्गोपाध्यायस्य शिखा इति पत्रिकायामादौ तस्य लेखः विवेकानन्दस्य जीवनी विषये प्रकाशितः। एकादशे वयसि राखाल् छेले इति चम्पूकाव्यं रचितवान्। कालन्तरे तस्य हरताल इति पुस्तके संकलितम्। एतदपि ज्ञातव्यं यत् पाठशालायां पठनकाले ध्रुव इति नाटिकायाः अभिनयं कृतवान् सुकान्तः। सप्तमश्रेण्यां पठनकाले मित्रेण अरुणाचलवसुना सह मिलत्वा हस्तनिर्मितां पत्रिकां सप्तमिका इति सम्पादनं कृतवन्। अरुणाचलेन सह तस्य आमृत्युपर्यन्तं मित्रता आसीत्। मार्कवादमध्ये आस्थाशीलः सुकान्तः कविरूपे वङ्गसाहित्ये स्वतन्त्रस्थानमलभत्। सुकान्तः जनानां कविः। असहापीडितानां सुखदुखमेव तस्य पद्यस्य प्रधानविषयः। पीडितानां जनानां अधिकाररक्षणाय अत्याचरीमहाजनानां विरूद्धे नजरुल इव सुकान्तोऽपि सक्रियः। सर्वस्याः शोषनवञ्चनायाः सुकान्त आसीत् विरूपः। स तस्य पद्यस्य नैपुण्येन समाजस्य श्रेणीवैषम्यं दुरीकर्तुं वद्धपरिकरः। मानवतायाः जयलाभेः स आसीत् दृढसंग्रामशीलः। असुस्थतार्थाभावेन स कदापि निर्दीप्तः न जातः। मानवकल्यानाय सुकान्तः आसीत् निरन्तरनिवेदितः। मानवचेतनया उद्वुद्धः सः आन्दोलनस्य पन्थानमङ्गीकृतवान्। तस्य अग्निदीप्तोत्साहेन जनैः सर्वाः प्रतिवन्धकताः अतिक्रान्तुं शक्ताः। मानविकचेतनया उद्वद्धः सन् कविसुकान्तः वङ्गकाव्यधारायां आमूलपरिवर्तं कृतवान्। सुकान्तः कमिउनिष्टदलस्य पत्रिकायाः दैनिकस्वाधीनतायाः (1945) किशोर सभा इति विभाग सम्पादयति स्म। मार्कवादीचेतनायाः आशावादी पद्यकारः सुकान्तः वङ्गसाहित्ये स्वतन्त्रं स्थानं अलभत्। तस्य पद्ये अनाचारवैषम्ययोः विरुद्धे प्रतिवादः प्रकटितः यत् पठित्वा पाठकाः संचकिताः सञ्जाताः। जनानां प्रति ममत्वं प्रकटितंं तस्य पद्ये। तस्य रचनावलीमध्ये विशेषरूपे उल्लेखयोग्यानि एतानि - छाडपत्र (1947), पूर्वाभास (1950), मिठेकडा (1951), अभियान (1953), घुम नेइ (1954), हरताल (1962), गीतिगुच्छः (1965) प्रभृति। काले उभयोः वङ्गदेशाभ्याम् ( पश्चमवङ्गं च वङ्गदेशः) तस्य पद्यं प्रकाशितम्। सुकान्तः फ्यासीवादविरोधीनां लेखकानां च शिल्पीसंघानुसृतानां पक्षे आकाल(1944) इति काव्यग्रन्थं सम्पादितवान्। सुकान्तः विषयचित्रने च लैखिकदक्षतायां अनन्यः। साधारणविषयोऽपि तस्य पद्ये निवद्धः। गृहस्य भङ्गवेदिकापि प्रकाशिता। सुकान्तस्य पद्यं सर्वान् वाधान् अतिक्रान्तुं प्रचोदयति। जीवने सर्वान् दुःखान् वाधाश्च पराजेतुं साहसः सुकान्तस्य पद्यात् लभ्यते। तारुण्यशक्त्या जनान् उन्नतशिरसा स्वमर्यादया जीवितुं अह्वयति। सुकान्तस्य पद्येन जना साहसी च उद्दीप्तः भवति। तस्य प्रधानवक्तव्यः साम्यवाद एव येन जनाः नवरूपेण जीवति। स्वल्पजीवनकाले वङ्गसाहित्यं भिन्नरूपेण समृद्धः कृतस्तेन। रवीन्द्रनाथनजरुलदिजेन्द्रलालजीवनानन्दः तत्कालीकसमये महाकवि रुपे परिचितः तथापि तेषां प्रभावे सुकान्तः विलीनः न अभूत्। तस्य प्रमाणं स्थापितं स्वप्रतिभया, मेधया, मननेन। सुकान्तः परिणतभावनया वयःसीमां उल्लङ्घनं कृतवान्। मानसिकरूपे सुकान्तः वयः अपेक्षया स्वात्मानम् अधिकरुपेण अग्रे सारितवान्।

मृत्युः

विप्लवी च स्वाधीनतासंग्रामाीकविः सुकान्तः कमुउनिष्टदलस्य निरविच्छिन्नकर्मकर्ता। दलसंगठननिमित्तं अत्याधिकपरिश्रमेण शरीरस्योपरि क्षीणदृष्टिः एव आदौ म्यलेरिया इति व्याधौ च परं दुरारोग्यक्षयव्याधौ 1947 ख्रीष्टाब्दस्य 13 मे एकविंशतितमे वयसि कलिकातायाः 119 लाउडट् मार्गस्य रेड् एड् किओर आश्रयालये पञ्चत्वं प्राप्तवान्। एकविंशतेः वत्सरस्य षट् वा सप्तः वा संवत्सरं यावत् लिखितवान्। सामान्यसमये एव स्वात्मानं कविरुपेण प्रतिष्ठतवान्। तस्य रचना स्वल्परिसरा परन्तु व्याप्तिः सुदूरप्रसारी।