विकिपीडिया:स्तम्भपञ्चकम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

विकिपीडिया येषां मूलभूतसूत्राणाम् आधारेण कार्यप्रवृत्ता अस्ति तानि स्तम्भपञ्चकम् इति नाम्ना निर्दिश्यन्ते ।

स्तम्भपञ्चकम् :

Blue pillar (1: Encyclopedia)
विकिपीडिया कश्चन अन्तर्जालीयः सर्वविज्ञानकोशः ।
अत्र सामान्यविज्ञानकोशानां तथैव विशेषविज्ञानकोशानां, पञ्चाङ्गानां, वार्तापत्राणां च अंशाः विद्यन्ते। अयं विज्ञापिकामाध्यमः न, न वा अव्यवस्थितः विषयसङ्ग्रहः, न च अधिकृत-विषयसूची । नाप्ययम् अराजकतायाः प्रजाप्रभुत्वस्य वा प्रयोगाय भवति । अयं शब्दकोशः न, नापि च वृत्तपत्रिका अथवा मूलग्रन्थानां सङ्ग्रहः। तादृशाः विषयाः विकिमाध्यमस्य सहजातयोजनासु नेयाः ।
Green pillar (2: NPOV)
विकिपीडियालेखाः तटस्थदृष्ट्या लिखिताः भवेयुः ।
अत्र लेखाः तथा स्युः यथा तेषाम् अभिप्रायः समदृष्ट्या पक्षपातं विना च विवृताः । कस्यचित् पक्षस्य समर्थनं, विवादञ्च विना विषयस्य प्रतिपादनमेव अस्माकम् उद्देश्यम् । केषुचित् क्षेत्रेषु प्रसिद्धः एकः एव अभिप्रायः भवेत् अन्येषु अनेके अभिप्रायाः अपि स्युः । वयं तु सर्वान् तान् प्रकरणानुगुणं निष्कृष्य तथा प्रस्तुमः यथा कुत्रचिदपि अयमेव उत्तमः अभिप्रायः अथवा साधुः इति आग्रहः अस्माकं न भवेत् । सर्वे लेखाः सप्रमाणं लिखिताः स्युः । आधाररहिताः लेखाः निष्कास्येरन् । अतः प्रमाणम् उल्लेखनीयम् । सम्पादकानां वैयक्तिकाः अनुभवाः, विवरणानि, विचाराश्च अत्र न भवेयुः । अर्थात् परिशीलनयोग्याः प्रमाणभूताः आकराः उदाहरणीयाः - तत्रापि विवादास्पदविषयेषु जीवत्पुरुषसम्बद्धेषु लेखेषु ।
Yellow pillar (3: Free)
विकिपीडियालेखाः सर्वस्वतन्त्राः यान् यः कोऽपि सम्पादयितुम् उपयोक्तुं परिष्कर्तुं संविभक्तुं च अर्हति ।
कृतिस्वाम्यम् आद्रियताम् । अस्वतन्त्रविषयाणाम् औचित्यपूर्णः उपयोगः अनुमन्यते । यावच्छक्यं स्वतन्त्रविषयान् एव विकिपीडियायां योजयितुं प्रयत्नः क्रियताम् । यतो हि भवतां सर्वाणि अपि योगदानानि समुदायस्य उपयोगाय भवन्ति । न कोपि सम्पादकः कस्यचित् लेखस्य स्वाम्यं वहति । भवद्भिः लिखितं समग्रमपि येन केनापि पुनः सम्पाद्येत सर्वैः उपयुज्येत च ।
Orange pillar (4: Code of conduct and etiquette)
सम्पादकाः परस्परं गौरवेण व्यवहरेयुः ।
भिन्नाभिप्राये सत्यपि विकिपीडिया-मित्राणि गौरवादरेण पश्यतु । विकिपीडियाशिष्टाचारं परिपालयन्, वैयक्तिकारोपान् परिहरतु । सहमतिः भवतु, सम्पादने कलहः मास्तु । स्मर्यतां यत् संस्कृतविकिपीडियायां १२,१४८ लेखाः विचाराय सन्ति इति । सर्वदा कार्यश्रद्धा भवतु कस्यचित् अंशस्य समर्थनाय विकिपीडिया-व्यवस्थाभङ्गं न करोतु । विशालमनोभावेन विश्वासेन च अन्यान् अभिनन्दयतु । विप्रतिपत्तौ सत्यां सम्भाषणपृष्ठे विचारविनिमयं करोतु विवादपरिहारनीतीः अनुसरतु ।
Red pillar (5: Ignore all rules)
विकिपीडियायाः स्थिराः नियमाः न भवन्ति ।
विकिपीडियायाः नियमाः शिलालिखिताः न । कालेन तेषु परिवर्तनमपि भवेत् । विकिपीडियायाः सूत्राणां तथैव च तस्याः विधीनाम् अक्षरशः पालनं नात्र उद्दिष्टम् । अपि तु तेषाम् आशयः अवगन्तव्यः । एवञ्च विकिपीडियावर्धनाय विधेः अपवादः अपि कदाचित् भवेत् । लेखानां सम्पादने निर्विशङ्कं प्रवर्ततां (परम् अविचार्य न) । प्रमाद्येत मया इति चिन्ता मास्तु । पृष्ठानां पूर्वतनावृत्तयः रक्षिताः भवन्ति । अतः पुनः परिष्कारः शक्यः एव ।