शब्दमालिन्यम्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
विमानयानमेकं भूमेः निकटे एव विहरत् वर्तते

ध्वनिः न्यूनाधिकः भवितुमर्हति । इयमेव भवति ध्वनेः तीब्रता । अयं हि तीब्रता यदि न्य़ूना भवति, तर्हि ध्वनिः कर्णप्रियः भवति । अर्थात् यदि अस्य तीब्रता न्यूना भवति, सामान्या वा भवति, तर्हि सः ध्वनिः कथ्यते । परं यदि तीब्रता अधिका भवति, तर्हि सः ध्वनिः गर्जनम् (शोर) इति कथ्यते । अर्थात् तीब्रतरः ध्वनिः क्र्णविदारकः भवति । अतः सः ध्वनिरिति न भवितुमर्हति , स तु गर्जनं(शोर) भव्ति । अपि च इदं गर्जनमेव भवति ध्वनिप्रदूषणस्य कारणम् । अपि च इदं गर्जनमेव भवति ध्वनिप्रदूषणस्य कारणम् । ध्वनिः शब्दः भवति । भवन्तः जानन्ति एव शब्दः नित्यः भवति । अस्य नाशः कदापि न भवति । अयं सदा आकाशे निवसति । अतः ये गर्जनात्मकाः ध्वनयः ते आकाशं गत्वा स्वस्थानं गृह्णन्ति । एवं प्रकारेण वायुमण्डले बहवः गर्जनात्मकाः ध्वनयः सन्निहिताः सन्ति, येन वयमपेक्षितमपि ध्वनिं श्रोतुं न परयामः । इदमेव भवति ध्वनिप्रदूषणम् ।

अलेग्जेण्डरग्राहमबेलमहोदयाः ये दूरभाषयन्त्रस्य आविष्कारः कृतवन्तः ध्वनिमापनाय एकस्य ध्वनिपरिमापस्याऽपि आविष्कारः कृतवन्तः । अस्य मानकं भवति डेसीबेल (डी.बी.) । अर्थात् डेसीबेल अस्य मानकस्य ऎककं भवति । एकः डेसीबेल इति, बेल इत्यस्य दशांशः भवति । अयं हि डेसीबेल ध्वनेः सः परिमापः अस्ति यं ध्वनिं जनाः श्रोतुं पारयन्ति । अर्थात् ध्वनेः न्य़ूनतमः परिमापः भवति डेसीबेल । अयं हि परिमापः लघुगुणकसिध्दान्तस्याधारे नीर्मितः अस्ति । अस्यानुसारेण न्यूनतमः परिमापः डेसीबेल भवति, १० डेसीबेल ध्वनिः दशगुणितः भवति । उदाहरणार्थं जनानां परस्पर-ऎकान्तिकं वैचारिकं विमर्शं १० डी.बी. ध्वनिः भवति । तथैव ध्यानमग्नजनयोः वार्तालापः २० डी.बी. ध्वनिः भवति । अथ च सामान्यः सामूहिकः वार्तालापः ३० डी.बी. ध्वनिः भवति । एवमेव सामान्यरुपेण प्रचलतां आकाशवाणि –दूरदर्शनयन्त्राणां ध्वनिः ५० डी.बी. भवति अयं हि ध्वनिः न्यूनतमपरिमापेभ्यः लक्षाधिकञवति । ध्वनेः सामान्यपरिमापः सारणीमाध्यमेन प्रस्तूयते ।

कस्यचित् सामान्यजनस्य ध्वनिसहनक्षमता ७०-८० डी.बी. इति वैज्ञानिकैः स्वीकृताः । अतः ८० डी.बी. सामान्यजनानामौसतजनानां ध्वनिश्रवणक्षमता स्वीकृताऽस्ति । अतोऽधिकः ध्वनिः गर्जनं (शोर) भवति । भवतु तद् ध्वनिः सुरमयं संगीतमेव । अनेन ध्वनिप्रदूषणं भवति एव । एतदतिरिक्तामपि प्रदूषणं प्रभावयति ।

ध्वनेः अवधिः (Duration of Sound)[सम्पादयतु]

ध्वनिप्रदूषणस्य कृते इदमपि आवश्यकं भवति यत् कश्चिद् ध्वनिः कति समयं यावद् भवति । यद्यधिकः तीव्रः ध्वनिः बहुकालं यावत् भवति श्रूयते वा तर्हि सः हानिप्रदो भवति । अनेनैव ज्ञायते यत् रुच्यनुकूलं डिस्को गीतमपि अधिकं समयं यावत् जनाः कथं श्रोतुं न पारयन्ति । अपि च १४० डी.बी. तीव्रता-युक्तं ध्वनिं जनाः श्रोतुं पारयन्ति, यतो हि तस्यावधिः एकमिनटं यावदेव भवति । भवन्तः जानन्ति एव यत् सामान्यजनानां ध्वनि –तीव्रता- सहनक्षमता ८० इत्येवास्ति । अतस्ते एनमेव प्रतिदिनं स्वीकुर्वन्ति । एवमेव सामान्यजनानां कृते ध्वनीनामावृतिः सहस्त्रपरिमितं सहनस्तरे भवति, परमिदमपि स्तरं सर्वत्र समानं न भवति । यथा- स्थाने स्थाने (होटले, शयन-कक्षे, पुस्तकालये, चिकित्सालये च )भिन्नं भवति । समये समये (प्रातः काले, अपराह्ने, सायंकाले, रात्रौ,मध्यरात्रौ च ) भिन्नं भवति । अवस्थायाः कृते (बाल्यावस्थायाः, युवावस्थायाः, बृध्दावस्थायाश्च कृते ) च भिन्नं भवति । अतः प्रतिपादयितुं शक्नुमः यन्न्यूनः एव ध्वनिः कश्मिश्चित् समये, कुत्रचित् स्थाने, कस्मैचिच्च प्रदूषणं भवति । यथा मध्यरात्रौ, पुस्तकालये वृध्दानां कृते वा न्यूनोऽपि ध्वनिः प्रदूषको भवति । अथ चाधिकोऽपि ध्वनिः कस्मिंश्चित् समये, कुत्रचित् स्थाने, कस्मैचिच्च प्रदूषको न भवति । यथा तीव्रतमोऽपि ध्वनिः सायंकाले,हट्टे, रेलयाने, युवकानां कृते वा प्रदूषकः न भवति । अर्थात् सर्वे ध्वनयः सर्वत्र, सर्वेषां कृते, सर्वस्मिन् काले च प्रदूषकाः न भवन्ति । अल्पः अपि ध्वनिः कुत्रचित् , केषाञ्चित्, कस्मिंश्चिच्च प्रदूषकः भवति । अत्र स्थानस्य, व्यक्तेः, समयस्य च महत्वं वर्तते । एतदर्थमत्र सारणी मध्यमेन स्थाने-स्थाने स्वीकृतस्य ध्वनि-परिमापस्य विवरणं प्रस्तूयते ।

वस्तुतः विश्वस्वास्थ्यसंघटनेन स्वीकृतं यत् कर्णप्रियः मानवीयस्वास्थ्यस्य कृते सुरक्षितश्च ध्वनिः रात्रौ ३५ डी.बी. दिवा ४५ डी.बी. च भवेत् ।

ध्वनि-प्रदूषणस्य कारकाणि (Factor of Noise Pollution)[सम्पादयतु]

सामान्यतः ध्वनिप्रदूषणं द्विप्रकारकं भवति, मानवकृतं, प्राकृतञ्च ।

  • प्राकृतम्- कदाचित् प्राक्रुतिकप्रकोपेण जगति ध्वनिप्रदूषणं भवति । यथा वायुप्रकोपेण, भूकम्पेन, वर्षामाध्यमेन, मेघगर्जनेन, तडितपतनेन, चक्रवातेन च ।
  • मानवकृतम्-प्रायः प्राकृतिकं कारकं तु निवारितं न भविष्यति, परमिदं सर्वदा प्रभावपूर्णं न भवति । एतदतिरिक्तं मानवकृतं प्रदूषणमति-महत्त्वपूर्णं भवति । वस्तुतः मानवकृतं प्रदूषणं ध्वनिं सदा प्रभावयति । यथा-
  1. परिवहनम्- सम्प्रति परिवहनस्य साधनानि यातायात-व्यवस्थायै महदुपयोगिन्यः वर्तन्ते । एषु ट्रक्, कार, मोटर- सायकिल, मोपेड, बस, रेल, वायुयानमित्यादि च मुख्यं भवति । एतानि परित्यज्य साम्प्रतिकजीवनस्य कल्पनाऽपि दुष्करा प्रतीयते । एभिः अस्माकं जीवनं सुकरं तु भवति एव सहैव वायु-प्रदूषणेन सह ध्वनिप्रदूषणस्य दुष्परिणामः अपि अस्माकं जीवनं प्रभावयति ।
  2. औद्योगिकप्रतिष्ठानम्- औद्योगिकप्रतिष्ठानानां विविध-प्रकारकः ध्वनिः हानिकरः भवति । यथा संयन्त्रस्य ध्वनिः, सायरनध्वनिः, यन्त्रध्वनिः, विद्युतोपकरणस्थध्वनिः यान्त्रिको पकरणानां ध्वनिश्च ।
  3. मनोरञ्जनस्य साधनानि – साम्प्रतिकस्य मनोरञ्जनप्रिय- समाजस्य कृते बहूनि मनोरञ्जनस्य साधनानि विज्ञानेन प्रदत्तानि । परमेतेषां साधनानामुपयोगः जनाः समुचितरुपेण न कुर्वन्ति । ते ध्वनिं वर्ध्दयितुं संकोचं नानुभवन्ति । फलतः ध्वनिप्रदूषणं भवति । एषु साधनेषु आकाशवाणीयन्त्रं, दूरदर्शनयन्त्रं, टेपरेकर्डर, ट्र्ंजिष्टर, नृत्यं, डिस्कोसङ्गीतं मुख्यं भवति ।
  4. गृहोपकरणानि-गृहे सम्प्रति विभिन्नानामुपकरणानाम् उपयोगः भवति । यथा – वासिंगमशीन, कूलर, लानमूवर्स, मिक्सी, प्रेशरकूकर, वाक्यूमक्लीनर्, एयरकण्डीशानरेत्यादीनि । एतानि उपकरणानि यद्यपि अस्माकं सौविध्याय कल्पितानि आविष्कृतानि च सन्ति । परमेभिः आनुषङ्गिकरुपेण ध्वनिप्रदूषणमपि भवत्येव ।
  5. पूजनस्थलोपकरणानि – वयं प्रायः आस्तिकाः एव । पूजनस्थलेऽपि वयं विभिन्नानामुपकरणानामुपयोगं कुर्मः । यथा घण्टा –शङ्ख-मृदङ्ग- ध्वनिविस्तारकयन्त्रेत्यादीनि वाद्ययन्त्राणि । यद्यपि एतेषामुपकरणानामुपयोगः भक्तिभावप्रदर्शनाय भवति, परम् एभिरपि ध्वनिप्रदूषणं भवत्येव ।
  6. युध्दाभ्यासोपकरणानि- प्रायः यदा-कदा देशे सैनिकानां युध्दाभ्यासः भवति । विभिन्नानामस्त्राणां परीक्षणमपि भवति । यथा –विगतवर्षेषु पोखरन- परिक्षणं जातम् । एवमेव टैंक-बम-मशीनगन- इत्यादिकानामस्त्राणां परिक्षणेन वायुप्रदूषणं, भूप्रदूषणं, तापीयप्रदूषणं विकरणीयप्रचूषणं तु भवत्येव, सहैव ध्वनिप्रदूषणमपि भवति । यतः एतेषामस्त्राणां परीक्षणेन भयानकं गर्जनं भवति ।

एतदतिरिक्तमपि बहूनि कारकाणि सन्ति ध्वनिप्रदूषणस्य । यथा- जनसम्मर्दमेला-आपण-चलचित्रालयभवननिर्माण–विवाहादिषु विविधसंस्कारेषु ध्वनिविस्तारकयन्त्राणामुपयोगः, समाजे प्रचलितः सांस्कृतिकः कार्यक्रमः, भजन-कीर्तनं, नेतृणां भाषणानि, बस्-विश्रामस्थलं, रेल-विश्रामस्थलं, जनानां पारस्परिकविवादश्चेत्यादीनि कारकाणि ध्वनिप्रदूषणं प्रभावयति

ध्वनिप्रदूषणस्य प्रभावः (Effect of Noise Pollution)[सम्पादयतु]

सामान्यरुपेण जनाः चिन्तयन्ति यत् ध्वनिप्रदूषणं कथं भविष्यति । यतः यदा दूरदर्शनादियन्त्रे ध्वनेः आधिक्यं भविष्यति तर्हि श्रवणमस्पष्टं भविष्यति । तेषां दुष्प्रभावानां विषये ते न चिन्तयन्ति ।ये जनाः कुत्रचित् औद्योगिकप्रतिष्टाने कार्यं कुर्वन्ति, ते बहुध्वनि-श्रवणे अभ्यस्ताः भवन्ति । ते अल्पध्वनिमपि श्रोतुमसमर्थाः भवन्ति । अर्थात् तेषां श्रवण-क्षमता न्यूना, नष्टा वा भवति । अर्थात् ध्वनिप्रदूषणस्य प्रभावः जनेषु भवति एव । परमयं प्रभावः निम्नलिखितेषु तथ्येषु आधारितः भवति ।

  1. अन्तरम्(अवधिः)
  2. समयः
  3. स्थानविशेषः
  4. ध्वनेः तीब्रता, आवृत्तिस्तरश्च
  5. जीवनस्य नियमितता कार्यव्यवस्था वा
  6. जनानां सहनक्षमता संवेदनशीलता वा
  7. जनानां वयः
  8. संरक्षणोपकरणानां क्षमता

एभिः कारणैः प्रदूषणं प्रभावितं भवति । यतः यदा वयं गच्छामः रेलयाने, तत्र ध्वनिः भवति । प्रारम्भे वयं किमपि श्रोतुं न शक्नुमः, परं किञ्चित् क्षणात्परं सर्वं श्रोतुं पारयामः । यथा रेलयानस्य ध्वनिः भवति तथैव तस्य हार्न इत्यस्यापि । परं हार्न वादनकाले किमपि न श्रूयते कारणं भवति अन्तरम् । अर्थात् रेलध्वनिः अन्तररहितः भवति । अतः जनाः अभ्यास्ताःभवन्ति । परं हार्न-ध्वनिषु अन्तरं भवति फलतः तेषु जनाः अभ्यस्ताः न भवन्ति । एवमेव उच्चस्वरेण कृतः ध्वनिः अपि हट्टे प्रदूषकत्वेन न प्रभावयति । परं स ध्वनिः ग्रामस्य शान्ते वातावरणे प्रदूषकः भवति । स एव उच्चध्वनिः दिवा प्रदूषकः न भवति अपिच रात्रौ प्रदूषकः भवति । एवं प्रकारेण ध्वनेः तीव्रता, आवृतिः वा जीवनस्य कार्यव्यवस्था., जनानां सहनक्षमता, वयः, उपकरणानां क्षमता च ध्वनि-प्रदूषणानां प्रभावं प्रभावयति । वस्तुतः अस्य प्रभावः निश्चितः न भवति । यतः यः ध्वनिः कुत्रचित् प्रदूषकः भवति स एव ध्वनिः कुत्रचित् प्रदूषको न, न प्रभावयति जनानां जीवनम् ।

शारीरिकः प्रभावः[सम्पादयतु]

ध्वनि-प्रदूषणस्य सर्वाधिकः हानिकरः प्रभावः श्रवणशक्तौ कर्णयोर्वा भवति । अधिकेन ध्वनिना अथवा यत्र अधिकः ध्वनिः भवति तत्र कार्य- करणेन अथवा अकस्मात् कर्णयोः यदि अधिकं ध्वनिं गर्जनं वा आगच्छति तर्हि कर्णयोः अन्तः झिल्ली अन्तरावरणं वा कदाचित् छिन्नं –भिन्नं भग्नं वा भवति । फलतः जनः बधिरः भवति । श्रवणं सम्यक्तया न भवति । कर्णयोः सीटी इत्यस्य ध्वनिः सदा आगच्छति । कर्णौ शून्यौ भवतः । जनः कदाचित् सर्वथा बधिरः अपि भवितुमर्हति । ध्वनि –प्रदूषणेन हृदयरोगः, पाचनतन्त्र-सम्बन्धीरोगः, तन्त्रिकातन्त्रस्य रोगाः अपि भवितुमर्हन्ति । ये जनाः अधिकध्वनि- युक्ते वातावरणे निवसन्ति तेषां रक्तचाप- वर्धनं हॄदयगतिवर्धनञ्च भवति । तान् हृदयगति अवरोधः अपि भवति । पाचनतन्त्रस्य असन्तुलनेन अल्सरनामकः रोगः अपि भवितुमर्हति । जनाः शिरोवेदना बेचैनी-शिरघूर्णन- वमन- शारीरिक-श्रम-अपस्मार-मिर्गी इत्यादि रोगेण आक्रान्ताः भवन्ति । उच्च-स्वरेण वार्त्तालापकरणेन स्वरयन्त्र उत्फुल्लितं भवति । फलतः कासरोगः जायते । अपि चानेन रोगेन स्थायी रुपेण सः आक्रान्तोऽपि जायते । ध्वनिप्रदूषणेन चक्षुषोः पिप्पिलिकायाः आकारः सूक्ष्मः भवति । फलतः वर्ण-परिचये असौविध्यमायाति । रात्र्यन्धरोगोऽपि भवति शरीरस्य वाह्यत्वक्षु रोगप्रतिरोधकक्षमता न्य़ूना भवति ।

संरक्षणोपायाः[सम्पादयतु]

१. येभ्यः यन्त्रेभ्यः, संयन्त्रेभ्यः, उपकरणेभ्यश्च ध्वनिप्रदूषणं भवति, तेषु संयन्त्रेषु समुचितरुपेणा ध्वनि-नियन्त्रणास्य उपायः कर्तव्यः ।
२. यन्त्राणामावरणमेवं स्यात् येन ध्वनिः वहिर्न गच्छेत् ।
३. बस्-ट्रक-मोटरसायकिल-मोपेड-मोटरयानमित्यादिकानाम् उपकरणानां यन्त्रं< सुरक्षितेन केनचित् आवरणेन एवं आवृत्तं स्यात् येन ध्वनिः बहिर्न गच्छेत् ।
४.ध्वनिरहित-संयन्त्राणां निर्माणं भवेत् ।
५.संयन्त्राणां ध्वनि-नियन्त्रकस्य (साइलेन्सर् इत्यस्य) परीक्षणं नियमितरुपेण करणीयम् ।
६.आवासीयक्षेत्रेषु सायरन्- हार्न-इत्यादिकानां प्रयोगः प्रतिबन्ध्तिः स्यात् ।
७.संयन्त्रान् परितः वृक्षाणां सघनपट्टिका स्यात् येन ध्वनेः प्रसारः अवरुध्दः भवेत् ।
८.मार्गमुभयतः ध्वनि-चूषकानां वृक्षाणां पट्टिका निर्मातव्या । यथा – जम्बूफलानां, बिल्ववृक्षाणां, आम्रवृक्षाणां, गुलमोहराणां, युकेलिप्टस –चेत्यादिकानां वृक्षाणां पट्टिका ।
९.औद्योगिकप्रकोष्ठानां भित्तिषु, औद्योगिकक्षेत्रस्य बहिर्भित्तिषु, च ध्वन्यवशोषकपदार्थानामुपयोगः करणीयः ।
१०. ये जनाः अधिकध्वनिकारकेषु प्रतिष्ठानेषु कार्यंकुर्वन्ति तेभ्यः कर्णपट्टिका सुविधा दातव्या ।
११. गृहेषु मनोरञ्जनोपकरणानामुपयोगेषु अवधानं दातव्यम् । यथा आकाशवाणी, दूरदर्शनादियन्त्राणामुपयोगः निम्नस्वरेण काणीयः
१२. आवश्यके सत्येव ध्वनिविस्तारकयन्त्राणामुपयोगः न्यूनस्वरेणैव करणीयः ।
१३. गृहेषु निम्नस्वरेणैव वार्तालापः करणीयः ।
१४. आवासीयक्षेत्रेषु विशिष्ट-वृहत्- वाहनानां यातायातः न करणीयः ।
१५. वाहनेषु एयरहार्न्स्-व्यवस्था न स्यात् ।
१६. औद्योगिकप्रतिष्ठानानां स्थानं नगरात् बहिः स्यात् ।
१७. संवेदशीलं स्थानं यथा-विद्यालयः, चिकित्सालयेत्यादयः साइलेन्सजान् घोषितं स्यात् ।
१८. बाल-वृध्द-युवकेभ्यः ध्वनिप्रदूषणस्य दुष्परिणामस्य शिक्षा दातव्या ।
१९. अस्याः शिक्षायाः प्रसार –व्यवस्था औपचारिकानौपचारिक- साधनेन करणीया
२०. विद्यालयेषु एवं शिक्षव्यवस्था स्यात् येन छात्राः अस्य दुष्परिणामाः जानेयुः
२१. रेडियो-दूरदर्शन-समाचारपत्र-माध्यमेन चास्याः शिक्षायाः प्रसारः –प्रचारः कर्तव्यः ।
२२. छात्राः प्रबोधितव्याःयत् पुस्तकालयेषु, वर्गेषु च निम्नस्वरेण एव वार्तालापं कुर्युः ।
२३. ध्वनिप्रदूषण-नियन्त्रणाय कानून- व्यवस्था करणीया ।
२४. आङ्गलदेशे ध्वनि –नियन्त्रणाय नियमं निर्धारितमस्ति यद्रात्रौ नव- वादनतः प्रातः –अष्टवादनं यावद् ध्वनिविस्तारकयन्त्राणामुपयोगः न भवति ।
२५. भारते एतदर्थं पृथक्-रुपेण ध्वनिप्रदूषणनियन्त्रणाय कानून-व्यवस्था नास्ति
२६. इतः पूर्वम् इण्डियन्- पैनल्-कोड्, सेक्सन्- २६८, क्रीमिनल्-प्रोसीजर्स कोड्-१९७३ दशमोध्यायस्य, सेक्सन १३३, एकादशोध्यायस्य१४४ इत्यस्याधारे एव कानून-व्यवस्था भवति स्म ।
२७. भारते पर्यावरण-संरक्षण-अधिनियम:- १९८६ इति नियम-स्याधारे एव कानून –व्यवस्था क्रियते ।
२८. राज्यस्तरे मध्यप्रदेशे सङ्गीत शोर-नियन्त्रण-अधिनियमः- १९५०, बिहारे ध्वनिविस्तारकयन्त्र-वादन-नियन्त्रण-अधिनियमः – १९६३इत्यादिकानां नियमानां निर्माणं कृत्वा प्रयासः कृतः, परमेते नियमाः प्रभावे नागताः ।

मूलतः ध्वनिप्रदूषणनियन्त्रणाय, संरक्षणाय च प्रति स्तरेषु चिन्तनस्यावश्यकता वर्तते । यतोहि एतानि प्रदूषणानि उनानामुपेक्षां प्राप्य दिनानुदिनं वृध्दिं प्राप्नुवन्ति ।


बाह्यासम्पर्कतन्तुः[सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=शब्दमालिन्यम्&oldid=245111" इत्यस्माद् पुनः प्राप्तिः