शिवराज अाचार्यः काैण्डिन्न्यायनः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

शिवराज अाचार्यः काैण्डिन्न्यायनः (जन्म २ फरबरी १९४१) विशिष्टः संस्कृतविद्वान्, वैदिकः (शुक्लयजुर्वेदी), शिक्षाशास्त्री, कल्पशास्त्रमर्मज्ञः, उत्कृष्टाे भाषाशास्त्री, वैयाकरणः, काेषकारः, वेदाङ्गज्याेतिषविद्, मीमांसकः, वेदान्तज्ञः च अस्ति।

जीवनवृत्तम्

तत्रभवताे जन्म नेपालस्य गणडकीक्षेत्रान्तगर्ते त्रितुङ्गाचलजनपदे (तनहुँ) अभवत् । प्राथमिकीं शिक्षां तत्रैव प्राप्य काष्ठमण्डपनगरे अध्ययनाय गतः । वेदान्ते साहित्ये च अाचार्यपरीक्षा उत्तीर्णा, संस्कृते दर्शनशास्त्रे च एम.ए. परीक्षा उत्तीर्णा । पश्चाद् वाराणसीस्थ-सम्पूर्णानन्द-संस्कृत-विश्वविद्यालयताे वैदिकयज्ञ-वेदान्त-विषये विद्यावारिधिः इत्युपाधिं शिक्षाशास्त्रे (ध्वनिविज्ञाने) वाचस्पतिः (डी.लिट्.) इत्युपाधिं च प्राप्तवान् ।

३६ वर्षाणि यावत् विश्वविद्यालये वेदान्तविषयमध्यापितवान् । तत्र भवता ४० तः अधिका ग्रन्था रचिताः । तत्रभवता १५०० वर्षेभ्यः अप्रयुक्तस्य प्राचीनतमस्य ज्याेतिषग्रन्थस्य वेदाङ्गज्याेतिषाख्यस्य नवीना व्याख्या विहिता । तदनुसारं वैदिकतिथिपत्रस्य (पञ्चाङ्गकस्य) निर्माणं कारयित्वा वैदिक-विद्या-धर्म-क्षेत्रे विशिष्टं याेगदानं दत्तम्दि । भारतवर्षीय ज्याेतिष के ज्वलन्त प्रश्न अाैर वेदाङ्गज्याेतिष इति नामकाे माैलिकाे महत्त्वपूर्णाे ग्रन्थः प्रणीतः । मनुस्मृतेः हिन्दी व्याख्या विहिता । अत्र बहूनां विषयाणां नवीनेन तथ्येन तर्कैश्च अपूर्वा व्याख्या कृता, मनुस्मृतेः सदाशयश्च प्रकटितः ।।

अत्रभवता काैण्डिन्न्यायनशिक्क्षानामकः शिक्षाग्रन्थाे रचितः । पाणिनीयशिक्षाया वेदाङ्गशिक्षाविमर्शाख्या व्याख्या च कृता । नारदीयशिक्षाया अभिनवा संस्कृतहिन्दीव्याख्या च कृता । एतेषां ग्रन्थानां प्रसिद्धेन प्रकाशकेन चाैखम्बाविद्याभवन (दिल्ली, वाराणसी) इत्यनेन प्रकाशनं विहितम् । 2

सम्बद्धाः लेखाः[सम्पादयतु]