शुकः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
शुकः

कश्चन पक्षी अस्ति । सामान्यतः उष्णवलयेषु उपलभ्यते । शुकः सिट्टसिफोर्म्स् वर्गे अन्तर्भूतः एकः पक्षी | शुकेषु सामान्यतया ३५० विधाः जातयः सन्ति । एते सामान्यतया उष्णवलयप्रदेशे भवन्ति । शुकानां कुटुम्बस्य भागद्वयं कृतम् अस्ति । सिट्टिसीडे (नैजशुकः) तथा ककाटुय्डे इति कुटुम्बद्वयम् अस्ति । समग्रे उष्णवलये तथा दक्षिण- समशीतोष्णवलये अपि शुकाः दृश्यन्ते । अधिकप्रभेदाः दक्षिणामेरिकाभूखण्डे ,आस्ट्रेलियाभूखण्डे एशियाभूखण्डे च सन्ति ।

शुकानां लक्षणानि[सम्पादयतु]

शुकाः शक्तियुक्तवक्रचञ्चूमन्तः भवन्ति ।, साक्षात् स्तिथिः, बलयुतौ पादौ च भवतः । अधिकतया शुकाः हरिताः भवन्ति । कतिचन वंशीयाः इतरैः प्रकाशमानवर्णैः युक्ताःसन्ति चेत् अन्ये केचन मिश्रवर्णीयाः भवन्ति ।शिरसः उपरि पिच्छानां किरीटं भवति । अधिकतया शुकाः आजीवनम् एकेन एव उत्सङ्गिना सह जीवन्ति।

शुकस्य आकारः[सम्पादयतु]

अति लघु शुकः३.२अङ्गुलं यावत् दीर्घः,१० ग्रामभारयुक्तः च भवति । बृहत् शुकः३.३पादमितःदीर्घः तथा चत्वारि किलोग्रां यावत् भारयुक्तः भवति । एवं पक्षिसङ्कुलेषु देहप्रमाणे अत्यधिकं वैविध्यं शुकेषु द्रष्टुं शक्यते ।

शुकानाम् आहारः[सम्पादयतु]

शुकानां आहारः नाम बीजानि, फलानि, मुकुलानि अन्यसस्यजन्यवस्तूनि भवन्ति । सामान्यतया बीजानि शुकानां प्रमुखः आहारः । बीजं स्वस्य चञ्च्वा दष्ट्वा अन्तः विद्यमानं सारं शुकाः बहु सुलभतया निष्कासयितुं शक्नुवन्ति । बृहत् गात्रस्य बीजं चेत् स्वस्य पादस्य अधोभागे दृढं संस्थाप्य भञ्जयति । विषकारिबीजानाम् अवगमने ज्ञानवन्ताः शुकाः तादृशबीजानां बहिः विद्यामानत्वक् निष्कास्य शिष्टं विषरहित- भागं केवलं खादन्ति । लोरि तथा लोरोकिट् शुकाः मकरन्दं तथा परागरेणुं सेव्यमानाः शुकाः। एतेषां जिह्वायाः अग्रभागः दन्तकूर्चः इव भवति। अन्यजातीयाः केचन शुकाः कीटान्, तथा लघुप्राणिनः अपि खादन्ति । लोरिस् तथा लोरिकीट् जातीयाः मकरन्दस्य आचूषणे नैपुण्यं प्राप्तवन्तः भवन्ति । प्रायः शुकाः वृक्षस्य कोटरे निवसन्ति । श्वेत-अण्डतः बहिरागतः शावकः पूर्णतया असहायकस्तिथौ भवति । शुकः तीक्ष्णमतां प्राणिनां गणे अन्तर्भवति । केचन शुकाः मानवानां ध्वनिं किञ्चित्प्रमाणेन अनुकर्तुं शक्नुवन्ति । एवं मनुष्यैः अतिप्रीत्या पालितपक्षिषु शुकः अपि अन्यतमःअस्ति । उपजीविकायै गृहीत्वा प्रशिक्षणं दीयते इत्यतः, मृगयाकारणतः, अपि च अन्यपक्षिसङ्कुलस्य आक्रमणकारणतः वने शुकानां संख्या गणनीयप्रमाणेन न्यूना जाता अस्ति । एतेषां रक्षणाय विश्वे महान् यत्नः प्रचलति ।

मूलं,विकासः,तथा वंशाः[सम्पादयतु]

दक्षिण-अमेरिकाभूखण्डे तथा आस्ट्रेलिया-एशियाखण्डयोः दृश्यमाणानां शुकानां वैविध्यकारणतः एते मूलतः गोण्ड्वानावंशजाः इति ज्ञायन्ते । ७ कोटिवर्षपूर्वतनः यः शुकस्य अस्थिपञ्जरस्य अवशेषः प्राप्तः अस्ति सः एव अत्र प्रमाणम् । कोक्याटु-जातीयाः शुकाः सुलभतया अभिज्ञातुं शक्याः । तेषां शिरसः उपरि पिच्छानां गुच्छं भवति । अन्यजातीय शुकानाम् अपेक्षया एतेषां रक्तनाडीनां रचना, शिरोकपालः भिन्नरीत्या भवति । एतेषां पक्षानां रूपरेखाः भिन्नाः भवन्ति अपि च प्रकाशस्य विकिरणं कर्तुम् असमर्थाः भवन्ति । अतः कोक्याटुशुकाः सिट्टसीडे शुकानाम् अपेक्षया प्रकाशमानैः विभिन्नैः आकर्षकवर्णैः युक्ताः न भवन्ति । अमेझान्शुकः, मकाव्, महाकोक्याटु, एतादृशानां शुकानां जीवनावधिः८० वर्षाणि यावत् भवति । शतं वर्षाणि यावत् जीवतः शुकान् अधिकृत्य आधाराः लभ्यन्ते । लघुजातीयशुकाः सामान्यतया १५ तः २० वर्षाणि यावत् जीवन्ति । व्याप्तिः तथा वितरणम्।

व्याप्तिः[सम्पादयतु]

शुकः जगतः उष्णवलयप्रदेशे तथा दक्षिणसमशीतोष्णवलये च दृश्यन्ते । प्रमुखतया आस्ट्रेलिया, एशिया, भारतम्, शान्तसागरस्य द्वीपाः, आग्नेय-एशिया, उत्तर-अमेरिकाभूखण्डस्य दक्षिणभागाः, दक्षिणामेरिका तथा आफ्रिका इत्यादिषु भूभागेषु अधिकतया दृश्यन्ते । आस्ट्रेलिया, एशिया ,अपि च दक्षिण- अमेरिका इत्यादिषु देशेषु अत्यधिकसङ्ख्याकाः शुकाः दृश्यन्ते । लोरि तथा च लोरिकिट् अधिकतया उत्तरभागे तन्नाम ’सुलवेसि’, फिलिपिन्स् तः उत्तरास्ट्रेललियापर्यन्तं, शान्तसागरस्य सर्वेषु द्वीपेषु निवसन्ति । एतेषु अत्यधिक- वैविध्यं ’न्युगिनि’ शुकेषु दृश्यते । अरीने इति उपजातीयाः शुकाः, अमेझान्शुकाः,मकाव्,तथा कोन्युर्जातीयाः शुकाः मेक्सिको तः दक्षिणामेरिकायाः सर्वेषु भागेषु भवन्ति । पिग्मि शुकः इति ख्यातः अति लघु गात्रस्य शुकः न्युगिनिप्रदेशे वसन्ति । विशालपुच्छयुक्तः प्लाटिसेर्स्णे उपकुटुम्बे अन्तर्भूताः शुकाः आस्ट्रेलिया, न्यूझिलेण्ड्, तथा तत् परितःद्वीपेषु भवन्ति । केचन शुकाः एकत्र एव शाश्वतरूपेण वसन्ति । अन्ये केचन स्थानपरिवर्तनशीलानां शुकानां गणे अन्तर्भवन्ति । अधिकांशाः शुकाः तदा तदा स्थानपरिवर्तनशीलाः पक्षिणः सन्ति ।

शरीरस्य रचना[सम्पादयतु]

पादाभ्यां बीजं गृहीत्वा चञ्च्वा बीजं भञ्जयन् शुकः

शुकनाम् अतिप्रमुखं शारीरकलक्षणं नाम चञ्चूः। शुकस्य चन्चूः शक्तियुता भवति । आरम्भे विशाला सती अन्ते अवनता भवति । एषा शिरोकपालेन सह संलग्ना नास्ति इति कारणतः स्वतन्त्रतया चालयितुं शक्या । अपि च शुकस्य दशनसामर्थ्यस्य बलस्य च मूलमस्ति एषा चञ्चूः । अधः विद्यामाना चञ्चूः तीक्ष्णा तथा उत्तानमुखी भवति । बीजखादनशीलानां शुकानां शक्तियुता जिह्वा भवति । शुकस्य शिरः बृहत् भवति । साक्षात् दृष्टिः सीमिता भवति चेदपि, परितः दर्शनं बहु तीक्ष्णतया भवति । केषाञ्चन शुकानां शिरसि पिच्छानां गुच्छं भवति । एतत् गुच्छं ते विकस्य प्रदर्शयन्ति।

सन्तानोत्पत्तिः[सम्पादयतु]

काँश्चन अपवादान् विहाय सामान्यतया शुकः एकेनैव उत्सङ्गिना सह जीवति । तयोः मध्ये गाढबान्धव्यं भव्अति । सर्वदा युगलरूपेण एव तिष्टतः। सन्तानोत्पत्तिः तथा वासः वृक्षस्य कोटरे एव भवति । शुकस्य अण्डः श्वेतवर्णः भवति । अधिकजातीयाः शुक्यः अण्डस्य उष्णतादानस्य कार्यं निर्वहन्ति । तस्मिन् काले शुकी नीडतः बहिर्नागच्छति । शुकस्य कार्यम् आहारस्य आनयनं केवलम् । जात्यानुसारं १७ तः२५ दिनानन्तरं अण्डतः शावकाः बहिरागच्छन्ति । नवजातशावकानां शरीरं पक्षौ विना रिक्तं भवति । शावकाः ३ सप्ताहतः चतुर्मासान् यावत् नीडे एव भवन्ति । मकाव् तथा बृहत् शुकनां सन्तानोत्पत्तेः सामार्थ्यं न्यूनम् । एतेषां प्रौढावस्थाप्राप्त्यर्थम् अनेकानि वर्षाणि अपेक्षितानि भवन्ति । न केवलं तावत् वर्षे कदाचित् एकम् एव अपत्यम् अस्य ।

बुद्धिमत्ता तथा पठनम्[सम्पादयतु]

स्वस्य बुद्धिमत्तां प्रदर्शयन् सन् कोन्यूर् शुकः

बन्धने स्थापितानां केषाञ्चन शुकानां विषये कृतेन अध्ययनेन अनेके कौतुकयुताः विषयाः ज्ञाताः सन्ति । सर्वसामान्यः अंशः नामा शुकः मानवध्वनिं अनुकरोति । केचन शुकाः पदस्य अर्थसहितयोजने समर्थाः भवन्ति। अपि च सरलवाक्यानि वक्तुं शक्नुवन्ति । काकः, रावेन् जे इत्यादिभिः पक्षिभिः सह शुकः अपि अतिबुद्धिशाली पक्षी इति प्रसिद्धः अस्ति । अन्यपक्षिभिः सह तोलयामश्चेत् शुकनां शरीरस्य तथा मस्तिष्कस्य अनुपातः गमनार्हरूपेण अधिकः अस्ति । केषाञ्चन उच्छस्थरीयप्राणिनां गणे एते अन्तर्भवन्ति । शुकाः शैशवावस्थातः सामाजिक-आचारान् पठन्ति । अनेकवंशीयाः शुकाः शावकान् एकत्र मेलयित्वा प्रशिक्षनम् आयोजयन्ति । एषा व्यवस्था शावकानां कृते सामाजिक-आचारविषये उत्तमम् अनुभवं ददाति । आहार सेवनस्य क्रमं शावकाः मातापितृभ्यां पठन्ति । एषः विद्याभ्यासः बहु दीर्घकालपर्यन्तं भवति । मानवानां शिशवः इव शुकशावकानाम् अपि क्रीडनं पठनं च बहु मुख्यम् अस्ति।

शब्दस्य अनुकरणं तथा कथनं च[सम्पादयतु]

सम्भाषमाणः शुकः(सम्भाषणं श्रोतुम् अत्र प्रवर्तयतु)

शुकानां ध्वनिपेटिकायाः व्यवस्था न भवति । अतः तैः क्रियमाना ध्वनिः शिष्कारवत् भवति । अनेकजातीयाः शुकाः मानवानां ध्वनिं अथवा अन्यान् शब्दान् यथावत् अनुकुर्वन्ति । केचन शुकाः वस्तूनि अभिज्ञातुं विवरणं कर्तुं गणनां च कर्तुं समर्थाः भवन्ति । सरलवाक्यानि रचयितुं शक्ताः केचन शुकाः एकसहस्रशब्दानां सङ्ग्रहणं कर्तुं समर्थाः सन्ति । एतादृशविशिष्टसामार्थ्यवन्तः शुकाः मानवनाम् अति प्रीतिपात्रभूताः सन्ति । शुकाः मनुष्यैः पालनयोग्याः पक्षिणः सन्ति । अत्र अवधातव्यः प्रमुखांशः नाम शुकानां कृते सम्भाषणपाठनं बहु दीर्घकालस्य श्रमयुक्तं कार्यम् । अपि च सर्वे शुकाः सम्भाषणकरणे निरीक्षितस्तरं प्राप्तुं न शक्नुवन्ति ।

मानवैः सह सम्बन्धः[सम्पादयतु]

शुकानां मानवयोः च निकटः सम्बन्धः अस्ति । एकत्र पालितशुकानां विक्रयणस्य प्रयत्नः प्रचलति । यतः प्रवासिनाम् आकर्षणकरणे समर्थाः इत्यतः शुकाः मानवानाम् आर्थिकलाभे साहाय्यकाः भवन्ति । अन्यमुखेन पश्यामः चेत् केचन जातीयाः शुकाः कृषिकस्य पीडायै भवन्ति । आस्ट्रेलियादेशस्य कोक्याटुशुकाः तत्रत्यकृषिकेभ्यः बहु पीडनकारिणः एव सन्ति । तथापि स्वस्य आकर्षकवर्णैः, बुद्धिमत्तया, सम्भाषणसामर्थ्येन, क्रीडया सरसस्वभावेन शुकः मानवस्य सर्वदा प्रियजीवी अस्ति।


"http://sa.wikipedia.org/w/index.php?title=शुकः&oldid=244925" इत्यस्माद् पुनः प्राप्तिः