शिवकुमारस्वामी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(श्री शिवकुमारस्वामी इत्यस्मात् पुनर्निर्दिष्टम्)
शिवकुमारस्वामी
ಶಿವಕುಮಾರ ಸ್ವಾಮಿಗಳು
शिवकुमारस्वामी, भारतस्य पूर्वतनराष्ट्रपतिना डा अब्दुल् कलामवर्येण सह
जन्म (१९०७-२-२) १, १९०७ (आयुः ११६)
भारतम्
मृत्युः २१ जनवरी २०१९ Edit this on Wikidata (आयुः १११)
शिक्षणस्य स्थितिः Central College of Bengaluru Edit this on Wikidata
वृत्तिः श्री सिद्धगङ्गा एजुकेशन् सोसैटी ( Sree siddhaganga education society) संस्थायाः संस्थापकः

कर्णाटकरत्नः डा. शिवकुमारस्वामी(०१ एप्रिल् १९०७-२१ जनवरी २०१९) (कन्नड: ಶಿವಕುಮಾರ ಸ್ವಾಮಿಗಳು, आङ्ग्ल: Shivakumara Swamiji) तुमकूरुमण्डलस्य सिद्धगङ्गामठस्य मठाधिपतिः । एषः त्रिविध(अन्नम्,अक्षरं,ज्ञानं)दासोहदाता । द्वादशस्य (१२) शतमानस्य युगपुरुषस्य, क्रान्तिकारिणः बसवण्णनामकस्य 'कायकवे कैलास' इत्यस्य वचनस्य, नित्यदासोहतत्त्वस्य च कैङ्कर्ये अस्य प्रवृत्तिः । ०३/०१/१९३० तमे दिनाङ्के श्रीमठस्य दायित्वं स्वीकृत्य तद्दिनात् मठस्य, वीरशैवधर्मस्य, समाजस्य च उद्धारार्थं एषः निरन्तरं श्रममाणः अस्ति ।

देशस्य, समाजस्य च प्रगतिविषये अस्य बहु आदरं वर्तते । आगामिपरम्परायाः अभिवृद्धये कृतसङ्कल्प एषः । समाजस्य अनेकानां गण्यानां बाल्यजीवनस्य परिवर्तनाय एषः कारणीभूतः । श्रीमठे १०,००० विद्यार्थिभ्यः आश्रयं दत्त्वा तेभ्यः त्रिविधदासोहं सततं यच्छन् अस्ति एषः ।

जननं बाल्यञ्च[सम्पादयतु]

मागडी इत्यस्य मण्डलस्य वीरापुरे ०१/०४/१९०८ तमे दिनाङ्के अस्य जन्म अभूत् । 'शिवण्ण' इति अस्य बाल्यनाम । श्री होन्नप्प, श्रीमती गङ्गम्मा अस्य पूर्वाश्रमपितरौ । नागवल्यां प्राथमिकमाध्यमिकशिक्षणं समाप्य, तुमकूरु इत्यस्मिन्नगरे विद्यमानायां सर्वकारीयप्रौढशालायां प्रौढशिक्षणं समाप्य, १९२६ तमे वर्षे 'मेट्रिक्युलेषन्' प्राप्तवान् । १९२७ तमे वर्षे तदानीन्तनसिद्धगङ्गामठाधिपतेः सहवासः जातः । तस्मिन्नेव वर्षे प्रवेशपरीक्षायाम् उत्तीर्य उन्नतविद्याभ्यासार्थं बेङ्गळूरु इत्यस्य महानगरस्य 'सेन्ट्रल् कालेज्' प्रविष्टवान् ।

साधनानि[सम्पादयतु]

स्वामिभिः शिक्षाप्रशिक्षणार्थं कुलम् १३२ संस्थाः स्थापिताः, येषु नर्सरीविद्यालयात् आरभ्य अभियांत्रिकी, विज्ञानं, कला, प्रबन्धनस्य महाविद्यालयाः अपि च व्यावसायिकप्रशिक्षणं च भवति। ते शैक्षिकसंस्थाः स्थापितवान्तः येषु पारम्परिकसंस्कृतं तथैव आधुनिकविज्ञानं प्रौद्योगिकी च पाठ्यते । स्वामिनः गुरुकुले पञ्चतः षोडशवर्षीयाः १०,००० तः अधिकाः बालकाः निवसन्ति । गृहाणि सर्वेषां धर्मीयानां जातीनां, पंथानां च बालकानां कृते उद्घाटितानि सन्ति येषां निःशुल्कं भोजनं, शिक्षा, आश्रयः च प्रदत्ताः सन्ति (त्रिविधदासोहः)। मटस्य तीर्थयात्रिकाः,आगन्तुकाः च निःशुल्कं भोजनं प्राप्नुवन्ति स्वामीनां मार्गदर्शनेन स्थानीयजनसङ्ख्यायाः हिताय वार्षिकं कृषिमेला अपि आयोजिता।

परोपकारकार्यं कृत्वा स्वामिनः बहुसम्मानिताः आसीन् । भारतस्य पूर्वराष्ट्रपतिः ए.पी.जे.अब्दुलकलामः तुमकुर्-नगरे तेषां दर्शनं कृत्वा स्वामी-महोदयस्य मानवीयकार्यस्य, शिक्षाक्षेत्रे उपक्रमस्य च प्रशंसाम् अकरोत् ।[२०] अन्येषां लिंगायतानां इव स्वामी कठोरशाकाहारस्य पालनम् अकरोत् ।

स्वामिनः दिनचरी[सम्पादयतु]

प्रतिदिनं स्वामी प्रातः चतुर्वादने उत्थाय स्नात्वा पूजाप्रकोष्ठे एकघण्टापेक्षया अधिकसमयं ध्यानावस्थायां भवति । तदनन्तरम् इष्टलिङ्गपूजा । तदनन्तरं भक्तेभ्यः त्रिपुण्ड्रभस्मं दत्त्वा, स्वयमपि धृत्वा पूजां समापयति । तदनन्तरम् अल्पाहारसेवनं प्रातः सार्धषड्वादने । मठे विद्यमानानां बालकानां सामूहिकप्रार्थनायां सः प्रतिदिनं भागं गृह्णाति । तदनन्तरं कार्यालये वार्तापत्रिकाणां पठनम् । तदनन्तरं भक्तेभ्यः दर्शनं, भक्तैः सह सम्भाषणं, गण्यैः सह मेलनम्, अधिकारिभिः सह मठस्य शासनसम्बद्धाः चर्चाः इत्येवम् अस्य दिनचरी प्रचलति ।

पुरस्काराः[सम्पादयतु]

२००७ तमे वर्षे कर्णाटकसर्वकारेण स्वामी कर्णाटकरत्नपुरस्कारेण पुरस्कृतः अस्ति ।

"https://sa.wikipedia.org/w/index.php?title=शिवकुमारस्वामी&oldid=483801" इत्यस्माद् प्रतिप्राप्तम्