सदस्यः:59.92.144.188/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
                                                 वायौ तन्त्वो: भार:                    ७.१०

तन्त्वोर: आपेक्षिकमं घनतवम्=---------------------=------=8.6

                                     तन्तुना अपसारितस्य जलस्य भार:            ७.13-6.32
                                     तन्तुना अपसारितस्य जलस्य भार:=८० ग्राम: 
                        
                                  तथा  एकग्रामपरिमितोदकस्य आयतनं १ घनसेन्टिमीटरं भवति।
                                 तन्त्वोर् आयतनम्= ८ घनसेन्टिमीटरम्।

परन्तु तन्त्वोरायतनं=॥त्र२ल यत्र 'त्र' इति तस्य त्रिज्या 'ल' इति दैर्घ्यं भवति।

                                  ३.१४xत्र२x१०=.m८
                                   त्र= .१६ सेण्टिमीटरम् प्रायेण

७-नैकल्सनद्रवमापकेन(Nicholson's Hydrometer) आपेक्षिकघनत्वस्योपलब्धि:।

नैकल्सनद्रवमापकस्य वर्णनम्- नैकल्सन्द्रवमापक: विशिष्टाकारक एक: प्लवमान: घनपिण्डो भवति। यस्य भार: इत्थं समञ्ज्यते यत् प्लवनावस्थायां तस्य किञ्चिद् भाग: जलोपरि तिष्टति। ५.१३ इति चित्रे तस्याक्रिति: प्रदर्शिता। मापकश्चायं अन्त:शून्येन वलयदण्डेन निर्मीयते। तस्य ऊर्ध्ववर्तिनि शिरसि एक: तन्तु: वर्तते तन्त्वोश्च उपरिभागे पटलमेकं युक्तं भवति। तन्त्वौ चिन्हमेकं वर्तते यावत्पर्यन्तं द्रवमापक: निमज्ज्यते।

वलयदण्डस्य अधोभागे पटलमेकं तिष्टति यस्याधोभागे शंक्वाकारक(conical) एक अन्त:शून्यो भाग: वर्तते यत्र शीशककणान् सम्पूर्य द्रवमापकस्य सम्पूर्णो भार: समञ्जयितुं शक्यते। भागस्यास्य गुरुत्वात् द्रवमापक: याथार्थ्येन जले ऊर्ध्वाधररूपेण प्लवमान: तिष्टति। जले द्रवमापकं प्लावयितुं एकं दीर्घं विस्तृत जार इत् नामकं पात्रं गृह्यते। यया ५.१३ इति चित्रे प्रदर्शितम्। जारपात्रस्य मुखे लौहपत्रशकलम् अथवा तन्तुमयं त्रैभुजमाच्छादनं स्थाप्यते येन पटलोपरि भारस्थापनात् द्रवमापकोऽघ: जले न गछेत्।

(अ) नैकल्सन्द्रवमापकेन कस्यचिद् घनपिण्डस्य आपेक्षिकघनत्वोपलब्धि:- घनपिण्डस्य आपेक्षिकं घनत्वम् उपलब्धुं प्रथमं द्रवमापक: जलयुक्ते जारनामके पात्रे प्लाव्यते। तदनु पटले एतावान् भार: स्थाप्यते येन स: तन्त्वौ अङ्कित चिन्हपर्यन्तं निमज्जेत्। भारश्चायं लिख्यते। भूयश्च तद्घनपिण्ड: पटले न्यस्यते यस्य आपेक्षिकं घनतत्वं ज्नातव्यं भवति। तेन सह कतिपया: मापा आरोप्यन्ते येन द्रवमापक: भूय: चिन्हपर्यन्तं निमज्जति। (मा भूत् घनपिण्ड: एतावान् विशालो गुरुर्वा येन केवलं तस्य स्थापनादेव द्रवमापक: चिन्हपर्यन्तं निमज्जेत्।) भारश्चायं लिख्यते। पुनश्च घनपिण्ड: अधोवर्तिनि पटले स्थाप्यते। तथाच यदि पिण्ड: प्लवनशीलो भवत्, यथा द्रावकखण्ड: कार्कशकलं वा, तर्हि स द्रवमापकपटले आबद्ध्यते पटले च एतावन्त: मापका: आरोप्यन्ते येन द्रवमापक: चिन्हपर्यन्तं नैमज्जेत्। इमे मापका: लिख्यन्ते। जले द्रवमापकस्य सन्तारणसमये तथ्यञ्चेदम् अवधीयते यत्, तेन जारपात्रकं स्पृष्ट मा भूत्। मापैरेभिस्त्रिभि: घनपिण्डस्य आपेक्षिकं घनत्वम् उपलभ्यते:-