सदस्यः:Devanshimehta1830788/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
— Wikipedian  —
Diwali2
जन्म devanshi mehta
13th january
ahemdabad
देशः  [[|]]
विद्या उद्योगः च
विद्यालयः christ junior college
महाविद्यालयः christ university
सम्पर्क समाचारम्
वि-पत्रसङ्केतः (ई-मेइल्) devanshi.ṃehta00@gmail.com


दिपावलि

दीपावल्युत्सवो भारतस्य सर्व प्रसिद्धः उत्सवः अस्ति। सर्वे देशवासिनः सर्वेषु प्रदेशेषु दीपावल्युत्सवं दीपमाला प्रज्वाल्य सम्भावयन्ति । विदेशेष्वपि भारतवंशजा इभमुत्सवं न विस्मृतवन्तः । अयमुत्सवः कातिकमासस्यामावस्यायां मान्यते । प्रमुखतया ऽस्य सम्बन्धो रामकथया सह वर्तते । चतुर्दशवर्षवनवासानन्तरम् अयोध्या प्रत्यागते रामे नगरवासिनः प्रमुदिताः स्वगृहेषु दीपानि प्रज्वाल्य अपारं मोदं प्रकटितवन्तः । तदाप्रभूत्येव प्रतिवर्षमयमुत्सवो मान्यते। बहुषु, स्थानेषु नववर्षोंत्सवरूपेण दीपावल्या महत्त्वमस्ति । व्यापारिणो वाषिर्क लेखमस्मादेव दिनादारभन्ते । ।

जैनसम्प्रदायसंस्थापकस्य भगवतो महावीरस्य, आर्यसमाजसंस्थापकस्य स्वामिदयानन्दस्य च निशिदिवसो ऽ प्ययन ।। पौराणिक कथा वर्तते यत् प्रथम आयुर्वेदाचार्यो धन्वन्तरिरपि लोकेभ्य: संजीवनौषधं दातुमस्माद्दिनात् दिनद्वयपूर्वं प्रकटितः ।

दिनमेतत् समृद्धिदिबसरूपेण मान्यते । गृहाणि संशोध्यन्ते नानाविधचित्रपताकातोरणादिभिश्च विभूष्यन्ते । पण्यवीथीनां कान्दविकानां च समृद्धिः नयनगोचरतां भजति। रात्र सुमनोहरपरिधानालंकृता जनाः परस्परं सभाजयन्ति, गृहेषु लाजैः मिष्टान्नैः च यज्ञादिकं लक्ष्मीगणेशपूजनं च विदधति । ततो दीपमालाद्योतितानि सर्वेषां गृहाणि अपूर्वा कांचिद् अभिख्यां (शोभां) धारयन्ति स्मयन्त इव। बालयुवकाः विविधैरग्निक्रीडनकैः क्रीडन्ति । नगरे नगरे विविधेषु प्राङ्गणेषु दीपावलीमेलकान्यायोज्यन्ते ।

परम्परयात्रैको दोषोऽपि समाजे समुद्भूतः । केचन जनाः चूतमप्यस्मिन् दिने ‘धर्म’ इति आचरन्ति । परन्तु वयं जीनामो यत् द्यूतं न तु समृद्धेरपि तु विनाशस्य कारणमेव । लक्ष्मीस्तेन न प्रसीदति, रुष्टैव भवति ।

वस्तुतः उत्सवोऽयं सर्वेभ्यो नवजीवनस्य संमृद्धेः परिशुद्धेश्च सन्देशं ददाति । प्रकृतिरपि वर्षतरनन्तरं सर्वत्र प्रसन्ना विमला च दृश्यते । अन्धकारे प्रकाशस्य, अज्ञाने च ज्ञानस्य विजयरूपोऽ यमुत्सवः सर्वानस्मान् धर्माचरणाय ज्ञानोपार्जनाय च प्रेरयति ।

अस्माकं भारतवर्षे प्रतिवर्षं बहूनि पर्वाणि मान्यन्ते। तेषु पर्वेषु दीपावालिः हिन्दुनां पवित्रं पर्वमस्ति। इदं कथ्यते यत् अस्मिन् एव दिने श्रीरामः रावणादि राक्षसान् निहत्य सीतया लक्ष्मणेन च सह चतुर्दशवर्षाणां वनवासं समाप्य अयोध्यां प्रत्यागच्छन्। तदा अयोध्यावासिनः प्रसन्नो भूत्वा स्वगृहेषु राजमार्गेषु च दीपकान् प्रज्वालयन्। जानश्रुत्यानुसारेण अस्मिन् एव दिने समुद्रमंथने लक्ष्मी प्रकटिता अभवत्।

दीपावलिः प्रतिवर्षे कार्तिकमासस्य अमावस्यायां तिथौ मान्यते। जनाः स्वगृहाणि स्वच्छानि कुर्वन्ति। जनाः मालाभिः, विद्युत्दीपैः, मृतिकादीपैः च गृहाणि, मन्दिराणि राजमार्गणि, आपणानि च अलंकृतानि कुर्वन्ति। जनाः रात्रौ लक्ष्मी-गणेशस्य च पूजनं कुर्वन्ति। मिष्ठान्नानि च खादन्ति। बालकाः स्फोटकानि स्फोटयन्ति प्रसन्नाः च भवन्ति। दीपावलिः पावनतायाः, उल्लासस्य च प्रतीकमस्ति यथा दीपकः अंधकारं नाशयति तथैव वयमपि अज्ञानस्य, भेदभावस्य, घृणायाः च अन्धकारं नाश्याम। अयं अस्य पर्वस्य संदेशः अस्ति। अयमुत्सवः कातिकमासस्यामावस्यायां मान्यते । प्रमुखतया ऽस्य सम्बन्धो रामकथया सह वर्तते । चतुर्दशवर्षवनवासानन्तरम् अयोध्या प्रत्यागते रामे नगरवासिनः प्रमुदिताः स्वगृहेषु दीपानि प्रज्वाल्य अपारं मोदं प्रकटितवन्तः । तदाप्रभूत्येव प्रतिवर्षमयमुत्सवो मान्यते। बहुषु, स्थानेषु नववर्षोंत्सवरूपेण दीपावल्या महत्त्वमस्ति । व्यापारिणो वाषिर्क लेखमस्मादेव दिनादारभन्ते । ।