सदस्यः:Jashwanthbv/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

गणितम् गणितशास्त्रज्ञः[सम्पादयतु]

प्राचीनगणितम्[सम्पादयतु]

आधुनिकगणकयन्त्रम् अपि अतिशेते भारतीया वेदगणितपध्दतिः। शून्यं(0),दशांशपध्दतिः, सङ्ख्याः मूल्यम् इत्यादयः बहवः अंशाः भरतीयानां कारणतः एव गणितक्षेत्रं प्रविष्टवन्तः ।पैथगोरियन् सिध्दान्तः इति यत् इदानीं पाठ्यते (कर्णवर्गः उ पादवर्गः अ लम्बवर्गः) स च सिध्दान्तः पैथगोरसस्य जननात् त्रिशतवर्षपूर्वम् एव भारते शुल्बसूत्रे निरुपितः आसीत् ।

भास्कराचार्येण लीलावत्यां

तत्कृत्योर्योगपदं कर्णः दोष्कर्णवर्गयोर्विवरात् मूलं कोटिः कोटिश्रुतिकृत्योः अन्तरात् पदं बाहुः|| पिङ्गलाचार्यः छन्दः शास्त्रे मेरुप्रस्तारम् अधिकृत्य यत् प्रतिपादयति तदेव पास्कल्नामकेन अन्विष्टम् इति वयं पाठ्यपुस्तकेषु पठामः| अहो, विचित्रा अस्माकं विद्याभ्यासरीतिः!

प्राचीन कालस्य अति श्रेष्टः भारतीय गणितशास्त्रज्ञः वराहमिहिरः,भास्करः,आर्यभटः, महावीरः, द्वितीयः,श्रीधरः इत्यादयः गणनार्हाः।

यथा शिखा मयूराणां नागानां मणयो यथा। तथा वेदाङ्गशास्त्राणां गणितं मूर्ध्नि स्थितम्॥ आधुनिक कालस्य अति श्रेष्टः भारतीय गणितशास्त्रज्ञः श्रीनिवास रामानुजन् । अध्य समग्रे प्रपञ्चे उपयुज्यमानाः अङ्का (1,2,3,4,5,6,....) शून्यं (०) दशमानपद्धतिश्च भारते वर्षे अन्वैष्यन्त। रोमन् पद्धत्या संख्यानां लेखने महत् कष्टं सकलैरनुभूयते स्म ।अतः तत् त्यक्त्वा सर्वे देशाः भारतान्विष्टां पद्धतिमेव स्वीचक्रुः। इयं पद्धतिः अरबाणां द्वारा यूरोपं प्राप। अतः इमां 'अरबीया पद्धतिः' ,'अरबीयाः अङ्काः' इति केचन भ्रान्त्या व्यवहरन्ति।


श्रीनिवास रामानुजन्[सम्पादयतु]

श्रीनिवास: रामानुजन् (१८८७ - १९२० ) अतीव प्रसिद्धः महान् गणितज्ञ: आसीत्| विलक्षणप्रतिभासंपन्न: रामानुज: न केवलं गणितक्षेत्रे अभूतपूर्वम् आविष्कार: कृत: अपितु भारताय अतुलनीयं गौरवं प्रदत्त:।स: आधुनिकयुगस्य महानतमगणितज्ञेषु गण्यते।लण्डन् गमनानन्तरम् अस्य आरोग्ये इतोऽपि व्यत्यासः जातः इति। तमिळनाडुराज्यस्य ईरोडमण्डले अजायत।'हार्डि' कालान्तरे सन्दर्शने एकवारं रामनुजं प्रसिद्धिपथे आनीतवान् इदमेव मम गणितजीवनस्य मुख्यसंशोधनम इति स्वयम् एवम् उक्तवान् आसीदिति। अस्य जीवनम् अनारोग्यमयम् आसीदिति। जीवसत्वस्य न्यूनत्वात् क्षयरोगाच्च पीडितः एषः १९१९ तमे संवत्सरे भारतं प्रति आगतवान्। केषु चित् दिनेषु एव कुम्भकोणे मृतवान्। अस्य पत्नी जानकी अम्माळ् चेन्नैनगरस्य समीपे वासः आसीत्। एषा १९९४ तमे संवत्सरे मरणं प्राप्तवती।