सदस्यः:Omprakash 15/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
स्कन्दपुराणम्

भूमिका

धार्मिकदृष्ट्या पुराणामस्ति महत्वमधिकम्।वेदविहितानां धर्माणां सरलबोधभाषायां वर्णनं प्राप्यते।

"इतिहासपुराणाभ्वियां वेदं समुपबृंहयेत। विभेत्यल्पश्रुलाद्वेदो मामयं प्रहरिष्यति।"

      यदा वेदोवता अर्थाः लोकानां बुद्धौ नारोढुं प्रवत्ताः तदा वेदोक्तार्थस्य ज्ञानं सुलभं कर्तुं पुराणानि विरच्यन्तेस्म समाजस्य तात्कालिकस्वरूपबोधतायपि पुराणानां महानुपयोगः। पुराणेषु प्राचीनभारतस्येतिहासो निहितः। पुराणोक्तानामितिवृत्तिनां प्रामाणिकत्वं शिलालेखादिभिरपि कर्तुमारब्धम्।अतः विदेशीया अपि विद्वांसः पुराणे धृतादराः प्रतिभान्ति। इतिहासः यदि राज्ञां वृत्तं प्राधान्येन बोधयन्ति तदा पुराणानि राज्ञां वृत्तैः सह ऋषीणामपि वृत्तं बोधयन्तीति परमोपयोगित्वं पुराणानाम्।

पुराणलक्षणम्-

     पुराणं पुरातनमाख्यानमुच्यते,संस्कृते पुराणशब्दचिरन्तनपर्यायः पुराणेषु भूताः वर्तमानाः भाविनश्चार्याः वर्ण्यन्ते। पुराणेषु पुराणलक्षणमित्युक्तम्-
        "सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तरानि च।
         वंशानुचरितं चैव पुराणां पञ्चलक्षणम्॥"
     सर्गः सृष्टिः,प्रतिसर्गः सृष्टेर्लयः पुनश्च सृष्टिः,वंशः सृष्ट्यादौ वंशवली,मन्वन्तराणि के के मानवाः कदा कदा अजायन्तेति वर्णनानि,वंशानुचरितं सूर्यचन्द्रवंशयोर्विशिष्ट वर्णनम्।इदं वस्तु पञ्चकं पुराणेष्वपेक्ष्यते। 
पुराणस्य रचयिता कः? इत्यस्मिन् प्रसङ्गे त्रिधा विचारधारा पुराणसाहित्येतिहासे प्रतिपाद्यते।
यथा- (१)पुराणमीश्वरं प्रणीतमिति केचित्।(२) पुराणं ब्रह्मणो मुखेभ्यो निर्गतमिति अपरे।(३)पुराणं कृष्णद्वैपायनव्यासेन कृतमिति इतरे च।
तृतीयमतं प्रायः सर्वत्रैव पुराणोपपुराणेषुपलभ्यते यत् कृष्णद्वैपायनव्यासेन वेदानामुपबृंहणाय पुराणं प्रणीतमिति।स्कन्दपुराणे उच्यते-
"एकमेव पुरा ह्यासीत्पुराणं शतकोटिधा।                    ततोऽष्टादशधा कृत्वा वेदव्यासो युगे युगे॥                 प्रख्यापयति लोकेऽस्मिन् साक्षून्नारायणांशजः॥"(नागरखण्डे २/८-९)
विषयवर्णनम्
 देवसेनापति कुमार कार्तिकेयस्य अपर नाम स्कन्दः।पुराणेस्मिन् स्वामि कार्तिकेय शैवतत्त्वानि निरुपयति इत्यत्ः अस्य नाम प्रसिद्धः।अष्टादश पुराणेषु पुराणमिदं सर्वब्रहत्पुराणमस्ति।अत्र श्लोकः ८१,००० संख्याकः एवं षट् संहिताः वर्तन्ते।
यथा-(१)सनत्कुमार संहिता,(२)सुतसंहिता,(३)शङ्कर संहिता,(४)वैष्णव संहिता,(५)ब्राह्म संहिता,(‍६)सौर संहिता च। अन्यैरस्य विभाजनं खण्डरूपेणापि क्रियते। यथा माहेश्वर खण्डम्, वैष्णवखण्डम्,ब्रह्म खण्डम्,काशी खण्डम्,आवन्त्य खण्डम्, नागर खण्डम्,प्रभास खण्डश्च।

१) माहेश्वरखण्ड:

  माहेश्वरखण्डे केदार,कुमारिलखण्डद्वय़ं वर्तते।तत्र केदारखण्डे केदा महात्म दक्षयज्ञ,समुदमन्यत,पार्वतीपरिणय,कार्तिकेयजन्मवृत्तान्तः, पाण्डवानां तीर्थयात्रा अपि च धर्मवर्मा, इन्द्रदयुम्नादि राज्ञानां कथा वर्णितमस्ति।

२) वैष्णवखण्डः

  अत्र वराह अवतारस्य कथा वर्णितमस्ति। एवं अत्र उत्कलप्रदेशस्य जगन्नाथमन्दिरस्य पूजाविधानम्, रथयात्रा, बदरी, मथुरा महायात्रादि विभिन्न कथा, तथा अजस्त उपाख्यातोपलभ्यते।

३)ब्रह्मखण्डम्

  अत्र ब्रह्मारण्य ब्रह्मोत्तरखण्डद्वयं वर्तते। अत्र तीर्थानां माहात्म्यं सरपवर्णितमस्ति।यथा-व् वेतालतीर्थः,अप्सरातीर्थः,धर्मारण्यतीर्थः इत्यादि।तथा च महादेवस्य  ताण्डव नृत्यम्, दक्षयज्ञलोहासुर-तारकासुरयोः वर्णनम्, वर्णाश्रम धर्मतत्वनिरूपणं इत्यादि वर्णितम्।

४) काशीखण्डः

  काशीखण्डे काशीपुरास्तादृशं विस्तृतं वर्णनं विद्यते येन तस्या मानवचित्रमिव पुरतः उपतिष्टते।अपि च अत्र कृत्याकृत्य निर्णयः,गृहस्य सदाचारादि निर्दिष्टमस्ति।

५)आवन्त्यखण्डः

  अत्र विभिन्न काहिनी,उपकाहिनी वर्णनावसरे वल्मीकेश्वरः,केदारेश्वरः,आदिन्त्येश्वरः, कालभैरवादि देवानां महात्म्यम् उपवर्णितमस्ति।अपि च प्रायश्चित्यविधि शिवस्तोत्रादि वर्णनं विद्यते।

६) नागरखण्डः

  नारदपुराधारेण स्कन्दपुराणस्य षष्टखण्डं नागरखण्डमित्युच्यते।अत्र त्रयः परिच्छेदाः सन्ति, यथा-विश्वकमोर्पाख्यानम्,विश्वकर्मवंशाख्यानम्,द्वारकेश्वरमाहात्मञ्च ।अत्र हरिश्चन्द्र,परशुराम,विश्वामित्र,सावित्री उपख्यानं परिकीर्तितमस्ति। तथा च गया,गोकर्ण,पुष्कर वारणासि,बृन्दावनादि तीर्थक्षेत्र एवं गङ्गा,नर्मदा,सरस्वत्यादि नद्याः वर्णनं समूपवर्णितम्।

७) प्रभासखण्डः

  पुराणस्यास्य अन्तिमं खण्डमिदम्।अत्र दवाकायाः परितः विद्यमाना तीर्थक्षेत्राणां भौगोलिक विवरणमस्ति।भारतवर्षस्य भौगोलिक विस्तार तथा च वर्णनं ज्ञातुम् अस्य खण्डस्य महती उपयोगिता विद्यते।


उपसंहारम्

एवं स्कन्दपुराणस्य ऐतिहासिकं, साहित्त्यिकमूल्यञ्च वर्णनातीतम्। अस्य पुराणस्य वर्णना साहित्य-काव्यगुण समृद्धा विद्यते। अत्र उपमा,रूप,श्लेष,परसिख्यादि अलङ्काराणां प्रयोगः नितरां दृश्यते। अस्य पुराणस्य आधुनिक समाजे महती आवश्यकता अस्ति।

इमान्यपि दृश्यताम्[सम्पादयतु]