सदस्यसम्भाषणम्:Adarsh bhandari/प्रयोगपृष्ठम्

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

श्री महावीरन धाम

श्रीमहावीरनधाममंदिरम् अम्बेडकरनगरस्य (उत्तरप्रदेशस्य) प्रशिद्धहनुमानमन्दिरेषु अन्यतम: अस्ति । अस्य मन्दिरस्य वैशिष्टं न केवलम् अम्बेडकरनगरे अपितु समग्रे उत्तरप्रदेशे विदितमस्ति । अत्र भगतव: हनुमत: दर्शनाय दूरस्तात बहव: जना: प्रतिदिनम् आगच्छन्ति । स्थिति: - श्रीमहावीरनधाम अम्बेडकरनगरजनपदात् (जिल्लात:) प्रायश: 50 कि.मि. मिति दूरे स्थितेशूरापुरआपणे स्थितमस्ति । अम्बेडकरनगरात् महावीरनपर्यन्तं गन्तुं यदि आत्मन: यानं भवेत् अथवा भाटके यानं स्वीकुर्यात् चेत् सौकर्यं भवेत् । सामान्य भाटकेन (किरायाद्वारा) गन्तुं शहजादपुरक्षेत्रात् यानं स्वीकरणीयं भवेत् दोस्तपुर इति आपणाय । तस्मिन् मार्गे एव भूत्वा यानं शूरापुरआपणस्य कृते गच्छति ।

ऐतिहासिकं महत्वम् - महावीरनधाम्न: सुष्ठु ऐतिहासिकं महत्वं विद्यते । अस्य धाम्न: स्थापना कदा अभवत् इति तु सम्यक् न ज्ञात: इदानीं पर्यन्तं, किन्तु स्थानीया: जना: अस्य नूतनपरिवेशस्य स्थापनाविषये अवश्यमेव वदन्ति । अस्य पूर्वमेव स्थितं सरोवरं मकरीकुण्ड इति उच्यते । एवं जना: वदन्ति यत् एतस्मात् सरोवरात् एव भगवत: श्रीहनुमत: वर्तमान् प्रतिमा निर्गता आसीत् । अस्य स्थापना ग्रामीणजनै: मिलित्वा कृतासीत् । किन्तु तत् मकरीकुण्डं कदाआरभ्य अस्ति इति एतस्मिन् विषये केपि न जानन्ति । अस्य मकरीकुण्डस्य वैशिष्ट्यमस्ति यत् अस्य जलं कदापि शुष्कं नैव भवति । अकालं भवेत् दुर्भिक्षं वा किन्तु अस्य जलं कदापि शुष्कं न भवति इति । कथा - अस्मिन् विषये एका कथा प्रचलिता अस्ति यत् यदा रामावतारे भगवत: रामस्य भ्राता लक्ष्मण: मेघनादस्य शक्तिघातेन मूर्छित: जात: तदा सुषेणवैद्येन संजीवनी इति आनेतुं श्रीहनुमत: प्रेरित: । श्रीहनुमान जी आकाशमार्गेण गच्छन् आसीत् । एषा घटना रावण: श्रुतवान् । स: जानाति स्म यत् हनुमान जी संजीवनीम् आनेतुं समर्थ: अस्ति यतोहि स: पूर्वमेव तस्य बलं ज्ञातवान् आसीत् । अत: बलेन अस्य मार्गे बाधा कर्तुं शक्यं नास्ति इति विचार्य स: स्वानुचरं कालनेमि इत्यभिधानकं स्वमायया भगवत: हनुमत: मार्गबाधा भवतु इति प्रेरितवान् । कालनेमि: एकस्य साधो: स्वरूपं धृत्वा मार्गेरामनामोच्चारणम् आरब्धम् । श्री हनुमान् जी यदा तं प्रति गतवान् तदा स: तम् (हनुमतं) मम शिष्यत्वं स्वीकुरु इति उक्तवान् । शिष्यत्वं स्वीकर्तुं यदा श्रीहनुमान् जी सिद्ध भवति स्म तदा स: स्नानं कर्तुं भवान् कुण्डे गच्छतु इति आदिष्टवान् । श्रीहनुमान् जी कुण्डे गतवान् किन्तु स: न जानाति स्म यत् कुण्डे एका मकरी विराजते । कालनेमि: चिन्तितवान् यत् एष: कुण्डे प्रविशेत् । तत्र मकरी एतम् आहाररूपेण स्वीकरिष्यति इति ।

यदा श्री हनुमान् जी कुण्डे प्रविष्टवान् तदा मकरी भगवत: पादौ गृहीतवती । श्रीहनुमान् जी क्रीडायामेव तां हतवान् । तदा तस्या: मकर्या: आकृति: देव्या: अभवत् । सा उक्तवती यत् एष: कालनेमि: दुष्ट: न तु साधु: । एवं विज्ञाय श्रीहनुमान् जी कुण्डात् बहिरागतवान् । कालनेमिं प्रति गतवान् । तं हतवान् । पुनश्च भगवत: रामस्य कार्यसाधनाय अग्रे गतवान् । यस्मिन् कुण्डे श्रीहनुमान् जी स्नानं कृतवान्, मकरीं हतवान् स: कुण्ड: एव सम्प्रति मकरीकुण्ड इति अभिधीयते । यत्र श्रीहनुमानजी कालनेमिं हतवान् तदेव स्थानं महावीरन् मन्दिरं इति कथ्यते । अस्य पवित्रस्थानस्य दर्शनेन एव जनानां सर्वपापशमनं भवति । अत्र जनानां सर्वा: मनोकामना: पूर्यते । जनानां प्रार्थना साक्षात् भगवन्तं हनुमतं प्रति गच्छति । एवं वक्तुमपि शक्यते यत् भगवान् श्री हनुमान् जी अत्र साक्षात् विराजते कलौयुगे भक्तान् दर्शनं प्रददातुमिति ।