सदस्यसम्भाषणम्:CYRIAC AUGUSTINE/प्रयोगपृष्ठम्

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

== विरेन्देर सेह्वग् (Virender Sehwag) ==

विरेन्देर सेह्वग् (Virender Sehwag) प्रसिद्धः कश्चन क्रिकेट्क्रीडापटुः । जगत्प्रसिद्धः मुष्टियुद्धपटुः मोहमदालिः आत्मनिर्वेदं विना घोषयति - "अहम् अस्मि अतीव प्रतिभाशाली" इति। नम्रवाग्मिना विरेन्देर सेह्वग्रेन कदापि न उच्यते यत् 'क्रिकेट्क्षेत्रे, महाप्रतिभाशाली अस्मि अहम् एव' इति । किन्तु निस्सन्देहं सः तथा अस्ति एव।सः जागतिकक्रिकेटक्षेत्रस्य केन्द्रबिन्दुः जातः अक्टोबरमासस्य १७ दिनाङ्के मोहाल्यां, यत्र आस्ट्रेलिया भारतयोः द्वितीयं टेस्ट् प्रवृत्तम् । तेन अनेके पुरस्काराः प्राप्ताः ।

सेह्वगस्य द्दढाग्रहः निष्ठायुता परिश्रमशीलता च तस्य यशसः कारणानि । एकदिनात्मिकायां क्रीडायां तेन १०० क्रीडापटवः बाह्यीकृताः, १०० कन्दुक-ग्रहणानि कृतानि च सन्ति । प्रसिद्धस्य वीक्षकविवरणकर्तुः हर्षाभोग्लेवर्यः वदति -‘सेह्वग् क्रिकेटरूपस्य गौरीशङ्करपर्वतस्य शिखरे एव स्थितः अस्ति’ इति ।

विरेन्देर सेह्वग् अक्टोबरमासस्य २० तमे दिने १९७८ तमे वर्षे जातः। अयं भारतीयक्रिकेट्-क्रीडालुः विश्वस्य क्रिकेट्-इतिहासे अतिश्रेष्ठक्रिकेट्-ब्याट्स्मन् वर्तते । सः क्रिकेट्-इतिहासे एव अत्यधिकशतकानि अपि साधितवानस्ति, पञ्चदिवसीय क्रिकेट् क्रीडास्पर्धायां (टेस्ट् इति कथ्यते) एकदिवसीयायाम् अन्ताराष्ट्रिय-क्रिकेट्-क्रीडायां च । एकदिवसीयक्रीडायां द्विशतकं धावनाङ्कान् साधितवत्सु क्रीडालुषु अस्ति ।

स: विरु इति नाम्ना प्रसिध:।सेह्वग् विश्वप्रशस्ति-क्रिकेट्-स्पर्धायां षड्वारं भागम् ऊढवान् अस्ति । सेह्वग् भारतस्य लोकप्रियः क्रीडालुः वर्तते। प्रथमश्रेण्याः क्रिकेट-क्रीडायां सेह्वग् देहली-दलस्य प्रतिनिधित्वं करोति ।