साम्युयेल् हानिमन्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
Hahnemann.jpg
फ्रान्स्-देशस्य प्यारिस्-नगरे विद्यमाना साम्युयेल् हानिमनस्य मूर्तिः
वृद्धाप्ये साम्युयेल् हानिमन्
अमेरिकादेशस्य वाशिङ्ग्टन्-नगरे विद्यमाना साम्युयेल् हानिमनस्य मूर्तिः

(कालः – १७५५ तः १८४३)

अयं साम्युयेल् हानिमन् (Samuel Hahneman) “होमोयोपति” इत्यस्याः वैद्यपद्धतेः जनकः । अस्य पूर्णं नाम प्रेडरिक् क्रिस्टियन् साम्युयेल् हानिमन् इति । अयं १७५५ तमे वर्षे “मेस्सीन्” नामके लघु ग्रामे जन्म प्राप्नोत् । अस्य पिता मृत्पात्राणाम् उपरि वर्णैः चित्राणि लिखति स्म । सा एव तस्य वृत्तिः आसीत् । तस्मात् कारणात् गृहे सर्वदा दारिद्र्यम् एव भवति स्म । द्रारिद्र्यस्य कारणात् शालाशिक्षणं विना शुल्कं प्राप्नोत् अयं साम्युयेल् हानिमन् । तस्य वैद्यविज्ञाने महती आसक्तिः आसीत् । अतः अयं साम्युयेल् हानिमन् महता परिश्रमेण वियन्ना तथा एर्लाञ्जेन् विश्वविद्यालययोः अधीत्य वैद्यपदवीं प्राप्तवान् । ड्रेस्डेन्, लैप्जिम् इत्यादिषु नगरेषु वैद्यवृत्तिं कृत्वा उत्तमः वैद्यः इति प्रसिद्धिम् अपि सम्पादितवान् । अयं साम्युयेल् हानिमन् बह्वीषु भाषासु पण्डितः आसीत् । अतः इङ्गीष्, फ्रेञ्च् इत्यादिभ्यः भाषाभ्यः अनुवादम् अपि करोति स्म ।


अयं साम्युयेल् हानिमन् १७९० तमे वर्षे यदा स्काट्लेण्ड्–देशस्य विलियं कुल्लेत्स् इत्यनेन लिखितस्य औषधशास्त्रस्य ग्रन्थस्य अनुवादं कुर्वन् आसीत् तदा कश्चन कुतूहलकरः विषयः तम् आकर्षत् । मलेरियाज्वरस्य चिकित्सार्थं तदानीन्तने काले “सिङ्कोन्” नामकस्य वृक्षस्य त्वक्, रसः च उपयुज्यते स्म । तत् औषधम् यदि आरोग्यवान् मनुष्यः सेवेत तर्हि कः परिणामः भवेत् इति ज्ञातुम् अयं साम्युयेल् हानिमन् प्रतिदिनं स्वयम् एव ४ ग्रां यावत् असेवत । तदा तस्मिन् शैत्यं, ज्वरः, तिक्तरुचिः इत्यादीनि सर्वाणि अपि लक्षणानि मलेरियाज्वरस्य एव लक्षणान् आसन् । एतं प्रयोगं दृढीकर्तुं सः साम्युयेल् हानिमन् मित्रेभ्यः अपि तत् औषधम् अददात् । तदनन्तरं तेषु जातान् परिणामान् परिशील्य “सर्वम् अपि औषधं स्वस्य गुणधर्माणाम् अनुसारं विद्यमानान् रोगान् केवलं परिहरति” इति सूत्रं सज्जीकृतवान् । एषः एव सिद्धान्तः ल्याटिन्–भाषायां “सिमिलिय सिमिलिबस् क्यूरेन्तर्” इति उच्यते । अयं सिद्धान्तः ’औषधैः परिहर्तुं शक्यानां सवेषां रोगाणां कृते उपयुज्यमानानां सर्वेषाम् औषधवस्तूनाम् अषधीयानां लक्षणानां संशोधनार्थं साहाय्यम् अकरोत् । अस्य सिद्धान्तस्य द्वारा एव अयं साम्युयेल् हानिमन् रोगलक्षणविज्ञानस्य, चिकित्सातन्त्राणां साम्यस्य मूलस्य च संशोधनम् अकरोत् । एषा एव “होमियोपति”–पद्धतिः । ग्रीक्–भाषायां “होमियो” इत्युक्ते समः, “प्याथोस्” इत्युक्ते वेदना अथवा रोगः इति अर्थः ।


होमियोपति नाम सदृश–क्रिया–चिकित्सा–पद्धतिः इति । सामान्यतया अन्यासु वैद्यपद्धतीषु आवश्यकतायाः अपेक्षया अधिकप्रमाणेन औषधानि दीयन्ते । तेन रुग्णस्य जीवशक्तिः अपि नश्यति । तस्य निवारणार्थम् एव अयं साम्युयेल् हानिमन् प्राकृतिकरूपेण प्राप्यमाणानां खनिजानां, सस्यानां, प्राणिनां मूलैः निर्मितानाम् औषधानाम् उपयोगस्य पद्धतिम् आरब्धवान् । सा एव होमोयोपति–वैद्यपद्धतिः । अस्य सिद्धान्तस्य अनुसारं निर्मितानि औषधानि प्रथमं स्वस्य उपरि, कुटुम्बजनानाम् उपरि, मित्राणाम् उपरि स्वयं सेवकरोगिणाम् उपरि च प्रयुक्तवान् । तस्य प्रयोगस्य यशसः अनन्तरम् एव अन्येभ्यः तानि औषधानि अयच्छत् । एवं प्रकारेण प्राप्तान् अनुभवान् लिखित्वा प्राकटयत् १८०५ वर्षे । कालान्तरे अयं साम्युयेल् हानिमन् स्वेन लिखितायाः पद्धतेः तर्कबद्धानि विवरणानि सर्वाणि “आर्गनान्” इति ग्रन्थे लिखित्वा १८१० वर्षे प्राकटयत् । स च ग्रन्थः अत्यन्तं न्यूने अवधौ एव जनप्रियतां प्राप्य बह्वीषु आवृत्तीषु प्रकाशितः अभवत् । अयं साम्युयेल् हानिमन् वैद्यकीये क्षेत्रे एव असाधारणः प्रतिभावान् । सः ८८ तमे वयसि १८४३ तमे वर्षे इहलोकम् अत्यजत् ।

"http://sa.wikipedia.org/w/index.php?title=साम्युयेल्_हानिमन्&oldid=245488" इत्यस्माद् पुनः प्राप्तिः