स्वातिः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्

रविमार्गे दृश्यमानेषु २७ प्रमुखनक्षत्रसमूहेषु अन्यतमं वर्तते स्वातिनक्षत्रम् । प्रतिदिनं चन्द्रः यस्मिन् नक्षत्रे दृश्यते तत् नक्षत्रं दिननक्षत्रम् इति उच्यते । शिशोः जननावसरे चन्द्रः यत्र भवति तत् तस्य जन्मनक्षत्रम् इति कथ्यते । हिन्दुज्योतिष्शास्त्रस्य अनुगुणम् स्वातिनक्षत्रं भवति पञ्चदशं नक्षत्रम् ।
आकाशः ३६० डिग्रियुक्तः इति भाव्यते चेत् सः सप्तविंशतिधा विभज्यते चेत् एकैकः भागः १३.२० डिग्रियुक्तः भवति । एकैकम् अपि क्षेत्रं चतुर्धा यदि विभज्येत तर्हि १०८ भागाः भवन्ति । एकैकोपि भागः ३.२० डिग्रियुक्तः भवति । तन्नाम नक्षत्रस्य प्रत्येकभागः ३.२० डिग्रियुक्तः भवति । एकस्य नक्षत्रस्य १३.२० डिग्रिपरिमितभागः । एकस्य राशेः ३० डिग्रिभागः । १२ राशीनां ३६० डिग्रिपरिमितः भागः भवति ।

स्वातिनक्षत्रम्

आकृतिः[सम्पादयतु]

स्वाति माणिक्यमेकम् - माणिक्याकृतौ विद्यमानं किञ्चन नक्षत्रम् ।

सम्बद्धानि अक्षराणि[सम्पादयतु]

रू रे रो ता - स्वातिनक्षत्रसम्बद्धानि अक्षराणि ।

अधिदैवम्, वैदिकविवेचनम्[सम्पादयतु]

वायुर्नक्षत्रमभ्येति निष्ट्यां तिग्मशृङ्गो वृषभो रोरुवाणः, समीरयन् भुवनानि विश्वा ।
तन्नो वायुर्निष्ट्या शृणोतु भूरिदाऽस्तु यथा तरेम ॥

स्वातिनक्षत्रस्य अधिपतिः वायुदेवः । स्वातिनक्षत्रं निष्ट्यानक्षत्रम् इत्यपि निर्दिश्यते । तैत्तिरीयब्राह्मणस्य १-५-२ मन्त्रे उक्तमस्ति यत् स्वातिनक्षत्रे परिणीता कन्या पत्युः प्रियतमा भविष्यति, कदापि सा तं परित्यज्य पितृगृहं न गमिष्यति इति । स्वातिनक्षत्रस्य वर्णनं कुर्वन् वैदिकऋषिः कथयति - तेजस्वी इष्टप्रदः शब्दायमानः वायुदेवः समग्रविश्वं प्रेरयन् निष्ट्यानक्षत्रेण सह आगच्छन् अस्ति । सः बहुप्रदः अस्ति । अस्माकं कष्टानि निवारयिष्यति ।

आश्रिताः पदार्थाः[सम्पादयतु]

स्वातौ खगमृगतुरगा वणिजो धान्यानि वातबहुलानि ।
अस्थिरसौहृदलघुसत्त्त्वतापसाः पण्यकुशलाश्च ॥

खगाः पक्षिणः । मृगा अरण्यप्राणिनः । तुरगा अश्वाः । वणिजः क्रयविक्रयनिरताः । धान्यानि शालयः । वातबहुलानि चणकप्रभृतीनि । अस्थिरसौहृदः अस्थिरमित्राणि । लघुसत्त्वा अल्पसत्त्वाः । तापसास्तपोनिरताः । पण्यकुशलाः पण्यप्रवीणाः । केचिद्वन्यकुशला इति पठन्ति । वने भवा वन्यास्तेषु कुशलाः । एते सर्व एव स्वातौ ॥

स्वरूपम्[सम्पादयतु]

सुरनरसद्मविधानं भूषणवैवाहमङ्गलाद्यखिलम् ।
बीजारोपणशस्त्रक्षितिपतिसमरं विभूषणं स्वातौ ॥

स्वातिनक्षत्रे देवता-मनुष्यगृहस्य विधानम्, आभूषणम्, व्यावहारिककृत्यम्, मङ्गलकृत्यम्, बीजारोपणम्, शस्त्रकर्म, राजकर्म युद्धकर्म इत्यादीनि कार्याणि कर्तुं शक्यन्ते ।

चरसंज्ञकनक्षत्राणि[सम्पादयतु]

श्रवणत्रयमादित्यानिले च चरकर्मणि हितानि ॥ अथ साधारणे नक्षत्रे ताभ्यां यानि च कर्माणि कारयेत्, तथा चराणि नक्षत्राणि तैश्च यानि कर्माणि क्रियन्ते तानि चाह - श्रवणत्रयं श्रवणं धनिष्ठा शतभिषगिति । आदित्यं पुनर्वसुः । आनिलं स्वातिः । ते आदियानिले च । एतानि पञ्च नक्षत्राणि । तानि च चरकर्मण्यस्थिरे कर्मणि हितानि प्रशस्तानि ।


पश्य[सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=स्वातिः&oldid=244034" इत्यस्माद् पुनः प्राप्तिः