सततं कीर्तयन्तो मां...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(९.१४ सततं कीर्तयन्तो.... इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः[सम्पादयतु]

गीतोपदेशः
सततं कीर्तयन्तो मां यतन्तश्च दृढव्रताः ।
नमस्यन्तश्च मां भक्त्या नित्ययुक्ता उपासते ॥ १४ ॥

अयं भगवद्गीतायाः नवमोध्यायस्य राजविद्याराजगुह्ययोगस्य चतुर्दशः(१४) श्लोकः ।

पदच्छेदः[सम्पादयतु]

सततं कीर्तयन्तः मां यतन्तः च दृढव्रताः नमस्यन्तः च मां भक्त्या नित्ययुक्ताः उपासते ॥ १४ ॥

अन्वयः[सम्पादयतु]

दृढव्रताः सततं कीर्तयन्तः यतन्तः च मां नमस्यन्तः च नित्ययुक्ताः भक्त्या माम् उपासते ।

शब्दार्थः[सम्पादयतु]

दृढव्रताः = कठोरनियमाः
सततम् = सदा
मां कीर्तयन्तः = मां गायन्तः
यतन्तः च = पूजादिषु प्रयत्नं कुर्वन्तः
भक्त्या = प्रीत्या
नमस्यन्तः च = नमस्कुर्वन्तः च
नित्ययुक्ताः = सततयोगाः सन्तः
माम् उपासते = मां भजन्ते ।

अर्थः[सम्पादयतु]

केचित् कठोरं नियमम् अनुसरन्तः पुरुषाः मां सर्वदा स्तुवन्तः, पूजादिषु प्रयत्नं कुर्वन्तः, भक्त्या नमस्कुर्वन्तश्च मां सर्वदा समाहितमनस्काः सेवन्ते ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=सततं_कीर्तयन्तो_मां...&oldid=418844" इत्यस्माद् प्रतिप्राप्तम्