क्षिप्रं भवति धर्मात्मा...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(९.३१ क्षिप्रं भवति धर्मा.... इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः[सम्पादयतु]

गीतोपदेशः
क्षिप्रं भवति धर्मात्मा शश्वच्छान्तिं निगच्छति ।
कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति ॥ ३१ ॥

अयं भगवद्गीतायाः नवमोध्यायस्य राजविद्याराजगुह्ययोगस्य एकत्रिंशत्तमः(३१) श्लोकः ।

पदच्छेदः[सम्पादयतु]

क्षिप्रं भवति धर्मात्मा शश्वत् शान्तिं निगच्छति कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति ॥ ३१ ॥

अन्वयः[सम्पादयतु]

दुराचारोऽपि क्षिप्रं धर्मात्मा भवति । शश्वत् शान्तिं निगच्छति । कौन्तेय ! प्रतिजानीहि, मे भक्तः न प्रणश्यति ।

शब्दार्थः[सम्पादयतु]

(दुराचारोऽपि) क्षिप्रम् = शीघ्रम्
धर्मात्मा = धर्मबुद्धिः
भवति = सम्पद्यते
शश्वत् = नित्यम्
शान्तिम् = उपशमम्
निगच्छति = प्राप्नोति
कौन्तेय = कुन्तीपुत्र !
मे भक्तः = मम भक्तः
न प्रणश्यति = नाशं न गच्छति इति
प्रतिजानीहि = प्रतिज्ञां कुरु ।

अर्थः[सम्पादयतु]

अर्जुन ! दुराचारोऽपि पुरुषः अनन्यचित्तः मां यदि भजते तर्हि सः शीघ्रं पुण्यात्मा भवति, शाश्वतीं च शान्तिं प्राप्नोति । पार्थ ! सभासु दृढमिदम् उद्घोषय यत् मे भक्तः न प्रणश्यति ।’

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]